________________ प्रथमस्तवके ] .... स्वभावकारणतावादखण्डनम् / नियमे समवायिकारणमात्रं निबन्धनमपि तु सामग्री / अन्यथा द्रव्यगुणकर्मणामेकोपादानकत्वे विजातीयत्वं न स्यात् / न च कार्यद्रव्यस्यैषा रीतिरिति युक्तम् / आरब्ध्रदुग्धैरेवावयवैर्दध्यारम्भदर्शनात् / . बोधनी / दिभिर्व्यभिचार इत्यत्राह-न च कार्यद्रव्यस्य-इति / न च दुग्धमेव दध्यारभते न तदवयवा इति वाच्यम् / कार्यद्रव्यस्यानेकद्रव्यारभ्यत्वनियमाद् दधिकाले दुग्धानुवृत्त्यमावाच / न च दुग्धाम्लद्रव्याभ्यामेवारम्भः, विजातीयानां सहारम्भानुपपत्तेः / तेन दुग्धावयवा अम्लसंयोगाद् विनष्टदुग्धकार्या दध्यारभन्त इनि न समवायिभेदनिबन्धनः कार्यद्रव्यभेदोऽपीति / - प्रकाशः। अपि विति / सामग्री च तृणादिघटिता भिन्नैवेति भावः / अन्यथेति / न च समवायिनो द्रव्यस्थाभेदेऽपि कारणतावच्छेदकधर्मभेदाद् द्रव्यादीनां जातिभेदः स्यात् / तथाहि द्रव्यजनने स्पर्शवत्त्वमवच्छेदकं, गुणकर्मजनने तु द्रव्यत्वमूतत्वे तथेति वाच्यम् ।द्रव्यत्वेनैकेनैव रूपेण संयोगविभागौ प्रति कारणत्वेऽपि तयोर्जातिभेदात् , कारणतावच्छेदकस्याकारणत्वाच्चेति भावः / न च कार्यमात्ररीतिरेषा, अपि तु द्रव्यस्य सतः, अतो न द्रव्यादिभिः समानोपादानैर्व्यभिचार इत्याह / न चेति / एवं सति समवाय्यभेदे कार्यद्रव्यं दधिदुग्धरूपं न भिद्येत क्षीरपरमाणव एवाम्लसंयोगानष्टकार्यद्रव्या दध्यारभन्ते / अत एव, क्षीरं नष्टं दधि जातमिति लौकिकोऽयमनुभव इत्याह / आरब्धेति। नन्वतीन्द्रियेषु परमाणुषु दर्शनाभावाद् दध्यारम्भको योग्योऽवयवो वाच्यः। तत्र च क्षीरत्वं योग्यानुपलब्धिबाधितम् / प्रत्युतावयवावयविवृत्तिजातित्वेन पृथिवीत्ववद् दधित्वस्य परमाणुवृत्तिवमनुमेयम् / न च तन्तुत्वेन व्यभिचारः, तस्य पटावयवे अंश्ववयविनि वृत्तेरिति वाच्यम् / प्रकाशिका। मिति स्वमतावष्टम्भेनेदमुक्तं कारणतावच्छेदकधर्मेति / अवच्छेदकभेदादेव च कार्यभेद इत्यर्थः / कारणतावच्छेदकस्येति लाघवात् , कारणभेदस्यैव कार्यभेदप्रयोजकत्वादिति भावः। क्षीरपरमाणव एवेति / तादृशदुग्धध्वंसविशिष्टाः पाकजाम्लरससहकृताश्चेति शेषः। अत एवेति / क्षीरनाशदण्युत्पत्योः सामानाधिकरण्यानुभवान्नाशस्य च प्रतियोगिसमवायिवृत्तित्वादेकमधिकरणं क्षीरदध्नोरित्यर्थः / - प्रत्युतेति। तथा च दधित्वाश्रयपरमाणोरेव दुग्धनाशे सति दध्यारम्भ इति नैकोपादानकत्वं तयोरिति भावः / अवयवावयवीति / कार्यकारणवृत्तित्वमात्रोक्तो रूपत्वादी व्यभिचार इत्यवयवावयवीति / अत्रापि समवायिसमवेतवृत्तित्वादित्येवार्थो न तु कारणत्वघटितो व्यर्थविशेषणत्वादित्यवधेयम् / जातिपदं च द्वित्वादौ व्यभिचारवारणाय / कार्यत्वे सतीति / द्वितीयस्य घटादौ व्यभिचारवारकतया प्रथमस्यानवस्थावारकतया व्याप्तिग्राहकत्वमित्यवधेयम् / अनवस्थाभिया कस्यचन दध्नो मकरन्दः। कारणताऽवच्छेदकस्येति / कारणभेदस्यैव तद्भेदप्रयोजकत्वादिति भावः / प्रत्युतेति / तथाच तत्तत्परमाणुभिरेव तत्तदारम्भ इति नैकोपादानकत्वं तयोरिति भावः। अत्र च जातिपदं द्वित्वादौ ज्यभिचारवारणाय / न च कार्यकारणोभयवृत्तित्वादित्येवास्तु कृतमवयवादिपर्यन्तेनेति वाच्यम् / पत्वादौ व्यभिचारात् / न चैवमपि समवायिकार्यवृत्तित्वादित्येवास्तु, तत्रैव तात्पर्यादित्याहुः / . दधि ससमवायिकारणकं भावकार्यत्वादित्यनुमानं लाघवाख्यतर्कसहकृतं दुग्धारम्मकपरमाणुव विषयीकरोति, अन्यथा गौरवात् / दुग्धं विनाऽपि कदाचिद् दध्यापत्तश्चेत्याशयवानाह। . 10 न्या०कु०