________________ प्रथमस्तवके ] __ स्वभावकारणतावादखण्डनम् / 71 सर्वस्मात् सर्वजातीयमेकजातीयं वा स्यात् / कथं तर्हि तृणारणिमणिभ्यो भवनाशुशुक्षणिरेकजातीयः? / एकशक्तिमत्त्वादिति चेन्न / यदि हि विजातीयेष्वप्येकजातीयकार्यकारणशक्तिः समवेयाद्, न कार्यात् कारणविशेषः काप्यनुमीयेत / कारणव्यावृत्त्या च न तज्जातीयस्यैव कार्य्यस्य व्यावृत्तिरवसीयेत / तदभावेऽपि तजातीयशक्तिमतोऽन्यस्मादपि तदुत्पत्तिसम्भवात् / यावद्दर्शनं व्यवस्था भवि बोधनी। व्यमित्यस्य यस्य कस्यचित् कारणस्य स्वभावस्तदापि तत्कारणस्वभावप्रयुक्तजातीयत्वं सर्वेषां तत्कार्याणां भवेत् / तत्र यदि यस्य कस्यचित् कारणस्यानेकजातीयजनकत्वं स्वभावस्तदा सर्वस्यापि तत्कार्यस्य प्रत्येकं सर्वजातीयत्वं भवेत् / अथैकजातीयत्वं तर्हि सर्वस्याप्येकजातीयत्वं भवेदिति / यद्वा, पूर्व यतः कुतश्चिद्भवतस्तज्जातीयत्वस्वभाव इति भवनोद्देशेन तज्जातयीस्य भावविधिमाशङ्कय यतः कुतश्चिद् भवतोऽनेकजातीयस्वभावत्वं विधीयते, एकजातीयस्वभावत्वं वा। पूर्वकस्यैव सर्वजातीयत्वं भवेत् , यतः कुतश्चिद् भवनाविशेषात् ; उत्तरत्र सर्वस्याप्येकजातीयत्वं भवेत् , तत एव हेतोरिति परिहृतम् / पश्चात्तु तज्जातीयस्य यतः कुतश्चिद्भवनं स्वभाव इति तज्जातीयो द्देशेन यतः कुतश्चिद् भवनविधिमाशङ्कय तज्जातीयस्य सर्वस्यापि यतः कुतश्चिद् भवनस्वभावत्वं वा स्यात् , नियतजातेः कस्यचिदेव वा, पूर्वत्र सर्वस्माद् यतः कुतश्चिद् भवदेकमेव सर्वजातीयं भवेद् , उतरत्र सर्वस्मादपि यतः कुतश्चिद् भवदनेकमेकजातीयं भवेदिति परिहार इति / अत्र व्याख्याद्वये ग्रन्थार्थयोरौचित्यविशेषोऽवहितानां सुगम इति / न च नित्यजातिनियमतद्धत्वनपेक्षत्वं कार्यजातिनियमस्य वाच्यम् / हेत्वनपेक्षव्यक्तिप्रयुक्तत्वात् तस्येति कारणवैजात्यवादी स्वाभिप्रायमुद्घाटयतिकथं तर्हि-इति / पूर्वपक्षस्थ एव विजातीयेषु कारणेष्वेकशक्तित्वमाशङ्कय कार्यानुपलब्धिलिङ्गभङ्गप्रसङ्गेन निराकरोति-एकशक्तिमत्त्वात्-इति / अनुमानद्वयभङ्गेऽपि हेतुस्तदभावेऽपि त ज्जातीयेति लिङ्गद्वयं समाधित्सुः शङ्कते-यावदर्शनम्-इति / कार्यदर्शनानुसारिणी शक्तिकल्पना विजातीयेष्वपि यथाकार्यदर्शनं व्यवतिष्ठते / ततश्च कार्यात् क्लृप्तशक्तिकमेवान्यतमदनुमीयते। समस्ततद्व्यतिरेके च कार्यव्यतिरेक इति भावः / तत्र निमित्त वा शक्तिः कल्प्यते दृष्टे प्रकाशः। स्यात् पटजातीयजननी स्यात् / एवं धूमादिजातीयजनकत्वमप्यापाद्यम् / घटान्यकार्यसामग्री यदि घटप्रयोजकयावद्धर्मवती स्याद् घटजातीयजनिका स्यादिति क्रमेणापादनीयम् / ननु यद्यकजातीयकारणनियमात् कार्यजातिनियमस्तर्हि भिन्नजातीयेभ्यः कारणेभ्यो नाभिन्नजातीयं कार्य जायतेत्याह / कथमिति / अत्र मीमांसकमुत्तरयति / एकेति / कार्यानुपलब्धिलिङ्गकानुमानद्वयभङ्गप्रसङ्गेन तन्निराकरोति / यदि हीति / यावदिति / यत्र क्लुप्तकारणभावं विनाऽप्यन्यस्मादेकजातीयं दृश्यते तत्र विजातीयवेककार्यानुकूला शक्तिः कल्प्यते, न त्वन्यत्रापि / ततो नोक्त प्रकाशिका। कार्यानुपलब्धीति / कार्यलिङ्गकममुपलब्धिलिङ्गकञ्चेत्यर्थः / अनुपलब्धिश्च कारणाभावोपलब्धि. मकरन्दः। अनुपलब्धिलिङ्गकम् = अभावलिङ्गकम् / अत एव मूलं-कारणव्यावृत्त्या चेति / टिप्पणी। धयत्किञ्चिजात्यापत्तिरेवोचिता स्यात् / अनिष्टांशेऽविशेषस्योभत्र तुल्यत्वात् इति निपुणतरं विभाव्यम् / कार्यानुपलब्धिलिङ्गकेति / कार्यलिङ्गक.मनुपलब्धिलिङ्गश्चेत्यर्थः / न