________________ प्रकाशः। 66 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाअलौ [ 6 कारिकाव्याख्यायां वत्वे तदहर्वत् पूर्वेधुरपि तमवधीकृत्य तदुत्तरस्य सत्त्वप्रसङ्गात् , अपेक्षणीयान्तराभावात् / एवं पूर्वपूर्वमपि / भावे, तदेव सदातनत्वम् / तदहरेवानेन भ. बोधनी। तदहरेव-इति। कत्वं निर्वहतीति भावः / तदहर्वदिति, समासान्तविधेरनित्यत्वात् समाधेयम् / तदवधिस्वभावत्वे यत्र दिनेऽयमध्यक्षस्तत्रैवानेनोत्पत्तव्यमित्येषोऽपि तस्य स्वभाव इति शङ्कते। तदहरेवेति / अत्राहःपदेन कालमात्रमभिप्रेतम् / तदनादित्वे तावन्मात्रावधेर्घटादेरप्यनादित्वप्रसङ्गादित्यनाद्यनित्यप्रवाहसिद्धये तथाविध एव कालोपाधिर्वाच्यः, तथाच तस्याप्यनादिरूपादृष्टावधि प्रकाशिका। प्रीपरमेव। एवमग्रिममूलेऽपि। तावन्मात्रावधेघंटादेरिति। यद्यप्यहोऽवधित्वं पूर्वपक्षिणा नोक्तं किन्तु कार्यस्य तन्नियतोत्पत्तिस्वभावकत्वम् / तथापि निरवधित्वे तदेवानुपपन्नमिति तस्यैवावधित्वं वाच्यं तथासति दूषणमिदमिति भावः / अदृष्टावधीति / अदृष्टप्राक्कोटिकावधीत्यर्थः / घटसामग्रीवदिनसामग्या अप्यदृष्टप्राक्कोटिकत्वेनानादित्वेन तदुत्तरस्य दिनस्यानादित्वप्रसङ्ग मकरन्दः। मभिमतमिति वाच्यम् / तथापि तस्योत्तरैकाऽवधित्वाभ्युपगमेन पूर्वावधिशून्यतयानादिभावमा त्रावधिस्वभावत्व इत्यसङ्गतापातादिति चेन्मैवम् / दृष्टप्राकोटिकघटाभिप्रायेणैव प्रकृतापादनात् / नचादृष्टपूर्वकोटित्वेनेत्यसिद्धम् / अदृष्टपूर्वकोटित्वेनानादिर्यो भावः सामग्रीरूपस्तावन्मात्रावधिस्वभा. वत्व इत्यर्थात् / तथाच नादृष्टप्राक्कोटितयैवानादित्वम् / अन्यथा कस्याश्चिद् घटसामग्रथा अपि तथात्वेनानादितया तदुत्तरस्य घटस्यानादित्वं स्यादिति भावः / अदृष्टावधीति / अदृष्ट टिप्पणी समाधेयमिति / अस्तु घटादिप्राक्कोटिकत्वेनोपलब्धा सामग्री सापेक्षाऽपेक्षणीयस्य नापेक्षान्तरमित्याकाङ्क्षायां मूले / एवमिति / तदेव पूर्वद्युरित्यादि प्रतिपाद्यसत्त्वमेवेत्यर्थः / तथाच तन्निबन्धनं प्रागभावाप्रतियोगित्वरूपमनादित्वमेव तत्र सदातनत्वमिति भावः / तदवधिस्वभावत्व इति / अदृष्टप्राक्कोटिकत्वेनानादिभावमात्रावधिस्वभावत्व इत्यर्थः / तस्य स्वभाव इती. ति / तथा च दर्शनं विनाऽवधेरस्वीकारेऽपि प्रागसत्त्वधरितकादाचित्कत्वस्य निर्वाहादेवेति भा. वः। कालमात्रमभिप्रेतं तदनादित्व इति। कालत्वरूपसामान्यधर्मेण प्रागुक्तस्वभावघटककालस्यानादिकालसाधारणतया तस्य स्वभावघटककालस्यानादित्व इति भावार्थः। तावन्मात्रावधेरिति / यद्यप्यहोरवधित्वं पूर्वपक्षिणा नोक्तं किन्तु तन्नियतकालोत्पत्तिकत्वमिति तावन्मात्रावधेरित्यसङ्गतम् , तत्पदस्यानुपदोक्तपरामर्षत्वस्यैव व्युत्पन्नतया तत्पदेन कालस्यैव बोधनात् / तथापि निरवधित्वे तदेवानुपन्नमिति तस्यैवावधित्वं वाच्यमित्यभिप्रेतम् / अत्रादृष्टावधि स्वभावत्व इत्यस्यावधित्वप्राक्कोटिकावधित्व इत्यर्थः। तदुत्तरमित्यत्र तत्पदकालोपाधिपरमिति कश्चित् / वस्तुतः, तावन्मात्रस्वभावत्व इत्यस्यैकदेशस्य विभक्तिसहकारेण तदर्थस्यानुवादोऽयम्। अत एव तवधिस्वभावत्व इत्यनुपदमेवोक्तम् / अत्रादृष्टप्राक्कोटिकावधिमत्त्व इत्यर्थः / तत्पदं तथाविधावधिपरम् / तथा च द्वितीयस्वभावघटककालस्यानादित्वेऽदृष्टप्राक्कोटिकत्वेनानादि भावेतरावधिशून्यस्यानादित्वं दुष्परिहरणीयमेव स्यादिति भावः // 0 // अनाद्यनित्यप्रवाहेति / नचानादित्वस्य ध्वंसव्याप्यप्रागभावप्रतियोगित्वरूपस्यैव वाच्यतया अनित्यपदं व्यर्थमिति वाच्यम् / तादृशानादित्वतात्पर्यग्राहकमेव तदिति न वैयर्यम् // 0 // सामानांधिकरण्यमुपपादय