________________ 63 प्रथमस्तवके] स्वभावकारणतावादखण्डनम् / ... . प्रवाहोऽनादिमानेष न विजात्येकशक्तिमान् / .. .. बोधनी। तदेतत् प्रसङ्गमभिधाय विपर्यये पर्यवसानमिति व्यांचष्टे-प्रवाहो नादिमानेषः-इति / अनुपलभ्यमानपूर्वकोटेः कारणस्य पूर्वावधिविरहे तस्यानादित्वात्कादाचित्कत्वव्याघातः स्यात् / तस्मात्तस्यापि कश्चित् पूर्वावधिरस्ति, एवं तस्यापीति कारणप्रवाहोऽयमादिमान्न भवति / पश्चिमे तु व्याख्यानेऽनुपलभ्यमानपूर्वावधेरपि कार्यस्य पूर्वावधिसापेक्षत्वम् , अन्यथा तत्कार्यस्यानादित्वप्रसङ्गादिति परिहारार्थः / नन्वस्तु कारणप्रवाहोऽनादिस्तथाप्येकजातीयं कार्यमेकजातीयात् कारणाद् भवतीति नियमो नास्ति, विजातीयेभ्य * एव तृणादिभ्य एकजातीयाग्नेरुत्पत्तिदर्शनात् / न चैवमाकस्मिकः कार्यजातिनियमः, विजातीयेष्वपि कारणेषु एकशक्त्यङ्गीकारादेव तदुपपत्तेरित्यत आह-न विजाति-इति / विविधा जातिर्यस्य तद् विजाति / एका शक्तिर्यस्य तदेक - प्रकाशः। रिति न तावतैव कारणसिद्धिरंशतः सिद्धसाधनं चेति भावः। .. प्रवाह इति / एष कार्यकारणप्रवाहः / अनादिमान् / तत्तत्सामग्रीमान् , तत्तत्सामग्यपि स्वसामग्रीपरम्पराधीनेति न तज्जन्यकार्यस्यानादित्वप्रसङ्गः / न चानवस्था। बीजाङ्कुरवदनादितया प्रमाणिकत्वादित्यर्थः / प्रागभावध्वंसयोस्तु पूर्वोत्तरकोटिकल्पने भावोन्मज्जनमेव बाधकमिति भावः। अनादित्वं च ध्वंसव्याप्यप्रांगभावप्रतियोगित्वम् / तथापि यद्व्यक्तितो यत्कार्य 'सैव व्यक्तिस्तत्र कारणं, न तु तज्जातीयमिति नैतावता कार्यजातीये कर्तृजातीयं प्रकाशिका। व्यभिचारेण, सर्वत्र स्वीकारे च सापेक्षत्वस्यानवस्थया कादाचित्कत्वमसाधारणं न पक्षदृष्टान्तसाधा- . रणं न व्याप्यतया ग्रहीतुं शक्यमित्यर्थ इत्याहुः। अंशत इति / उभयावधित्वेनोपलम्भमानघटादी स्वीकारात् उभयावधित्वस्येत्यर्थः / केचित्तु अवध्यंशस्य सिद्धस्यैव साधनादित्याहुः / तद्वदित्यादिमूले भावः सामग्रीरूप एव द्रष्टव्यः, तेन मूलस्थाशयस्थपूर्वपक्षयोरेकवाक्यतया न परीहारन्यूनतेति / नन्वेकापि सामग्री न प्रागभावप्रतियोगिनीत्यत आह / अनादित्वञ्चेति / येन - मकरन्दः। अंशत इति / अवधेर्मयाऽपि स्वीकारेण तदंशस्य सिद्धस्यैव साधनादित्यर्थः / तत्तदिति / तथाच नासाधारण्यमित्यर्थः / ननु बीजाङ्कुरादेः सादितया कथमनादित्वमित्यत आह। 'अनादित्वञ्चति / ध्वंसव्याप्यत्वं सजातीयध्वंसव्याप्यत्वम् / तथाच, तद्घटत्वेन सादित्वेऽपि टिप्पणी। पूर्वपक्षयोरेकवाक्यतया न परिहारन्यूनतेति / अंशतः सिद्धसाधनञ्चेतीति / उभयावधित्वेनोपलभ्यमानघटादौ स्वीकारादुभयावधित्वस्येत्यर्थः। केचित्ववध्यंशस्यासिद्धस्यैव साधनमित्यर्थत्व इत्याहुः / भावोन्मज्जनमेव बाधकमिति / तथा च प्रागभावपूर्वाबधिकालस्य ध्वंसोत्तरावधि- . कालस्य च घटप्रागंभावध्वंसयोरनधिकरणत्वेन घटाधिकरणत्वम्मवेदित्यर्थः / . नन्वेकापि सामग्री न प्रागभावप्रतियोगिनीत्यत आह-अनादित्वञ्चेति / येन रूपेणानादित्वमा भिमतं तद्रूपाश्रयध्वंसव्याप्यप्रागभावप्रतियोगित्वम् / अस्ति च साक्षात् परम्परासाधारणघटसामग्रीत्वाश्रयस्य तथात्वमिति भावः / व्याप्तिश्च कालिकी / समानाधिकरणेत्येतावति कृते तु प्रथमशरीरध्वंससमानाधिकरणप्रागभावप्रतियोगित्वं द्वितीयशरीरस्येति चैत्रत्वादिनाप्यनादित्वापत्तिरतो व्याप्येतिपर्यन्तानुधावनम् / यद्यक्तित इति / यद्व्यक्त्यनन्तरमित्यर्थः। नतावतेति /