________________ 68 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाअलौ [ 6 कारिकाव्याख्यायो प्रकाशः। अथ स्वभावादेव कार्य नियतजातीयं स्यात् , तत्राह / यदि हीति / किमयं कार्यस्यैव महिमा, यद्भिन्नजातीयेभ्योऽपि जायमानं सजातीयमेव भवति, हेतोरेव वा यद्भिन्न जातीयमपि प्रकाशिका। जातीये कर्तृजातीयं कारणं न स्यादित्येवरूप इत्यर्थः एवमित्यादिना पौनरुक्त्यमाशङ्कयाह / किम मकरन्दः। प्राक्कोटिकावधीत्यर्थः / घटसामग्रीवद्दिनसामप्रया अप्यदृष्टप्राक्कोटिकत्वेनानादित्वसम्भवात् तदुत्तर दिनस्यानादित्वप्रसङ्ग इति भावः। एवमित्यप्रेतनेन पौनरुक्त्यमाशङ्कयाह / किमयमिति / सर्वजातीयत्वाप्रसिद्धरन्यथा तर्क टिप्पणी। अथ घटादौ पटादिजनकयावअन्यत्वं पूर्वपक्षिणा न स्वीकृतं किन्तु दण्डादीनामेव तद्व्यक्तित्वेन कारणत्वमिति अयं घट इत्यादितर्कावतारः प्रकाशकृता सन्दर्भविरुद्ध इति चेन। व्यक्तयपेक्षया कार्यकारणभावे घटपटजनकजन्यत्वमभिमतमप्यायात्येव / तथाहि व्यक्ति प्रति व्यक्तः कारणत्वे व्यक्तित्वं सामन्यनियतं विशेषवद्वा। नायः, सर्वस्य घटकारणत्वापत्त्या तस्य सर्वजातीयत्वं सर्वदेशवृत्तित्वं च स्यात् / नान्त्यः, विशेषत्वं सामान्यतस्तव्यवहितपूर्ववर्तिनियतत्वम् / तदधिकरणदेशावच्छेदेन तन्नियतपूर्ववत्तित्वं वा, तदुभयमपि न, तथाहि पटादिसामग्य अपि घटादिरूपतव्यक्त्यव्यवहितपूर्ववर्तित्वेन तद्व्यक्तित्वेन कारणतया तजातीयजन्यघटस्य पटजातीयत्वादिकमपि स्यादिति सर्वस्य सर्वजातीयत्वमापतितमिति न मयं घट इत्यादि प्रन्थविरोधः / द्वितीये तु तादृशावच्छेदेन घटादिरूपव्यक्तथव्यवहितपूर्ववर्तित्वस्य सकलव्यक्तिसामग्या विरहेण यद्यपि सर्वजातीयत्वापादनं न स्यात् परन्तु यत्सामग्यास्तथाविधत्वं तमादाय नियतजातीयताभङ्गस्तु स्यादेव मुख्यतो प्रन्थकर्तुस्तत्रैव तात्पर्यम् / अथवा कस्यचिद् घटादिव्यक्तः पटजातीयत्वं कस्यचिन्मठजातीयत्वमिति पटादिजातीयसामान्यस्य सर्वजातीयत्वमिति सर्वपदं सर्वजातीयपरम् , न तु सकलव्यक्तिपरमित्येतत्कल्पेऽपि सर्वसङ्गतिः / न च भवतां जातिपक्ष इवास्माकमपि व्यक्तिपक्षे दण्डादिव्यक्तीनामेव कारणत्वमिति न सर्वजातीयत्वाद्यापत्तिरिति वाच्यम्। अस्माकन्तु घटत्वावच्छिन्नं प्रति दण्डत्वाद्यवच्छिन्नातिरिक्तस्यानन्वय व्यतिरेकतया न कारणत्वं युस्माकन्तु तद्व्यक्तिं प्रति निरुक्ताव्यवहितपूर्वतिनो दण्डादेरिव पटादिसामग्य तत्रान्वयव्यतिरेकवत्तया कारणताया उपकारव्याप्तत्वस्य च दूरनिरस्ततया च विनिगमकाभावात् कारणत्वं वारयितुमशक्यम्। न च कार्येण सह समवायेनैव तत्र तत्रान्वयव्यतिरेकस्य कारणताग्राहकत्वम् घटादिसमवायिनि दण्डादीनामेव सम्बन्धो नेतरेषामिति न तेषां कारणत्वप्रसक्तिरिति वाच्यम् / प्रथमतः संयोगादिनाकार्येण सहान्वयव्यतिरेकाग्रहेण कारणत्वानिर्णये कार्योत्पादेन सह सामानाधिकरण्योपपादनाय कारणतावच्छेदकसम्बन्धगवेषणमिति दण्डादिस्थल एव पटसामग्य अपि तेन कारणत्वनिश्चये तत्रापि तथाविधः कश्चित् परम्परासम्बन्धः कल्प्य इत्युभयत्र तुल्यम् समवायमात्रेणैव तथात्वे रासभादौ तेनान्वयस्याभावेन कारणत्वशकैवन स्यादिति सर्व स्थिरचित्तेन विभाव्यमित्यलमावेशेनेति(१)॥०॥ एवमित्यादिना पौनरुक्त्यमपाकर्तुमाह किमयमिति ॥०॥भिन्नजातीयेभ्योऽपीति / जातिपदधम्ममात्रपरम् विभिन्नजातीयजायमानत्वं विभिन्नधविच्छिन्नकारणघटितसामग्रीजन्यत्वम् / तेन तत्तद्दण्डादीनामेकजातीयत्वेऽपि न क्षतिः / अन्यथा घटस्थले परमतेऽपि तस्यासम्भव एव स्यात् // (१)अथ घटादावित्यारभ्य अलमावेशनेनेत्येतत्पर्यन्तं शिष्यबुद्धिवेशद्यायेति विभाव्यमेतस्याने भवितुं युक्तमिति० आ० पु० टी० /