________________ प्रकाशः। 54 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाअलौ [5 कारिकाव्याख्यायो त्वे सति। सावधित्वे तु स एव प्राच्यो हेतुरित्युच्यते / अस्तु प्रागभाव एवावधि- ' रिति चेन्न / अन्येषामपि तत्काले सत्त्वात् / अन्यथा तस्यैव निरूपणानुपपत्तेः। बोधनी। स्तोति पूर्वकालासत्त्वे सत्युत्तरकालसत्त्वं कादाचित्कत्वम् / तच्च कालानवच्छेदे न सम्भवतीति कालावच्छेदात्मकं सावधित्वं कादाचित्कत्वस्वरूपान्तर्गतमेव / तेन निरवधित्वे कांदाचित्कत्वं व्याहन्यत एवेति भावः / नन्वेवमपि कादाचित्कत्वेन सावधित्वे सिद्ध हेतुमत्त्वे किमायातं न हि तयोः पर्यायत्वमित्याशङ्कयाह सावधित्व इति / सावधित्वाम्युपगमे हेतुरेव स्वीकृतः स्यादिति / अन्येषां भावानामपि तत्कालनियतत्वादभावेन सह तुल्ययोगक्षेमत्वं भवेदित्यभिप्रायवाना- . ह / नेति / विपर्ययेऽनिष्टमाह-अन्यथा-इति। आश्रयनिरूपणीयत्वनियमाभावेऽप्यदूरवि. प्रकर्षिणा केनचिद् भावेनैवाभावो निरूप्यत इति अभावकारणत्ववादिना तन्निरूपणार्थो भावस्तावन च सावधित्वेऽपि न हेतुमत्त्वस्वीकारः प-यत्वादनयोरित्याह। सावधित्वे विति / नन्वेतावताऽपि प्राचीनोऽवधिः प्रागभाव एव न तु भावोऽपीति स एव हेतुर्न भाव इति न प्रागभा.. वातिरिक्त कारणत्वं वर्तते इति शङ्कते / अस्त्विति / किं प्रागभावकाले भावस्यासत्त्वादेवानवधित्वं कार्येणानपेक्षितत्वाद्वा ? / आद्यं परिहरति। अन्येषामपीति / भावानामपि अनन्यथासिद्धा. न्वयव्यतिरेकवत्तया ग्रागभावतुल्यत्वादवधित्वम् , अन्यथा प्रागभावस्यापि तन्न स्यादिति भावः / अन्यथेति / अनिरूपितस्य प्रागभावस्य प्रतिपादयितुमशक्यत्वादवश्यं घटादिप्राक्कालेऽनन्यथासिद्धान्वयव्यतिरेकिणः कपालादयस्तन्निरूपकाः स्वीका- इत्यर्थः / ननु प्रागभावनिरूपकस्य चक्षुरादेर्न कारणत्वं यथा; तथा तन्निरूपकभावान्तरस्याऽपि, न च प्रागभावः प्रतियोगिसमवायिकारणमात्रनिरूप्यस्तच्च कारणमेवेति युक्तम् / शब्दाभावप्रत्यक्षतायां तस्य निरस्यत्वात् / मैवम् / चक्षुरादेरधिकरणग्रह एवान्यथासिद्धत्वात् , चक्षुरादिव्यापाराभावेऽप्यनुमितेऽधिकरणे प्रागभावप्र प्रकाशिका रवमपि प्रामाणिकमिति भावः / न प्रागभावातिरिक्त इति / तथा च क्षित्यादिकर्तृतया नेश्वरसिद्धिरिति भावः / नन्विति / घटप्रागभावनिरूपकचक्षुरादेरिव न तन्निरूपककपालादेर्घटकारण त्वमित्यर्थः / वस्तुतोऽन्यथेत्यादिमूलस्य भावसत्तायां पूर्वकालीनायां परंतात्पर्य्यं न तु निरूपकत्वेन भावकारणत्वसिद्धाविति नैतदाक्षेपावसर इति। नचेति / अधिकरणत्वेन प्रागभावनिरूपकत्वं प्रतियोगिकारणताव्याप्यमिति भावः। तस्येति / प्रतियोगिसमवायिकारणमात्रनिरूप्यत्वस्येत्यर्थः / वस्तुतोऽयमपि नियमः कारणत्वसिद्धौ ग्राह्यस्तदेव चासिद्धमिति भावः / चक्षुरादेरिति / मकरन्दः। स्कत्वव्यवहार आकाशस्याकादाचित्कत्वव्यवहारश्च लोकानां विरुद्ध्यैतेत्यर्थः / तथाच गौरवमपि प्रामाणिकमिति भावः। नन्विति / घटप्रागभावनिरूपकस्य चक्षुरादेर्न घटकारणत्वं यथेत्यर्थः / न च प्रागभाव इति / अधिकबलत्वेन प्रागभावनिरूपकत्वं कारणत्वव्याप्यमिति भावः / तस्येति / प्रतियोगिसमवायिकारणमात्रनिरूप्य इत्यस्येत्यर्थः / चक्षुरादेरिति / तथाच न तस्य प्रागभावनिरूपकत्वं यस्य तु तन्निरूपकत्वं कपालादेस्तस्य हेतुत्वमेवेति नोक्तदोष इत्यर्थः / नन्विदमनुपलब्धिगम्याभाववादिमतम् , अस्माकन्तु चाक्षुष एवाभाव इत्यपसिद्धान्तः। न च प्रागभावो न चाक्षुष इति न वयं ब्रूमः, किन्तु प्रागभावत्वप्रकारकनिरूपणत्वावच्छिन्नं प्रत्यजनकं चक्षुर्व्यभिचारादिति / तदिह सामग्रीनिविष्टाधिकरणस्य परम्परानिरूपणकारणता प्रागभावप्रतियोगिजनकता चेति युक्तो नियम इति वाच्यम् / शब्दादिना तत्प्रकारकनिरूपणसम्भवेन ब्यभि