________________ प्रथमस्तवके] स्वभावकारणतावादखण्डनम् / . 55 तथाच न तदेकावधित्वम् , अविशेषात् / इतरनिरपेक्षस्य प्रागभावस्यावधित्वेप्रागपि तदवधेः कार्यसत्वप्रसङ्गात् / सन्तु ये केचिदवधयो, न तु तेऽपेक्ष्यन्ते बोधनी। दवश्याभ्युपगन्तव्य इति / ततः किमित्यत आह-तथाचेति / प्राक्कालनियतत्वेनाविशेषा. दिति / ननु सन्निध्यविशेषेऽपि प्रागभाव एव हेतुर्न भावा अवर्जनीयसन्निधित्वात् तेषामित्यत्राहइतर-इति / तदवधेः प्रागभावकावधिकस्य कार्यस्य तस्मादवधेर्वेति शङ्कते-सन्तु-इति / कार्यपूर्वक्षणे न केचिद् भावाः सन्तीति नायं स्वभाववादः किन्तु सत्स्वपि तेषु कार्येण ते नापेक्ष्य प्रकाशः। तीतेरिति भावः। अत्रैवार्थे कादाचित्कत्वव्याघातं प्रागुक्तं विपक्षबाधकं स्मारयति / इतरेति / यद्ययं घटः प्रागभावान्यावधिको न स्यात् सकलकालीनः स्यादित्यर्थः / द्वितीयं शङ्कते / सन्त्वि प्रकाशिका। ननु नैयायिकैरभावस्यैन्द्रियकत्वाभ्युपगमात् तदनभ्युपगमेऽपसिद्धान्तः / अत्र मिश्राः, प्रागभावो न चाक्षुष इति न ब्रूमः, किन्तु प्रागभावत्वप्रकारकनिरूपणत्वावच्छिन्नं प्रति चक्षुरकारणं शब्दादिनापि तथा निरूपणेन व्यभिचारात् , तथा च सामग्रीनिविष्टाधिकरणस्य परं तथानिरूपणकारणता प्रागभावप्रतियोगिजनकता चेति तादृश निरूपणत्वावच्छिन्नकारणं प्रतियोगिजनकमिति युक्तो नियमः, तथाचाधिकरणग्रह एवोपक्षयादित्यत्रानुमानिकप्रागभावत्वप्रकारकग्रहस्थल इति शेष इत्याहुः। तन्न। तादृशनिरूपणत्वावच्छिन्नं प्रति अधिकरणस्यापि व्यभिचारात् / प्रत्यक्षत्वावच्छिन्नं प्रत्यव्यभिचारे तु इन्द्रियत्वेन चक्षुरादेरप्यव्यभिचारात्तस्यापि कारणतापसेः। किं च अस्तु चक्षुरादेरन्यथासिद्धत्वं तथाप्यधिकरणग्रहादेर नन्यथासिद्धस्य कारणत्वापत्तिः। एतेन परमतमाश्रित्यैव चक्षुरादेरन्यथासिद्धत्वाभिधानमिदमिति परास्तम् / अधिकरणग्रहादिकमादायेक्तदोषानिवृत्तेरिति / अत्र वदन्ति / अधिकरणत्वेन प्रागभाव.. निरूपकस्य तत्प्रतियोगिजनकता, अधिकरणं च प्रतियोगिसमवायिवदन्यदपि वीणादि तस्यापि च शब्दकारणत्वमेवेति न व्यभिचारः / नचैवं नष्टस्यापि प्रागभावनिरूपकत्वं प्राग वर्त्तत एवेति शब्दाजनके तस्मिन् निरुक्तनियमव्यभिचार इति वाच्यम् / यद्धर्मपुरस्कारेण निरूपकत्वं तद्धर्माश्रयः किंचिजनक इति नियमशरीरत्वात् / निरूपकत्वं च निरूपणप्रयोजकत्वमात्रमित्यधिकरणज्ञाने जनकेऽवच्छेदकतयाधिकरणस्यापि निरूपकत्वमिति / वस्तुतः सामग्रीकाल एव प्रागभावत्वप्रकारिका प्रतीतिरिति मतेनायं ग्रन्थ इति निरूपणकारणत्वमेवाधिकरणस्य लौकिकप्रागभावसाक्षात्कारं प्रति प्रत्यासत्तितया प्रतियोगिजनकत्वञ्चेति यथाश्रुतमेव सम्यक्। नष्टस्यानिरूपकत्वादिति ग्रन्थश्चैवं योजनीयः, अधिकरणग्रह एवान्यथासिद्धत्वात् तद्वारैव कारणत्वान्नाधिकरणत्वेनेति नन्वेवमिन्द्रियजन्याधिकरणज्ञानस्य प्रागमावसाक्षात्कार कारणत्वे तमःसाक्षात्कारो न स्यात् तादृशाधिकरणसाक्षात्काराभावादित्याशङ्कायां चक्षुरादिव्यापारेत्यादिग्रन्थः / तथा च क्वचित् परमिन्द्रियजन्यमधिकरणज्ञानं न तु सर्वत्रेत्यधिकरणत्वेनाधिकरणमात्र एव पूर्वफकिकातात्पर्यमिति भावः / केचित्तु उपस्थिते प्रागभावे घटकारणत्वग्रहः, उपस्थितिश्च प्रत्यक्षेण कपालोपस्यितौ सत्यामेवेति प्रथमोपस्थितकपालस्यैव कारणत्वं न तु प्रागभावेनान्यथासिद्धिः, तस्य चरमोपस्थितत्वात् , चक्षुरादिकं न तदोपस्थितं नवा कपालादिवदनन्यथासिद्धमिति न तत्कारणमित्यत्र तात्पर्यम् / ग्रन्थस्तु अधिकरणग्रह एव जनकतया प्रतियोगिनं प्रत्यन्यथासिद्धत्वात् चक्षुरादिव्यापारविरहेऽपि प्रागभावप्रतीत्या तदाक्षिप्तं प्रतियोगिनं प्रति चक्षुरादेर्व्यभिचाराच्चेत्येवं परत्वेन नेय इत्याहुः। यथाश्रुते वैयधिकरण्यादन्यथा तर्कमाह। यद्ययमिति / सकलकालीनत्वञ्चानादित्व