________________ प्रथमस्तवके ] स्वभावकारणतावादखण्डनम् / . काभावात् / द्वितीये तु किमुपकारान्तरेण ? नियमस्यैवापेक्षार्थत्वात् , तस्यैव च कारणात्मत्वात् , ईदृशस्य च स्वभाववादस्येष्टत्वात् / नित्यस्वभावनियमव बोधनी। अनियतत्वाविशेषे दहन एवावधिने रासभ इति नियामकाभावादित्यर्थः / नियमस्येति / इदमेव हि कार्यस्य कारणापेक्षित्वं नाम, यत्तस्मिन् सत्येव भवतीति / यदि नियमातिरिक्त उपकारो नाङ्गीक्रियते तर्हि स्वभाववाद एव सिद्धः स्यादित्यत्राह-ईदृशस्येति / चश्चेदर्थे / दहनादिषु सत्स्वेव धूमादयो भवन्तीतीदृशः स्वभाववादश्चेत् स तस्मिाभिरिष्यत एवेति / तदेवमन्यथासिद्धिं निराकृत्य सम्प्रति चार्वाकाङ्गीकृतं प्रमाणमाशङ्कते-नित्य-इति / अस्यार्थः / यथा नित्यानामाकाशादीनामाकाशत्वादयः स्वभावविशेषा निरपेक्षा अपि तैस्तैराकाशादिभिर्नियतास्तथानपेक्षमेव कार्य केनचिदेव कालेन संसृज्यते नान्येनेति नियम्यत इति न सदातनत्वप्रसक्तिः / अनपेक्षत्वसम्प्रतिपत्यर्थं नित्यग्रहणम् / अनेन दृष्टान्तावष्टम्भेन प्रयोग सूचयति, कादाचित्कत्वस्वभावनियमो निर्हेतुकः स्वभावनियमत्वात् नित्यस्वभावनियमवदिति / अनेन कादाचित्कत्वहेतो. - प्रकाशः। रकालोत्पत्तिकवृत्ति स्यादित्यर्थः / परस्येष्टापत्तेः / मैवम् / धूमो यदि रासभसमवधानोत्पत्तिकतावच्छेकरूपवान् स्थाद् रासभसमवधानानन्तरोत्पत्तिकः स्यात् , धूमत्वं वा यदि दहनव्यभिचारिवृत्ति स्याद् दहनासमवहितदेशवृत्तिवृत्ति स्यादित्यापादनार्थत्वात् / वस्तुतो यद्यग्निर्धूमकारणं न स्यात् , तदा कथं धूमार्थो नियमतोऽग्निमुपादत्ते न रासभमिति तग्राहिप्रत्यक्षव्याघात इति भावः / द्वितीये विति / न ह्युपकारव्याप्ता कारणता येन तदभावे न स्यात् , उपकारेऽपि कर्तव्ये उपकारान्तर।पेक्षयानवस्थितेः, किन्तु स्वरूपविशेषव्याप्ता, तन्निवृत्तावेव निवर्तत इत्यर्थः / नियमस्यैवेति / नियतान्वयव्यतिरेकवज्जातीयस्यैवापेक्षणीयपदवाच्यतया लोकप्रसिद्धत्वादित्यर्थः / नित्यस्वभावेति / यथा नित्यस्याकाशस्य यः स्वभावो धर्मः शब्दाश्रयत्वम् , प्रकाशिका। त्याह। परस्येति / धूमो यदीति / ननु धूममात्रस्य पक्षत्व आपादकासिद्धिः धूममात्रस्य रासमसमवधानानन्तरोत्पत्तिकत्वेन परेणानभ्युपगमाद्, धूमत्वस्यावच्छेदकत्वानभ्युपगमात् / न च रासभसमवधानानन्तरोत्पत्तिकधूम एव पक्षः, तत्रेष्टापत्तेः। मैवम् / वह्निसमवधानानन्तरोत्पत्तिकतावच्छेदकत्वं यदि वहिव्यभिचारिवृत्तेरपि धूमत्वस्याभ्युपेयते तदा रासभसमवधान. न्तरोत्पत्तिकतावच्छेदकत्वमपि तस्योपेयंः परेणेति पराभ्युपगमसत्त्वात् धूममात्रपक्षत्वेऽक्षतेः। अत एव वास्वरसादाह / धूमत्वं वेति / अत्र च वृत्तिपदं समवेतत्वपरमतो न धूमत्वजातेापकतया इष्टापत्तिरित्यवधेयम् / अत्र च नेष्टापत्तिः, धूमस्य वह्निजन्यतानभ्युपगमेऽपि तदसमवहितदेशवृत्तित्वानभ्युपगमादिति भावः / ननु कश्चित् धूमो वह्नि विनापि स्यादित्याशङ्कितुरिष्टापत्तिरत्र, किं च एतावता व्यापकतासिद्धावपि न तद्विशेषकारणतासिद्धिरित्यरुचेराह। वस्तुत इति / तथा च व्याघातान्न तादृशी शङ्का, एवं च सति पूर्वपक्षतर्कोऽपि न सम्यगित्यवधेयम् / न रासभमित्युपलक्षणम् / न व्यापकमप्याकाशादीति द्रष्टव्यम् / तेन व्यापकविशेषेऽपि कारणत्वं तद्व मकरन्दः / त्वं तदसहकृतत्वं तदघटितत्वं वाभिप्रेत्याह / परस्येति / धूमो यदीति / धूममात्रस्य पक्षत्व आपादकासिद्धिः, धूममात्रस्य तत्समवधानोत्तरोत्पत्तिकत्वाभावेन धूमत्वादेस्तदनवच्छेदकत्वात् / रासभोत्तरभाविधूमस्य पक्षत्वे सिद्धसाधनं, तळूमत्वावच्छिन्नस्य तथाभावादिति चेद् मैवम् / धूमस्य समवधानोत्तरोत्पत्तिकत्वनियमेऽपि दहनस्य तदनियतत्वं परेणाभिप्रेतमिति त न्या० कु० .