________________ प्रथमस्तवके]. आकस्मिकतावादखण्डनम्। . 46 अकस्मादेव भवतीति चेन्न• हेतुभूतिनिषेधो न स्वानुपाख्यविधिर्न च। बोधनी। कादाचित्कत्वहेतोरन्यथासिद्धिं शङ्कते - अकस्मादिति / तदेतद् यथासम्भवं विकल्प्य निराकरोति-हेतुभूति-इति / अकस्माद् भवतीत्यत्र प्रकाशः। त्वव्याप्यकालो न स्यादेतावत्कालवृत्तिर्न स्यादिति, न स्यादेवेत्यस्यार्थः। अत एव कालान्तरावृत्ति त्वे सत्येतत्कालवृत्तिः स्यादिति कादाचित्कत्वाभावापादनमपीति सम्प्रदायविदः॥ 4 // ___ कायंकरराणभावप्राहकमाने, कादाचित्कभावो निर्हेतुको भावत्वाद् व्योमवदिति सत्प्रतिपक्षं शङ्कते / अकस्मादिति / अत्र किंशब्दो यदा हेतुमात्रपरस्तदा तस्य ना सम्बन्धाद्धत्वभावे भवनं लभ्यते। यदा तु भवनक्रियया नञः सम्बन्धस्तदा प्रसज्ज्यप्रतिषेधे भवननिषेधोऽर्थः, किंशब्द-समस्यमानेनापि नञा भवतीत्यस्यान्वयात् / असामर्थेऽप्यसूर्याम्पश्या राजदारा इतिवत् समासः। अ-शब्दस्यैव. वाऽयं समासं विना प्रयोगः / अ मा नो ना प्रतिषेधवचना इति कोषात् / प्रकाशिका। चरमकारणमादायोत्तरकालोत्पन्न आपादकाभावात् / अत्र ब्रूमः / आपादके पूर्वकालवृत्तिपदं पूर्वकालोत्पन्नपरम् , अतो न नित्यमादाय दृष्टान्तासिद्धिः, नचैवमपि तादृशादृष्टाजन्यतया उत्तरकाली. नस्यादृष्टान्तता, उत्तरकालोत्पन्नादृष्टजन्यस्यैव दृष्टान्तत्वात् / एवं चाव्यवहितपदं विपर्ययेऽव्यवधानघटितकारणतासिद्धये, अव्यवहितपदेनैव वा तादृशादृष्टवारणं यदव्यवहितपूर्वकालोत्पन्नादृष्टेनोत्तरकार्यजननं तत्कालस्यैवैतत्कालपदेनोक्तत्वात् / व्याप्यत्वं पूर्वत्वं च विपर्यये पूर्वत्वनियमरूपकारण. तालाभाय, एवं च तदर्थमेवानन्यथासिद्धत्वमपि पदार्थविशेषणं प्रवेश्यमिति दिक् / ननु यदिनिरपेक्षः स्यात् किञ्चित्कालावृत्तित्वे सति किञ्चित्कालवृत्तिर्न स्यादित्येव कादाचित्कत्वाभावापादनं तच्च न स्यादेवेत्येतदर्थत्वेनैव व्याख्यातमिति, मूले न तु कदाचित् स्यादिति पुनरुक्तमत आह / अत एवेति / पौनरुक्त्यभयादेव कादाचित्कत्वाभावापादनमन्यथा वर्णयन्तीत्यर्थः / सम्प्रदायविद इत्यरुचौ, तद्वीजन्तु किञ्चित्कालावृत्तित्वे सतीत्यादेरापादनस्य पक्षविशेषणमहिम्ना अलीकत्वे पर्यवसानम् , मकरन्दः। लावृत्तीत्यर्थः / नित्यन्तु व्यवहितेऽपि वर्तते इत्यदोष इति वदन्ति / तत्तुच्छम् / उत्तरकालोत्पन्नचरमकारणमादाय दोषतादवस्थ्यापत्तेः / वयन्तु, पूर्वकालवृत्तिपदं पूर्वकालोत्पत्तिकपरमिति न नित्यमादाय दृष्टान्तासिद्धिः / न च तादृशादृष्टादिसापेक्षत्वाद्दोषतादवस्थ्यम् / उत्तरकालोत्पन्नादृष्टसापेक्षस्य दृष्टान्तत्वे तथाप्यविरोधात् / अव्यवहितपदेनैव तद्वारणाद्वा। यदव्यवहितपूर्वकालोत्पत्तिकादृष्टेन नोत्तरकालीनकार्योत्पादनम् , एतत्कालपदेन तस्येव कालस्य विवक्षितत्वात् / प्रथमकल्पेऽव्यवहितपदं स्फुटार्थमिति युक्तमुत्पश्यामः / व्याप्यत्वं पूर्वत्वञ्च विपर्यये नियमादिगर्भकारणत्वलाभाय / एवञ्चानन्यथासिद्धत्वमपि पदार्थे विशेषणमित्याहुः / / / अत एवेति / यत एव किञ्चित्कालावृत्तित्वे सतीत्यादौ न स्यादेवेत्यस्यैव कादाचित्कत्वाभावपदेन पर्यवसानम् अत एव मूले कदाचित् स्यादिति मूलोक्तकादाचित्कत्वाभावापादनं साम्प्र. दायिका अन्यादृशमाहुः। अन्यथा पौनरुक्त्यापत्तेरित्यर्थः / तत्र पक्षविशेषणमहिम्नाऽलीकत्वसिद्धिरित्येव भेदो नोक्तदोष इत्यस्वरसोद्भावनं सम्प्रदायपदेनेतीति वदन्ति। केचित्तु सम्प्रदायविद इति प्रकरणान्वयीत्याहुः // 4 // * 7 न्या० कु०