________________ प्रथमस्तवके] कारणत्वव्यवस्थापनम् / प्रकाशः। देतत्पूर्वकालवृत्तिः स्यात् / यद्वा, यद्ययमेतत्कालीनोत्पत्तिको घटः सहेतुको न स्यादेतत्पूर्वकालीनः स्यात् / यद्वा, घटो यदि घटव्यवहितकालानधिकरणपदार्थाधिकरणक्षणोत्तरत्वव्याप्योत्पत्तिर्नस्याद् , घटव्यवहितकालः स्यात् तत्कालवृत्तिघटादिवदिति तत्र तत्र सत्त्वापादानं स्यादेवे त्यस्यार्थः / अन्यकालानुत्पत्तिकोऽयं घटो यद्येतत्पूर्वकालानपेक्षोत्पत्तिकः स्यादेतत्कालोत्पत्तिको न प्रकाशिका। यद्ययमिति पूर्वकालोत्पत्तिके इष्टापत्तिवारणाय पक्षविशेषणम् / पक्षविशेषणसिद्धयेऽयमिति प्रत्यक्ष. विषय इत्यर्थः। घटो यदीति / घटव्यवहितकालोऽनधिकरणं यस्य पदार्थस्य तदधिकरणं यः क्षणः तनिरूपितोत्तरत्वव्याप्योत्पत्तिको न स्यादित्यापादकार्थः। घटानधिकरणकालवृत्तिः स्यादित्यापाद्यार्थः। अत्र च घटाव्यवहितकालाधिकरणेत्येतावति कृते आकाशाधिकरणत्वमादायापादकासिद्धिरिति घटव्यवहितकालानधिकरणत्वं पदार्थविशेषणम् , आकाशादे श्चव्यवहितकालवृत्तितयान तमादायापादकासिद्धिः। नचाव्यवहितोत्पन्नरासभाद्युत्तरोत्पन्नघटे रासभादिकमादायापादकासिद्धिभयेनानन्यथासिद्धःपदार्थविशेषणत्वावश्यकत्वे तयैवाकाशादिवारणात्कथं तमादायापादकासिद्धिप्रसङ्ग इति वाच्यम्। तादृशरासभादिवारकान्यथासिद्धिविरहस्य विशेषणत्वेऽपि आकाशजनकजनकदण्डत्वादिवारकाणामन्यथासिद्धि विरहाणामप्रवेशात् / आपादके घटव्यवहितपूर्वकालत्वञ्च घटाधिकरणक्षणव्यवहितक्षणत्वं न तु घटा नधिकरणक्षणत्वं विपर्यये कारणत्वासिद्धिप्रसङ्गात् / आपादने घटसमानकालत्वनियते व्यभिचाराच / विपर्यये कारणत्वासिद्धिप्रसङ्गादेव च व्याप्यत्वपर्यन्तम् / अन्यथा घटत्वावच्छिन्नोत्पत्तेरपि तत्कालोत्पन्नरासभाधिकरणक्षणोत्तरत्वसामानाधिकरण्यात् कारणत्वासिद्धिप्रसङ्गात् / न चानन्यथासिद्धपदेनैव तद्वारणं, घटत्वावच्छिन्नं प्रति रासभस्यान्यथासिद्धत्वादन्यथा कारणतालक्षणे नियमप्रवेशवैयर्थ्यात् / प्रतियोगी च परस्यासत्रख्यात्युपनीत इति ध्येयम् / तत्कालेति / घटव्यवहितकालेत्यर्थः / तत्रतत्रेति पूर्वकालादावित्यर्थः / एवं च सत्त्वापादनं स्यादेवेत्यस्य, असत्वापादनं न स्यादेवेत्यस्यार्थ इति विभाग इति भावः / अन्यकालेति / अन्यकालोत्पत्तिक इष्टापत्तिवारणाय पक्षविशेषणम् / तथाप्यनुत्पन्नस्यापि पक्षत्वेऽसत इष्टापत्तिरिति तद्वारणाय घट इति पक्षविशेषणम् / अयमिति प्रत्यक्षोपन्यासः। पूर्ववद् दृष्टान्तश्च अन्यकालोकात्पत्तिकः। आपादके चोत्पत्तिपदमखण्डाभावतया यथोक्तविशेषणविशेष्यभावेऽव्यर्थतया वा समाधेयम् / आपादके च पूर्वकालपदमव्यवहितपूर्वकालपरं कारणताशरीरसिद्धये तथा च व्यवहितपूर्वकालोत्पन्ने तत्कालविद्यमाने व्यभिचार इत्यापाद्य उत्पत्तिपदम् / वस्तुतः पक्षविशेषणमहिम्नेत्यस्य उभयापादनान्वयितया यथाश्रुतापाद्यस्य च नित्य मकरन्दः। यद्ययमिति पूर्वकालोत्पत्तिक इष्टापत्तिवारणाय पक्षविशेषणम् / घटोयदीति। घटव्यवहितकालाs नधिकरणत्वं घटाव्यवहितकालाधिकरणत्वं पर्य्यवस्यति / यत्तु आकाशादेरपि तथात्वेतदादायापादकासिद्धिः स्यादिति घटव्यवहितकालानधिकरणत्वं यथाश्रुतमेवाभिमतमिति / तन्न / अनन्यथासिद्धत्वस्य पदार्थविशेषणस्यावश्यकत्वात् / अन्यथा दण्डरूपादिकमादाय दोषतादवस्थ्यापत्तेः तस्मादुभयथाऽप्यदोष इति / रासभायुत्तरत्वसामानाधिकरण्याद्विपर्ययानुमाने कारणत्वं न सिद्धयेदिति व्याप्यत्वपर्यन्तम् / न चानन्यथासिद्धत्वेनैव तद्वारणमिति वाच्यम् / रासभादेरपि तथात्वात् / अन्यथा कारणतालक्षणे नियमांशोपादानमनर्थकं स्यात् / तत्र च तस्याविवक्षितत्वे प्रकृतेऽपि तथाऽस्त्विति / प्रतियोगी चासत्ख्यात्युपनीत इति स्मर्त्तव्यम् / घटव्यवहितकालत्वं घटानधिकरणकालवृत्तित्वमापाद्यम् / अन्येति / अन्यकालोत्पत्तिके इष्टापत्तिवारणाय पक्षविशेषणम् / उत्त