________________ . 48 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाअलौ [4 कारिकाव्याख्यायां प्रकाशः। स्यात् / यद्वा, सकलकालावृत्तिरयं घटो यदि निरपेक्षः स्यात् किश्चित्कालावृत्तित्वे सति किञ्चित्का लवृत्तिर्न स्यात् / तेन पक्षविशेषणमहिम्नाऽलीकत्वं सिद्धयति / यद्वा, एतावत्कालपूर्वापरकालावृत्तिर्घटो यद्येतावत्कालपूर्वकालवृत्तित्वे सति एतत्कालाव्यवहितपूर्वकालवृत्तिपदार्थाधिकरणक्षणोत्तर प्रकाशिका। त्वेनाप्युपपत्तेरन्यथा व्याख्या। तथाहि सर्वत्रोत्पत्तिपदं सत्तामात्रपरं नव्यत्यास आपादके तेन पूर्वापरकालसत्तारहितोऽयं यद्येतदव्यवहितपूर्वकालोत्पत्तिकसापेक्षसत्ताको न स्यादेतावत्कालसत्ताको न स्यात् पूर्वापरोत्पन्नवदाकाशादिवद्वेति दिक् / सकलकालेति / इदं च पक्षविशेषगं नित्यत्वेन इष्टापत्तिवारणाय, अतएवोक्तं पक्षविशेषणमहिम्नेति / अलीकत्वेन तद्वारणायायमिति। प्रामाणिक इत्यर्थः किञ्चित्कालेति।किञ्चित्कालावृत्तित्वसमानाधिकरणकिञ्चित्कालवृत्तित्वस्याभाव आपाद्यः अत्र विशेष्यमात्रे अभावप्रतियोगिनि सति परमाण्वादौ व्यभिचार इति विशेषणमुक्तं प्रतियोगिनि, तस्य च प्राक्कालावृत्तित्वे सतीत्यर्थोऽतो न प्रागभावे व्यभिचारः, विशेषणमात्र भावे आपाये यद्यपि न व्यभिचारः, तथाप्यखण्डाभावतया न व्यर्थता / केचित्तु आकाशस्यावृत्तिकतया विशेषणाभावमात्रोपादाने तत्रैव व्यभिचार इति विशेष्यपदमित्याहुः / तन्न / वृत्तिपदमात्रोपादानेनैव तन्निरासे किञ्चित्कालपदवैय र्थ्यात् , किञ्चित्पदद्वयञ्च विरोधभञ्जनाय। तेनेति / विशिष्टाभावः प्रकृते सकलकालवृत्तितया कालावृत्तितया च, तत्राद्यस्य पक्षविशेषणमहिम्ना बाधात् द्वितीयमादाय पर्यवसानं तच्चानिष्टमिति सापेक्षत्वसिद्धिरिति भावः / एतावदिति पूर्वापरकालवृत्तिपदार्थाशे इष्टापत्तिवारणाय पक्षविशेषणबलेनालीकत्वसिद्धये च पक्षविशेषणं अलीकत्वेनेष्टापत्तिवारणाय घट इति विशेषणं प्रामाणिक इत्यर्थः / एतावत्कालवृत्तौ पूर्वोत्पन्ने व्यभिचार इति सत्यन्तम् / तत्रापि एतावदिति कालविशेषणमप्रसिद्धिवारणाय, सत्यन्तमात्रं च घटसमानकालोत्पन्नपदार्थे व्यभिचारीति एतत्कालेत्यादि, तत्राप्येतत्पदं प्रतियोग्युपस्थापकतया पूर्वत्वनिरूपकपरमित्यप्रसिद्धिवारणाय / अव्यवहितपदं च दृष्टान्तलाभाय तदनुपादाने नित्य आपाद्याभावात् पूर्वकालोत्पन्ने च सत्यन्ताभावादुत्तरकालोत्पन्ने च पूर्वकालीनदिगादिजन्यत्वात्तदलाभः। तदुपादाने च व्यवहितपूर्वकालतया दिगादेहत्तरकालोत्पन्न एव दृष्टान्तः। न च दिगादेरव्यवहितपूर्वकालेऽपि सत्त्वादव्यवहितपदोपादानेऽपि तद्दोषतादवस्थ्यमिति वाच्यम् / नव्यत्यासेन व्यवहितकालावृत्तित्वस्य पदार्थविशेषणत्वलाभादिति वदन्ति / तदयुक्तम् / एवमपि मकरन्दः। रकालोत्पत्तिको दृष्टान्तः / सकलेति / एतच्च पक्षविशेषणं नित्यत्वेनेष्टापत्तिवारणाय / अलीकत्वेन तद्वारणायायमिति / प्रामाणिक इत्यर्थः / / किञ्चित्कालवृत्तिर्न स्यादित्येव कृते व्योमादौ व्यभिचार इत्यत आह / किञ्चिदिति / प्राकालावृत्तित्वे सतीत्यर्थः / तेन न प्रागभावे व्यभिचारः। यद्यपि सत्यन्तमेव समर्थमिति व्यर्थविशेध्यत्वं, तथाऽप्यखण्डाभाव आपाद्य इति ध्येयम् / तेनेति / विशिष्टाभाव उभयथा. सकलकालवृत्तितया सकलकालावृत्तितया च / तच्चाद्यस्य पक्षविशेषणमहिम्नाऽभावे द्वितीयस्य पर्यवसानम् / तच्चानिष्टमिति सापेक्षत्वसिद्धिरिति भावः / / एतावदिति / पूर्वापरकालमात्रवृत्तिघटांशे सिद्धसाधनवारणाय पक्षविशेषणम् / एतावत्कालवृत्तौ पूर्वकालोत्पन्ने व्यभिचारादाह, सत्यन्तम् / एतावत्पदं कालविशेषणमात्रासिद्धिवारकम् / एतत्कालीनोत्पन्ने घटादौ सत्यन्यमानं व्यभिचारीत्यत आह / एतत्कालाव्यवहितेत्यादि / ननूत्तरकालोत्पत्तिक एव दृष्टान्तः, अन्यत्रापादकवैकल्यात् / तत्र चैतत्पूर्वकालवृत्तिनित्यदिगादिसापेक्षत्वादापादकवैकल्यमित्यत आह / अव्यवहितेति / नव्यत्यासेन एतत्कालव्यवहितपूर्वका