________________ 46 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [4 कारिकाव्याख्यायां बोधनी। हेतुमत्त्वमवश्याश्रयणीयमिति प्रदर्शनार्थम् / अत्र कादाचित्करवेन सापेक्षत्वं साधितमिति / तदाह कीर्तिः नित्यं सत्त्वमसत्त्वं वा हेतोरन्यानपेक्षणात् / * अपेक्षातो हि भावानां कादाचित्क वसम्भवः // इति // 4 // प्रकाशः। स्यात् , स्यादेव नित्यं स्यादाकाशवदिति स्वमते। तन्मते तु न स्यादेव केवलान्वय्यत्यन्ताभावप्रतियोगि स्यात् खपुष्पवत् / उभयत्र तु कादाचित्कत्वं न स्यादिति / यद्वा, एतदुत्तरकालानुत्पत्तिकोऽयं घटो यद्येतदुत्तरकालानुत्पत्तिकत्वे सत्येतत्पूर्वकालोत्पत्तिकानपेक्षोत्पत्तिकः स्या प्रकाशिका। पर्यवसानमयुक्तम् / अलीकत्वस्य मन्मतेऽप्रसिद्धरित्यरुचेराह। यद्वति। केवलेति। सकलदेशकालव्यापकेत्यर्थः / तन्मते साध्यादीनां प्रसिद्धिरसत्ख्यातिरूपैवेति भावः / उभयत्रेति / अत्र च प्रत्येकमापाद्यत्वं तुशब्देन व्यवच्छेद्यमिति भावः / एतदुत्तरेति / उत्तरकालोत्पत्तिके मा भूदापादकासिद्धिरिति प्रथमं पक्षविशेषणम् / पूर्वकालीनपक्षत्वे मा भूदिष्टापत्तिरिति भयमिति पक्षविशे षणं पूर्वकालावृत्तीत्यर्थः / घटसमानकालोत्पत्तिकसर्वपक्षत्वे आपादके व्यर्थविशेष्यता स्यात् पक्षीयव्यभिचारस्यादोषत्वादिति विशिष्य पक्षयति घट इति / उत्तरकालोत्पत्तिके व्यभिचारवारणाय सत्यन्तम् / पक्षीकृतघटसमानकालोत्पत्तिके व्यभिचार इत्येतत्पूर्वकालेत्यादि / एतदव्यवहितपूर्वकालेत्यर्थः। तेन चिरतरपूर्वकालोत्पत्तिको दृष्टान्तः, यथाश्रुतस्याप्रसिद्धया दृष्टान्तासिद्धेरि. त्यवधेयम् / चिरतरपूर्वोत्पन्नस्यापि कालाद्यपेक्षतया एतत्पूर्वकालीनानपेक्षोत्पत्तिकत्वं नास्तीति पुनरप्यप्रसिद्धिरिति प्रथमोत्पत्तिपदम् / आपाद्येच वृत्तिः संयोगरूपा उत्पत्तिरूपा वा विवक्षितेति कालादौ व्यभिचारवारणाय द्वितीयोत्पत्तिपदम् / न च संयोगरूपा चे«त्तिरापाद्येऽभिमता तदा पूर्वोत्पन्नगु. णादौ व्यभिचार इति वाच्यम् / तत्पक्षे द्रव्यत्वस्याऽऽपादकविशेषणत्वात् / वस्तुतो नापेक्षा उत्पत्तियस्येत्यर्थे यथोक्तविशेषणविशेष्यभावे न वैयर्थ्यम् यथाश्रुतेऽपीति / मिश्रास्तु नव्यत्यासेन पूर्वकालोत्पत्तिकसापेक्षोत्पत्तिकान्यत्वमुत्तरदलार्थ इति दृष्टान्तलाभाय नाव्यवहितत्वविशेषणापेक्षाऽऽपादके एवं सति गगनादेरेव दृष्टान्तत्वात् , न वा व्यर्थविशेषणता,. विशिष्टाभावत्वादित्याहुः / मकरन्दः / नन्वस्मन्मते नित्यत्वपक्ष एव पर्य्यवस्यति, न त्वलीकत्वमसत्ख्यात्यनभ्युपगमे सांव्यवहारिकस्यापि तस्य तत्रानभ्युपगमादित्यरुचेराह / यद्वेति / एतदुत्तरकालेति / एतत्तु पक्षविशेष णमुत्तरकालोत्पत्तिकघटांशे आपादकासिद्धिवारणाय / पूर्वकालीनघटेंऽशतः सिद्धसाधनवारणायायमिति / पूर्वकालावृत्तिरित्यर्थः। एतत्कालवृत्तिसर्वपक्षत्वे आपादके व्यर्थविशेष्यता स्यात् , पक्षीयव्यभिचारवारणायोगादतो विशिष्य पक्षयति / घट इति / उत्तरकालोत्पत्तिके व्यभिचारादाह सत्यन्तम् / तद्घटसमसमयोत्पत्तिकपटादौ व्यभिचारादाह / एतत्पूर्वकालेति / अव्यवहितपूर्वकालेत्यर्थः / तथा च चिरतरपूर्वकालोत्पन्नो दृष्टान्तः। अन्यथा यथाश्रुतस्याप्रसिद्धया तदसिद्धिरित्यवधेयम्। तेनापि तादृशकालाद्यपेक्षणात् दृष्टान्तासिद्धिरेवेत्यत आह प्रथममुत्पत्तिपदम् / चरममुत्पत्तिपदं चिन्त्यम् / ___ केचित्तु वृत्तिपदेन संयोगस्य, कालस्य कालावृत्तित्वात् तत्र व्यभिचारवारणाय तदुपादानम् / न चैवं प्रागुत्पन्नगुणादौ व्यभिचारः। आपादके द्रव्यत्वस्यापि विवक्षितत्वादित्याहुः / वस्तुतस्तु नव्यत्यासेन एतत्पूर्वकालोत्पत्तिकसापेक्षोत्पत्तिकत्वाभावो विवक्षितः / तथाच नाव्यवहितत्वविवक्षा, न वा अखण्डाभावे वैयर्थ्यशङ्का, न वा नित्यस्य दृष्टान्तत्वे तदसिद्धिरिति /