________________ 70 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [6 कारिकाव्याख्यायो वा स्यात् / एवं तज्जातीयेन यतःकुतश्चिद्भवितव्यमित्यस्य स्वभावः ? तदापि बोधनी। द्वितीयकल्पमाशङ्कथ दूषयति-एवम्-इति / नियतजातीयेन कार्येण यतः कुतश्चिद् भवित प्रकाशः। द्वितीये कारणपक्षकं तर्कद्वयमाह / एवमिति / घटसामप्री यदि पटप्रयोजकयावद्रूपवती टिप्पणी। न दोष इति वाच्यम् / संयोगत्वावच्छिन्नं प्रति द्रव्यत्वेन कारणत्वेऽपि कुत्रचित् संयोगव्यक्त घटरूपद्रव्यघटिता कुत्रचित् पटादिरूपद्रव्यघटिता सेति न संयोगसामग्या निरुक्तकजातीयत्वसम्भव इति संयोगादिव्यक्तीनामैकजात्यं न स्यात् / अत एव व्यक्तिपक्षेऽप्येकजातीयसा मग्या जातिनियामकत्वसम्भवेन व्यर्थमेव जातिपक्षादरणमिति निरस्तम् / अपि तु कारणजात्यानियमः पौर्वापर्य्यभावनियमः / तथाहि तत्तत्कार्याणांमेकजातीयतानियामक सामग्रीविशिष्टस मप्रीजन्यत्वम् / वैशिष्टयञ्च स्वघटकतानवच्छेदकधर्मावच्छिन्नाघटितत्व-स्वघटकतावच्छेदकंयद् यत्तद्धविच्छिन्नघटितत्वोभयसम्बन्धेन / तथाच संयोगादिस्थलेऽपि घटपटादेः सामग्य द्रव्यत्वेनैकरूपेण प्रवेशान्नैकजातीयत्वनियमभङ्गः / व्यक्तिपक्षे तत्तद्व्यक्तित्वेन घटादेः सामग्रीघटकत्वात् सामग्रीविशिष्टत्वासम्भवान्न जातिनियमः। न्यूनाधिकसामग्रीप्रभवकार्याणामेकजातीयत्ववारणाय सम्बन्धद्वयनिवेशनम् / अत्र घटकतावच्छेदकतात्वावच्छिन्नेत्यादिरूपवृत्तित्वस्यैव वा निवेशः / अत्र घटपटादीनामेकजातीयत्वापादने सामग्रीविशिष्टेत्यत्र कस्याश्चिदपि सामग्ऱ्या ग्रहीतु मशक्यत्वादिति न तेषामेकजातीयत्वसम्भवः / अथवा तत्तज्जातिनियामकं तत्तज्जात्यवच्छिन्न. कार्यतानिरूपितकारणतावच्छेदकधर्मावच्छिन्नघटितसामग्रीजन्यत्वमिति न कोऽपि दोषः / अथ विभिन्नजातीयजायमानत्वविशिष्टैकजातीयत्वरूपापादकस्याप्रसिद्धः पराभ्युपगतत्वेन तत्त्वेऽपि जा तित्वपर्याप्त्यवच्छेदककूटत्वावच्छिन्नत्वरूपसर्वजातीयत्वस्यपरेणापिसर्वत्रानभ्युपगमात्तदभाववति घटादावेव तस्य वृत्तित्वेनापाद्यव्याप्यत्वविरहेणापादकत्वासिद्धVलस्य सर्वजातीयत्वापादनं विशेषापादकेन विशिष्याह-अयं घट इत्यादिना। आपाधापादकयोर्विशेष्यत्वे सर्वत्वेन पक्षत्वेन सर्वस्मिन् पटत्वादयोऽपि तेषामभावा इति प्रतीतेः सर्वकार्यत्वावच्छिन्ने आपाद्यव्यतिरेकनिश्चयां स्यैवाभावादित्यतो विशिष्यैतद्धटत्वादिना पक्षोल्लेखः। अथ योग्यानुपलम्भसहकृता प्रत्यक्षेण निर्णीतापाद्यव्यतिरेकजाया आपत्तेरसम्भावितसंशयतया महदनिष्टरूपत्वात् प्रथमैकमानवादिनंप्रत्येव तदापत्तेः / सावकाशत्वाच्च अध्यक्षवाचिनेदम्पदेन घटितं तथाविधापत्तिस्वरूपबोधकं शब्दप्रयोगं प्रथमेव कुरुते / अयं घटे इत्यादिना / एतेन घटत्वावच्छेदेन पक्षत्वसम्भव एतत्पदं व्यर्थमिति निर. स्तम् / एवं तत्र प्रत्यक्षापाद्यव्यतिरेककात्मना लिङ्गेन सिद्ध आपादकव्यतिरेकेऽन्यत्रापत्तौ व्यतिरेकदृष्टान्तविधयाआपादकाभावसाधनेऽन्वयितयाच तत्प्रसिद्धिःसुलभेतिव्यतिरेकिदृष्टान्ताधिकस्याग्रे वक्ष्यमाणत्वादत अध्यक्ष घटत्वेन प्रथमं पक्षोल्लेख इत्यपि बोध्यम् / पटजनकयावजन्यत्वं पटविशि टसामग्रीजन्यत्वम् , तेनातीतानागतपटजनकस्य तदव्यवहितपूर्वत्वविरहेऽपि न क्षतिः / अथ घटो यदि घटभिन्न जनकयावज्जन्यः स्याद् घटवृत्तिजातिमान् स्यादित्यनुगतरूपेण सकलजातेरापत्तिसम्भ विशिष्य सर्वजातीयत्वापादनं सन्दर्भविरुद्धमिति चेन्न / आपाद्याभावेनापादकाभावसाधने सामान्याभावस्य विशेषाभावकूटनियतत्वेन तत्र विशेषतर्कतुल्यफलत्वेऽपि यथा वन्हित्वेन वन्हेः सिद्धावपि न सकलवह्निसिद्धिः, तथा सामान्यरूपेणापत्तौ सत्यामपि न सर्वजातेरापत्तिः / सर्वस्यापादकवि. रहेऽपि तथाविधतर्कोत्थानसम्भवादित्यस्याः सर्वजातीयत्वरूपत्वापत्तिविरहेणमा परित्यक्तवान् / न चोभयोस्तुल्यफलत्वे कल्पनालादयमवादित्वमेव वक्तुमुचिता अनिष्टप्रसञ्जनस्य तुल्यत्वेन तथावि