________________ प्रथमस्तवके ] .. स्वभावकारणतावादखण्डनम् / तमिति चेन्न / सर्वस्य भवतः स्वभावत्वानुपपत्तेः / न ह्येकानेकस्वभावं नाम / व्याघातात् / नन्वेवमिहापि सर्वदा भवतः कादाचित्कत्वस्वभावव्याघात इति बोधनी। तत् परिहरति न-सर्वस्येति / स्वस्य भावः स्वभावः / न च स्वस्मादन्यदपि स्व. मेव, येन तस्यापि भवनस्य स्वभावो भवेत् , तेन सर्वस्य भवदाकाशत्वस्वभावतामेव जह्यादित्येतदेव स्पष्टयति-न ह्येकमिति / न ह्येकमेव धर्मि चानेकेषां स्वकीयो भावस्तद्भवितुमर्हति / न होकमनेकस्वभावो नामेति सम्प्रदायवतां पाठः / तत्र न हकमाकाशत्वादिकमनेकेषां कालादीनां स्वभावो भवति, स्वभावत्वव्याघातात् / स्वस्यैव भवतः स्वभावत्वादित्यर्थः / तद्यत्रापि सर्वदा भवने कदाचित्भवनस्वभावत्वव्याघातः सुवच इत्याह-नन्वेवमिति / - प्रकाशः। न सर्वस्येति / एकनियतो धर्मः स्वभाव इत्युच्यते, तद् यदि सर्वस्य सम्भवेत् तदा स्वभावत्वमसाधारणत्वं नोपपद्यते सत्तादेरिवेति स्वभावत्वव्याघात इत्यर्थः / नन्वेवमिति। यद्याकाशस्याकाशत्वं न सर्वस्य तत्त्वव्याघातादिति विपरीतमनाशङ्कनीयं, तदा कादाचित्कत्वस्वभावस्याहेतुकत्वे सदातनत्वमप्यनाशङ्कनीयम् , कादाचित्कत्वस्वभावभङ्गप्रसङ्गादित्यर्थः / कादाचित्कत्वस्वभावसिद्धौ तद्विपरीतकल्पनायां व्याघातः स्यात् , तत्सिद्धिश्च निरवधित्वस्वभावत्वे वा सावधित्वस्वभावत्वे वा प्रकारान्तराभावात् , द्वितीयेऽप्यनियतावधित्वे तद्विपर्यये वा, तत्र प्रथमद्वितीययोराह। निरवधित्व इति / ये ये निरवधयोऽनियतावधयश्च भावा दृष्टास्तेषां नियमतः कादाचित्कत्वस्व प्रकाशिका। पर्यवसानेऽभेद एवेति / न ह्यकमनेकस्वभावं नामेति मूलं यद्यप्यनेनैकस्य नानास्वभावकत्वाभावः प्रतिपाद्यते न तु प्रकृतोपयोगी एकस्य नानास्वभावत्वाभावो, नपुंसकत्वानुपपत्तेः / तथापि एकस्य धर्मस्य नानास्वभावत्वे नानाधर्मस्यापि तुल्यन्यायतया एकधर्मत्वमापद्येत, तच्च न सम्भवतीतीदमुक्तम् / तत्त्वेति / स्वभावत्वव्याघातादित्यर्थः। अनियतावधयश्चेति / नियतावधिशू मकरन्दः / तत्त्वेति / स्वभावत्वव्याघातादित्यर्थः / अनियतावधयश्चेति / यद्यपि अवधित्वं कारणत्वं नियतस्यैवेत्यनियतावधित्वमप्रसिद्धम् , प्रसिद्धत्वे वाऽऽकाशादेरवधित्वमात्रस्याभावा. द्धटादावेव तदभ्युपगम इति तेषां कादाचित्कत्वस्वभावविरहादिति विरुद्धम् / तथापि नियतावधिशून्यत्वे तात्पर्यम् / विशिष्टाविशिष्टप्रतियोगिकत्वेन च भेद इत्याहुः। अनियतावधिपदेन शश टिप्पणी। नियम्यमित्यर्थपर्यवसानेऽभेद एवेतीत्यन्य इत्यनेन व्यज्यते / नन्वेवमितीति / न होकमनेकस्वभावमित्यादिमूलेन यद्यप्येकस्य नानास्वभावत्वाभावः प्रतिपाद्यते न तु प्रकृतोपपयोगी एकस्य नानास्वभावत्वाभावः, नपुंसकत्वानुपपत्तेः। तथापि शब्दाश्रयत्वात्मत्वाद्येकधर्माणां गगनात्मपृथिव्यादिनानाव्यक्तीनां स्वभावत्वे शब्दाश्रयत्वात्मत्वादिनानाधाणामपि तुल्यन्यायतया गगनाद्यकव्यक्तिस्वभावत्वमपि भवेत् तच्च न सम्भवतीत्येतद्ग्रन्थस्याशयः। नामव्याघातेनैकस्य नानास्वभावत्वाभाव आपादकवैषम्यादिति / न सर्वस्येति / आकाशत्वमित्यनुषज्यते / तत्त्वव्याघातादिति / स्वभावत्वेत्यर्थः। इति हेतौ / सदातनत्वमिति / कार्य्यस्येति शेषः। ये ये निरवधयोऽनियतावधयश्च भावा दृष्टा इति / निरवधिपदार्था अनियतावधिपदार्थाश्च दृष्टाः प्रमाणसिद्धाः नियतावधित्वशून्या आकाशादयस्तेषान्न कादाचित्कत्वं, ये त्वदभिमता अनियतो योऽवधिस्तन्निरूपकास्ते न दृष्टा एवेत्यत्र तात्पर्य्यमिति नासङ्गतिः / परेणाभ्युपगतस्यै