________________ प्रथमस्तवके] स्वभावकारणतावादखण्डनम् / 66 कुतश्चिद्भवन्नेव तज्जातीयस्वभावः स्यात् , सर्वस्य सर्वजातीयत्वमेकजातीयत्वं बोधनी। स्यापि पटजातीयत्वं घटस्य पटस्य च घटायेकजातीयत्वं हेतोस्तत्र कार्यत्वस्याविशेषादिति / प्रकाशः। सजातीयमेव जनयति ? आये कार्यपक्षकं तर्कद्वयमाह। सर्वस्येत्ति / अयं घटो यदि पटजनकयावज्जन्यः स्यात् पटजातीयः स्वात् / एवं यदि यावद्धृमजनकजन्यः स्याद् धूमजातीयः स्थात / एवमन्यजातीयत्वमप्यापाद्यम् / पटादावपि तत्तज्जातीयत्वमापायमिति सर्वजातीयत्वापादनार्थः / घटभिन्न कार्य यदि यावद्धटजनकजन्यं स्याद् घटजातीयं स्यादित्येकजातीयत्वापादनार्थः / प्रकाशिका। यमिति / सर्वजातीयत्वमप्रसिद्धमित्यन्थथा तर्कमाह / अयं घट इति / यद्यपि व्यक्त्यपेक्षयापि नियमे पटजनकयावजन्यत्वं घटे परानभ्युपगतमेव, तथापि व्यक्त्यपेक्षया नियमे पूर्ववर्तित्वमानं प्रयोजकमिति तथानियमस्वीकारे धटेऽपि पटजनकयावज्जन्यत्वं स्वीकरणीयमेवेत्यभिप्रायेणेदमुक्तम् / वैयधिकरण्यनिरासायाह / घटभिन्नमिति / मकरन्दः। माह / अयमिति / यद्यपि व्यक्त्यपेक्षया मियमेऽपि पटजनकतद्वयक्तिजन्यत्वस्य घटेऽनभ्युपगमादिदमयुक्तम् / तथापि पूर्ववर्तिव्यक्तित्वेनैव तथात्वे घटपूर्ववर्तिपटजनकवेमादिव्यक्तेरपि घटजनकत्वाभ्युपगमादिदमिति ध्येयम् / वैयधिकरण्यादाह / घटभिन्नमिति / टिप्पणी। तर्कद्वयमाह सर्वस्येतीति। अत्र स्वर्गकामो यजेदित्यादिवाक्यतः स्वगं प्रति यागस्य कारणत्वे नि गीते तस्याव्यवहितपूर्ववर्तित्वनियामकः स्वजन्यादृष्टरूपः सम्बन्धः कल्प्यते, अन्यथा कारणत्वानुपपत्तेरित्यदृष्टस्य व्यापाररूपस्य कारणत्वमुपपद्यते, कार्य्यमात्रस्य कर्तृत्वजन्यत्वदर्शनेन तयोनियमप्रहे क्षित्यादौकर्तृत्वजन्यत्वानुमानेऽस्मदादेस्तदसम्भवेनेश्वरः सिद्धयति। तदुभयमपिन सम्भवति सर्वत्रैव स्थिरकारणे सन्ततौ सत्यपि कार्य विलम्बदर्शनात् काचिदपूर्वव्यक्तिः कल्प्या यत्सत्त्वेन का. यविलम्व इति लाघवात् तत्का>व्यक्तौ सैव कारणमिति यागस्याप्यतथात्वेनाकारणतया तत्कारण तानिर्वाहकमदृष्टंन सिद्धयति सत्त्वे यागादेः कार्यविलम्बदर्शनात्। एवं सत्त्वेऽपि कुलालादेः कार्यवि लम्बदर्शनेन पूर्वव्यक्तेरवश्यकल्प्यतया तस्यैव कारणत्वात् कर्तृकुलालादेरकारणतया कार्य्यत्वकर्तत्व जन्यत्वयोर्व्यभिचारेणानुमानस्याप्रयोजकतया न क्षित्यादिकर्तृत्वेनापीश्वरसिद्धिरित्यभिप्रायो यद्यपितथापीत्यादिपूर्वपक्षकृतां तत्र नायं दोषः संभवी। तथापि तत्र तथाविध एव पटाद्यागन्तुककारणमादाय नियतजातीयताभङ्गः स्यादेव स्वभावनियमोऽपि निमामकं बिनाऽसम्भाव्य एवेति सामान्यतो व्यक्तिपक्षखण्डनकृतो मूलकृता न न्यूनतावकाशः / अत्र प्रवृत्तिनिवृत्तिव्याघातादिकमपि दोषत्वेनावधारणीयम् सर्वमित्याद्ययं दोषस्तु तद्व्यक्तिपक्षं वहूधा विकल्प्य शिष्यबुद्धिनेशद्यायेति विभाव्यम् ॥०॥कार्यनियतजातीयत्व इत्यादि / अथ कारणजातिनियमो न कारणस्यैकजातीयत्वं तथा हि यत्किञ्चिदेकजातीयकारणजन्यत्वस्य धूमदाहादौ सत्त्वेन तयोरेकजातीयत्वं स्यात् / तत्त. स्कार्यजनकयावत्कारणकजातीयत्वस्यैवाभावात्। नच तद्घटस्य यद्यजातीयं कारणमपरघटस्यापि तत्तज्जातीयमेवेति तदवृत्तिजातिशून्यत्वरूपस्यैकजातीयत्वस्य सकलघटप्रयोजकयावत्कारणात्मकसामग्याः सत्त्वेनैकजातीयसामग्य एवैकजातीयत्वनियामकत्वम्, तत्र कारणपदं सामग्रीपरमिति