________________ , 50 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाअलौ [5 कारिकार्या __स्वभाववर्णना नैवमवधर्नियतत्वतः॥५॥ .. बोधनी। नामयोगिनोऽपि नमः प्रतिषेधार्थत्वमाश्रित्य यदा कस्मादिति निर्दिष्टहेतुसम्बन्धी विवक्ष्यते तदा हेतुनिषेधः स्यात् / यदा तु समासान्निष्कृष्य भवनसम्बन्धस्तदा भूतिनिषेधः / यदि पुनः स्वरसप्राप्तो हेतुसम्बन्धः पर्युदासवृत्तिश्चाऽऽश्रीयते तदा तदितरविधिपरत्वाद्धेतुतोऽन्यस्मात् स्वस्मादनुपाख्याच्च भवतीति स्यात् / अथवा, यदा हेतुविशिष्टभवनसम्बन्धी विवक्षितो न हेतोर्भवतीति तदा विशेषनिषेधस्य शेष विधिपरत्वादहेतुतो भवतीति स्यात् , अहेतुश्च स्वयमनुपाख्यश्चेति, तयोरेव विधिः प्राप्नोति / यदा त्वश्वकर्णादिवद् व्युत्त्पत्यनपेक्षं, तदा स्वभावत एव भवतीति स्यात् / न चावश्यमत्र सर्वत्र ग्रन्थसंघटनायां यतितव्यं, तात्पर्यमात्र विकल्पनात् / पञ्चानामपि कल्पानां निराकरणहेतुरवधेनियतत्वत इति / अवधेः = कार्यपूर्वक्षणवर्तिनः कस्यचिदन्यस्य नियतत्वात् = किञ्चिदेकमवधीकृत्य दर्शनादित्यर्थः / यद्वा, अवधिः प्रागसदुत्तरकालसम्बन्धस्तस्य, नियतत्त्वतः=नियतकालत्वात् कादाचित्कत्वादिति यावत् / यद्वा, अनन्तरोक्तस्यावधेः सहेतुकोत्पत्तिनियतत्वादिति / प्रकाशः। तदुभयं निरस्यति / हेतुभूतीति / अथ हेतुभवनयोर्निषेधस्य शेषाभ्यनुज्ञाफलकत्वात् पर्युदासना हेतुव्यतिरिक्ताद्भवनं लभ्यते, अहेतुश्च कार्यस्वरूपमवस्तु च तदा स्वानुपाख्यविधिः, तं निषेधति / स्वानुपाख्येति / स्वं-कार्य्यम् , अनुपाख्यो-निर्द्धर्मकोऽलीकः / अथाश्वकर्णादिवदव्युत्पन्न एवायमकस्माच्छब्दः, किंशब्दोऽस्वभावपरो वा तदा स्वभावादेव कार्य्यस्य कादाचित्कत्वमित्यर्थः, तत्राह / स्वभावेति / सर्वत्र हेतुमाह। अवधेरिति / नियतावधिसम्बन्धित्वेनैव विवादपदस्य कादाचित्कस्य कार्यस्य सतर्केण प्रत्यक्षेण विषयीक्रियमाणत्वा. प्रकाशिका। कादाचित्कत्वाभावापादने तु न तत्पर्यवसानं तादृशपक्षविशेषणाभावादिति यथाश्रुत एव न पौनरुक्त्याशङ्केति / केचित्तु यत एव स्यादेवेत्यापादनमेव कादाचित्कत्वाभावापादनं अत एव तदर्थतयैव कादाचित्कत्वाभावापादनमपि व्याख्यातम् / मूलेऽपि कादाचित्कत्वाभावापादनं न स्वतन्त्रमपि तु पूर्वोक्तं स्यादेवेत्यापादने पक्षधर्मताबललभ्यानिष्टोपंदर्शनपरमिति व्याचक्षते / सम्प्रदायविद इति च तन्मते प्रकरणान्वयि ॥४॥हेतुभवनयोरिति। यद्यपि हेतुप्रसक्तभवनस्य विशिष्टस्यैकस्यैव निषेधाद् द्विवचनमयुक्तम् / तथापि भवननिषेधेऽर्थतो हेतुनिषेधोऽपि लभ्यते भवनं विना हेतोरनुपपत्तेरित्येतावता तदुपपत्तिः / अहेतुश्चेति / हेतुव्यतिरिक्तश्चेत्यर्थः / हेतुनिषेधे भवनमुत्पत्तिरूपमसम्भवी मकरन्दः। हेतुभवनयोरिति / यद्यपि हेतोर्य द्वनं तस्यैव विशिष्टस्यैकस्य निषेधात् तल्लभ्यत इति द्विवचनमयुक्तम् / तथापि विशिष्टमपि तदुभयात्मकमेवेति तथोक्तमिति ध्येयम् / अहेतु. टिप्पणी। अङ्गाङ्गिभावस्य शब्दार्थत्वेन स्वतन्त्रापादने तद्विरोध इत्यर्थः // 4 // हेतुभवनयोरिति / यद्यपि हेतुप्रसक्तभवनस्यैकस्यैव निषेधाद् द्विवचनमयुक्तम् / तथापि भवननिषेधेऽर्थतो हेतुनिषेधोऽपि लभ्यते भवनं विना हेतोरनुपत्तेरित्येतावता तदुपपत्तिः। अस्वभावेति / तस्य ना सम्बन्ध