________________ प्रथमस्तवके स्वभावकारणतावादखण्डनम् / वितव्यमित्यस्य स्वभाव इति चेन्न / तस्याप्यह्नः पूर्वन्यायेन पूर्वमपि सत्त्वप्रसङ्गात् / तस्मात् तस्यापि तत्पूर्वकत्वमेवं तत्पूर्वस्यापीत्यनादित्वमेव ज्यायो, न त्वपूर्वानुत्पादे कस्यचिदपूर्वस्य सम्भव इति / तथापि व्यक्त्यपेक्षया नियमोऽस्तु, न जात्यपेक्षयेति चेन्न / नियतजातीयस्वभावताव्याघातात् / यदि हि यतः. बोधनी। निराकरोति-न-इति / अहर्नामावच्छेदकोपाधिभिन्नः कालः, तस्याप्युपाधेर्यदिपूर्वन्यायेनानुपलभ्यमानप्राक्कोटिकारणत्वसम्भवेन पूर्वमपि सत्त्वादह्रोऽपि सत्त्वमेव स्यात् , ततश्च तदहर्भावस्वभावत्वेऽपि सदातनत्वप्रसङ्गो दुस्तर इति भावः। उपसंहरति-तस्मात्-इति / यस्मात् कार्यस्य परिदृश्यमानकादाचितूकत्वव्याघातप्रसङ्गः, तस्मात् / तस्यानुपलभ्यमानप्राको. टेरपि कारणरूपस्य पूर्वावध्यपेक्षित्वम् / एवं तस्य तस्यापीत्यनादित्वं कारणप्रवाहस्य युक्तम् / न त्वपूर्वस्य पूर्वमविद्यमानस्य कारणस्योत्पत्त्यनभ्युपगमे कादाचित्कस्य कार्यस्य सम्भव इति / पश्चिमे व्याख्याने तु-न-तोवन्मात्र-इति / उत्तरैकावधिस्वभावत्वे कार्यस्य तदहव॑त् पूर्वधुरपि तदेकावधिस्वभावत्वाविशेषादुत्तरेयुर्जायमानस्य कार्यस्य सत्त्वं स्यात् / तच्च नोपलभ्यत इति / तस्मात् तस्यापि-इति / अनुपलभ्यमानपूर्वावधेरपि कार्यस्येति / सुगममन्यत् / न वि. जात्येकशक्तिमानित्येतदवधारयितुं शङ्कते-व्यक्त्यपेक्षया-इति / जात्यपेक्षया कारणनियमस्य भङ्गे व्यक्त्यपेक्षया नियमभङ्गः सुकर इति गूढोऽभिसन्धिः / न-इति / कारणस्य जातिनियमाभावे कार्यजातिनियमो हेत्वभावेन व्याहन्येतेति / विजातीयेभ्योऽपि भवतः कार्यस्य जातिनियमः स्वभावादेव भविष्यतीत्याशङ्का तत्र कार्यस्यैष स्वभावो यद् भिन्नजातीयेभ्योऽपि भवतः प्रतिनियतजातीयत्वमिति, उत कारणस्य यदसत्यप्येकजातीयत्वे नियतजातीयकार्यजनकत्वमिति विकल्पं मनसि कृत्वा प्रथमे दूषणमाह-यदि यतः कुतश्चित्-इति / घटजातीयस्वभावत्वे तदुत्तरस्यापि दिनस्यानादित्वग्रसङ्गो घटस्यैवेति परिहरति / तस्यापीति / वस्तुतस्तु, उत्पत्तिगर्भकादाचित्कत्वानुरोधादवधिस्वीकारः / न चोत्तरेण उत्पत्तिर्नियम्यत इत्यवधेः प्राच्यत्वनियतत्वसिद्धौ कारणत्वं सिद्धम् / तथाचोत्पत्तिर्यदि किञ्चिदुसरत्वनियता न स्यादनादिः स्यादिति निगर्वः / न त्वपूर्वेति / आगन्तुककारणघटितसामग्न्यजन्यं कार्य नियतकालोत्पत्तिकं न स्यादित्यर्थः / तथापीति / जात्यपेक्षया कारणत्वे निरस्ते व्यक्त्यपेक्षया व्यभिचारेण तत्सुनिरसमिति पूर्वोक्त एवाभिसन्धिः / नियतेति। कार्यनियतजातीयत्वे कारणजातिनियमस्य हेतुत्वादित्यर्थः। प्रकाशिका / इति भावः। सामानाधिकरण्यमुपपादयन्नाह / आगन्तुकेति / पूर्वोक्त एवेति / कार्य टिप्पणी भाह / आगन्तुकेति / नियतकालोत्पत्तिकं न स्यादित्यर्थ इति / अथैतावता प्रयासेनापि यत्रैव प्राक्कोटिकत्वेनोपलब्धा सामग्री तत्रैव कार्यकारणधारा सिद्धा यत्र तु तन्न तत्रानादित्वस्य तेषामिष्ट तया न क्षित्यादिकर्ता कश्चिदीश्वरः सिद्ध्यतीति चेन्न / एकत्राप्यप्रत्यक्षसार्थवस्तुकल्पनेऽदृष्टवादस्यतव निरस्ततया यत्र घटादौ प्राकोटिरनुपलब्धधैव तत्रापि सावयत्वमध्यमपरिमाणववादिनानुमानेऽदृष्टस्यापि प्राकोटेः कल्पनं सम्भवतीति क्षित्यादावपि कर्तृजन्यत्वसिद्धिस्तदृष्टान्तेन स्यादित्यस्य ग्रन्थस्य निगर्वः // 0 // व्यभिचारेण तत्सुनिरसमिति / सिद्ध्यतु तावत् कारणत्वमुभयवादिसिद्ध व्यक्तरेव जात्यपेक्षयालमित्यास्तिकविरुद्धवादितया खण्डनमेव विकल्पस्यैककोटिः। व्यभिचारोऽत्र रासभादिसाधारण्यम् // 0 // पूर्वोक्त एवाभिसन्धिरिति / अकस्माद् भवतीत्यादिकारणत्वासिदिरेव पय्यवसितेति भावः / . प्रकाशः।