________________ 58. व्याख्यात्रयांपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ 5 कारिकाव्याख्यायां देतत् , न ह्याकाशस्य तत्त्वमाकस्मिकमिति सर्वस्य किं न स्यादिति वक्तमुचि बोधनी। स्तुल्यबलत्वाभिमाने सत्प्रतिपक्षत्वमन्यथा बाधः स्वपक्षसाधनं वेति / केचित् पूर्वमपि नियतदेशवदिति प्रयोगः सूचितः तस्मिन् देशनियमस्य कारणापेक्षित्वं परिहर्तुं दृष्टान्तान्तरेण प्रत्यवतिष्ठन्ते, नित्यस्वभावनियमस्य कारणापेक्षायामसम्भवादित्यपौनरुक्त्यं मन्यन्ते। तत्तु पौर्वापर्यापरामर्शविलसितमित्यनादरणीयमिति / उक्तमेवोपपादयति नहि-इति / तत्त्वमाकाशत्वं सर्वस्य कालादेः। तदुक्तम् नित्यसत्त्वा भवन्त्यन्ये नित्यासत्त्वाश्च केचन / विचित्राः केचिदित्यत्र तत्स्वभावो नियामकः / / अग्निरुष्णो जलं शीतं समस्पर्शस्तथानिलः / केनेदं चित्रितं तस्मात् स्वभावात् तद्व्यवस्थितिः // प्रकाशः। आत्मनश्चात्मत्वमाकस्मिकमिति सर्वस्य तदन्यस्यापि धर्मः कुतो न स्यादिति न वक्तुमुचितम् , प्रामाणिकत्वात् / तथा आकस्मिकत्वाविशेषेऽपि सदातनत्वमाकाशादीनां, कादाचित्कत्वं घटादीनां स्वभावो, न त्वन्यस्य धर्मोऽन्यस्येत्यर्थः / यथाऽऽहः नित्यसत्त्वा भवन्त्येके नित्यासत्त्वाश्च केचन / विचित्राः केचिदित्यत्र तत्स्वभावो नियामकः // वह्निरुष्णो जलं शीतं समस्पर्शस्तथानिलः / केनेदं रचितं तस्मात् स्वभावात्तव्यवस्थितिः // इति / न च नियतदेशवन्नियतकालस्वभाव इत्यनेनास्य पौनरुक्त्यम् / पूर्व हि सापेक्षत्वादित्यत्र यथा परमाणुतत्परिमाणादीनां निरपेक्षत्वेऽपि नियतदेशवृत्तित्वं तथा घटादीनां नियतकालत्वं स्यादित्यप्रयोजकत्वमुक्तम् , सम्प्रति तु कादाचित्कत्वस्वभावो निर्हेतुकः स्वभावनियतत्वात् नित्यस्वभाववंदिति सत्प्रतिपक्षत्वमुक्तमित्यर्थभेदात् / पूर्व यन्नियतं तन्न कारणनियम्यं, यथा जातेः क्वाचित्कत्वमित्युक्तम् , सम्प्रति तु स्वभावो न नियम्य इत्युच्यत इत्यपौनरुक्त्यमित्यन्ये / प्रकाशिका। लादेव सिद्धमिति भावः / स्वभावनियतत्वादित्यत्र नियतपदं स्पष्टार्थम् / अन्य इत्यरुचौ। तद्वीजन्तु जातेरपि नियतत्वं स्वभावादेव न तु कारणादेरिति स्वभावनियतं यत्तन्न कारणनियम्यमित्यर्थ मकरन्दः / व्यभिचारित्वमेव तदुत्तरोत्पत्तिकतावच्छेदकत्वेन पराभिप्रेतमिति धूममात्रस्य पक्षत्वेऽप्यदोषादित्याहुः। स्वभावनियतत्वादिति / अत्र नियतपदं चिन्त्यम् / टिप्पणी। वधित्वनिबन्धनमेव मन्तव्यमिति निरवधित्वकादाचित्कत्वयोः परस्परविरोधावधारणमिति भावः / अथवा मास्तु चेत्तदधीनत्वं तस्य तयोरेकदेशनैयत्ये - तात्पर्य तद्ग्रन्थस्येति ध्येयम् / सापेक्षत्वादित्यत्रेति / कार्यं सहेतुकं सापेक्षत्वात् कादाचित्कत्वादित्यत्रेत्यर्थः / निरपेक्षत्वेऽपीति / निर्हेतुकत्वेऽपीत्यर्थः / सम्प्रति त्विति / स्वभावस्यातिरिक्ततया प्रयोजकल्वे बीजाभावस्योक्तत्वात् , प्रयोजकत्वेऽपि तत्रैव कारणवादाभ्युपगमः स्यादित्यतो नियतदेशवदित्यादिग्रन्थमनाकलयन्निव पुनः सर्वथाकारणवादं निरसितुमभिसन्धत्ते नित्येत्यादीति ग्रन्थाशयः / अन्य इति / जातेरपि नित्यत्वं स्वभावादेव न तु कारणादिति स्वभावनियतं यत्तन्न कारण