________________ 72 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ 6 कारिकाव्याख्यायो व्यतीति चेन्न / निमित्तस्यादर्शनादु दृष्टस्य चानिमित्तत्वात् / एतेन सूक्ष्मजातीया. दिति निरस्तम् / अवरपि तत्सौम्याद् धूमोत्पत्त्यापत्तेः। कार्यजातिभेदाभे दयोः समवायिभेदाभेदावेव तन्त्रं, न निमित्तासमवायिनी इति चेन्न / तयोरकारणत्वप्रसङ्गात् / न हि सति भावमात्रं तत् , किन्तु सत्येव भावः / न च जाति बोधनी। वेति विकल्पं हृदि निधायाह-निमित्तस्य-इति / यस्मिन् सत्येव यद् भवति तत् तस्य निमित्तं, इह तु न तथाविधनिमित्तं दृश्यते, ये तु दृश्यन्ते तृणादयो, न ते निमित्तं, तद्व्यतिरेकेऽपि कार्यव्यतिरेकाभावात् ; अन्वयमात्रेण शक्तिकल्पनायां रासभादिष्वपि प्रसङ्गः। तेन च ये निमित्ततया दृष्टास्तेषु शक्तिकल्पनमिति नायं समाधिरिति / नन्वस्ति तृणादिष्वपि दृश्यमानस्थूल जातिभेदेषु सूक्ष्मा काचिदेका जातिः, ततः कार्यजातिनियम इत्याशङ्कयाह-एतेन इति-कार्यकारणनिवृत्तिभ्यां कारणकार्यनिवृत्त्यनुमानभङ्गप्रसङ्गेनेति / यद्यस्ति जातिः किमिति नोपलभ्यते इत्य. त्रोक्तं सूक्ष्मजातीयात्-इति / अतिदिष्टमेव हेतुं स्पष्टयति-अवह्नः इति / धूमप्रयोजकसुक्ष्मजातिमतोऽप्यवहेरिति शङ्कते-कार्य-इति / निमित्तासमवायिनीभिन्नाभिन्नेइति शेषः / तृणादीनां तु निमित्तकारणत्वात् तद्वैजात्येऽपि न कश्चिद् दोष इति भावः। न-इति। यदि निमित्तासमवायिभेदेऽपि तज्जातीयमेव कार्यमनुवर्तते ततस्तयोरकारणत्वमेव स्यादिति / नन्वस्तु कार्यान्वयादेव तयोः कारणत्वमिति तत्राह-न हि-इति / तत्कारणत्वं नान्वयमानं किन्तु सत्येव कारणे कार्यभावः, व्यतिरेकोऽप्यङ्गमित्यर्थः / किञ्च, समवाय्यभेदेऽपि अतज्जातीयकार्यदर्शनान्न तद्भेदाभेदौ कार्यभेदाभेदयोर्निदानमित्याह-न च-इति / ननु मा भूत् कार्यमात्रभेदस्य समवायिभेदो निबन्धनं, किन्तु द्रव्यस्य सतः कार्यस्य प्रकारोऽयं यत् समवायिमात्रभेदेन भेद इति / अतो न गुणा प्रकाशः। दोष इत्यर्थः / निमित्तस्येति / तृणादिषु कारणतावच्छेदकरूपस्यादर्शनात् / न च शक्तिरेव तथा / अन्योन्याश्रयात् / कारणत्वग्रहे तत्कल्पनम् , अन्यथा रासभेऽपि तदापत्तेः, तत्कल्पनेन च कारणत्वग्रहः / तस्यान्वयव्यतिरेकावच्छेद्यत्वात् , दृष्टस्य च तृणत्वादेः, अनिमित्तत्वात् कारणतानवच्छेदकत्वादित्यर्थः। तृणादिषु व्यभिचारमग्निकुर्वद्रूपत्वादतीन्द्रियजातिविशेषाद् ये परि. हरन्ति, तेऽप्यत एव निरस्ता इत्याह / एतेनेति / ननु तृणादयोऽग्नौ निमित्तकारणानि / न च तत्साजात्यवैजात्याभ्यां कार्यसाजात्यवैजात्ये, किन्तु समवायिनस्तथात्वात् / तच्चामावस्त्येवेति शङ्कते / कार्येति / तथापि तृणादेर्व्यभिचारेण कारणत्वं न स्यादिति परिहरति / तयोरिति / न हीति / व्यभिचारिणोऽपि कारणत्वापातादिति भावः / किन्त्विति / तृणादौ चैकैकाभावेऽप्यग्ने. र्भावात् कारणत्वं न स्यादित्यर्थः / न च समवायिकारणसाजात्यादिकमपि कार्यस्य तथात्वे तन्त्रम्। तदभावेऽपि कार्यवैजात्यदर्शनादित्याह / न चेति / / प्रकाशिका रत्र। अत एव मूले कारणव्यावृत्त्या चेति। तथापि तृणादेरिति / यद्यपि व्यक्त्यपेक्षयैव नियमोऽस्त्विति पूर्वपक्षोपक्रमात् , व्यभिचारेऽपि व्यक्त्योः कार्यकारणभावोऽविरुद्ध एव। तथापि रासभादेरपि व्यक्त्यपेक्षया नियमसत्त्वात् कारणत्वं स्यादिति भयेन जात्यपेक्षयैव कारणत्वं वाच्य टिप्पणी। तु कार्यानुपलब्धेरेकस्या लिङ्गलां बिवक्षितम् प्रन्थविरोधात् / अनुपलब्धिः कारणाभावोपलब्धिः, न तु कारणोपलब्ध्यभावः / ग्रन्थे तल्लिङ्गकानुमानभङ्गस्याप्रदर्शनात् / अत एव कारणव्यावृत्त्येति मूले व्यावृत्तिरभावः। अवसीयेतानुमीयेतेत्यर्थः / तथा च कारणाभावस्य लिङ्गत्वं मूलप्राप्तमिति भावः