________________ 60 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाखलौ [5 कारिकाव्याख्यायां तुल्यः परिहारः ? न तुल्यः, निरवधित्वेऽनियतावधित्वे वा कादाचित्कत्वव्याघातात् / नियतावधित्वे हेतुवादाभ्युपगमात् // 5 // स्यादेतत् / उत्तरस्य पूर्वः पूर्वस्योत्तरो मध्यमस्योभयमवधिरस्तु, दर्श बोधनी। सिद्धान्ती पूर्वोक्तमेव परिहारं स्मारयति-न तुल्य इति / कादाचित्कत्व सिद्धौ हि तद्विपरीत कल्पनायां व्याघातः / तसिद्धिश्च निरवधित्वे तावन्न सम्भवति, कादाचित्कत्वनिर्वचनव्याघातस्योक्तत्वात् / अत एव नानियतावधित्वेऽपि कादाचित्कत्वसिद्धिः / यस्य कस्यचित् सर्वदा सम्मवान्नियतावधित्वेन कादाचित्कत्वाभ्युपगमे तु सम्प्रतिपत्तिरुत्तरम् / एवं च नानुमानस्य बाधविरोधादयो दोषा इति / एवं तावत् सापेक्षत्वादिति हेतुर्विवृतः // 5 // अथानादित्वादिति हेतुमवतारयितुं निराकरणीयामाशङ्कामाह-स्यादेतत्-इति / प्रकाशः। भावविरहानिरवधिस्वभावस्य अनियतावधिस्वभावस्य वा कादाचित्कत्वस्वभावविरोधः। न हि विरुद्धयोरुष्णशीतयोरेकस्वभावत्वम् / तथा च कादाचित्कत्वव्याघातः तत्स्वभावत्वव्याघात इत्यर्थः। तृतीयमाशङ्कय सम्प्रतिपत्तिमुत्तरमाह / नियतावधित्व इति। वस्तुतोऽस्मित् सतीदं भवति, असति न भवतीति प्रत्यक्षेण नियतपूर्वभावस्य ग्रहात् प्रत्यक्षमेव कारणत्वे मानम् , तस्य चानन्यथासिद्धत्वग्राहकस्तः स्यादेवेत्यादिनादर्शित इति रहस्यम्॥५॥ ननु कादाचित्कत्वं सापेक्षनिरपेक्षाभ्यां व्यावृत्तत्वेनासाधारणम् / तथा हि न सामग्रीनिर प्रकाशिका। न्या इत्यर्थः / अन्यथाऽप्रसिद्धः / केवलविशिष्टप्रतियोगितया च भेदः / न हि विरुद्धयोरिति / सावधिनिरवध्योरेक कादाचित्कत्वं स्वभावो न भवतीत्यर्थः / यद्यपि बिरुद्धयोरुष्णशीतयोः प्रमेयत्वमेकं स्वभावो यथा, तथा सावधिनिरवध्योरपि कादाचित्कत्वमेकं स्वभावो भवत्येव। तथापि तत्तत् कार्यार्थ ततत्कारणोपादानानुपपत्यैव सावधित्वसिद्धिरिति भावः / ननु कादाचित्कत्वेन सहे. तुकत्वानुमानं तवाप्यप्रसिद्ध साध्याप्रसिद्धरतः पूर्वोक्तमेव स्मारयति / वस्तुत इति // 5 // अनादित्वपरिहारस्यासङ्गतित्वं मन्वानस्तत्परिहारौपयिकं पूर्वपक्षं पूरयति / ननु कादाचि मकरन्दः / शृङ्गादयस्तन्मतेनोक्ता इत्यन्ये / न हीति / यद्यपि यथा विरुद्धयोरपि प्रमेयैकस्वभावत्वं, तथा कादाचित्काकादाचित्कयोरपि निरवधिस्वभावत्वमविरुद्धं, तथापि तत्तत्कार्यार्थ तत्तत्कारणोपादानानुपपत्त्या सावधित्वसिद्धिरिति भावः // 5 // अनादित्वादित्यस्य परिहारस्यासङ्गतत्वनिरासार्थमाशयं पूरयति / नन्विति / तथाचाश टिप्पणी। वास्य प्रसिद्धिः, वस्तुतस्तथाविधपदार्थासत्त्वात् / अथवा नियतावधिशून्यत्वमेव तत्त्वं तच्चाकाशादावेव प्रसिद्धं, परेणावधेर्जन्यत्वनैयत्यस्वीकारादवध्यतिरिक्त तत्रैव प्रसिद्धिसम्भवेन निरवधेर्भेदोऽपीति चिन्त्यम् // 5 // ननु उत्तरस्येत्यादिग्रन्थस्य यथाश्रुतस्य प्रागभावानुभयावधिकल्पतया अदर्शनमात्रनिष्ठत्वखण्डने दृष्टान्तवैकल्यतयैवोद्धारसम्भवादनादित्वेन परीहारस्यासङ्गतत्वं स्यादिति मन्वानः तत्परिहारौपयिकम्पूर्वपक्षं तद्ग्रन्थाशयरूपमाह / नन्वित्यादिना / तथाहि दर्शनाद्विनापि कार्याणां सदातनत्वादिदोषभयेन पूर्वावधिकल्पनेऽप्यनवस्था स्यादित्येव नन्वित्यादेरपि निगर्वः / सापेक्षनिरपेक्षाभ्यामिति / अत्र कादाचित्कत्वं मूलनिरुक्तम् / तथाहि न