________________ प्रकाशः। प्रथमस्तवके] ___ कारणत्वव्यवस्थापनम् / 45 ___ न ह्ययं संसारोऽनेकविधदुःखमयो निरपेक्षो भवितुमर्हति, तदा हि स्यादेव न स्यादेव वा, न तु कदाचित् स्यात् // 4 // बोधनी। त्मसमवेतं, भोग प्रति नियमदर्शनात् / तथा च तस्यास्मदादिभिरशक्यज्ञानत्वात् तदुपदेष्टा तदधिष्ठाता जगत्क" चेश्वरः सिध्यतीति प्रथमपरिच्छेदार्थसंग्रहश्लोकतात्पर्यार्थः // 4 // . तत्र तावत् सापेक्षत्वादित्येतदुपपादयन् विवृणोति-न ह्ययमिति / संसार: कार्यवर्गः / नेकविधः सर्वकालं नैकरूपः, कादाचित्क इति यावत् / अनेकविध इति पाठे वक्ष्यमाणहेतुवैचित्र्योपयुक्ततया कार्यवैचित्र्यमुक्तम् / दुःखमयत्वं स्वतन्त्रप्रसिद्धया सर्वस्यापि दुःखत्वभावनार्थमुक्तं, न तु साधनोपयोगितया। यद्वा, दुःखमयत्वात् तवापि हेयं हान हेतुनिर्वृत्त्या। तथाच तदुपपादकं प्रतिभोक्तृनियतमेवादृष्टं कल्प्यत इति,अस्ति हेतुरलौकिक इत्याद्यस्तबकार्थसंग्रहः॥४॥ यथोक्तप्रत्यक्षानुमानयोरन्यथासिद्धिनिरासाय तर्कमाह / न ह्ययमिति / अनेकविधेति मुमुक्षुवैराग्याथ कार्यवैचित्र्यस्फोरणार्थं वा / तच्च विचित्रादृष्टसाधनोपयुक्तम् / निरपेक्षत्वञ्च किञ्चित्पदार्थावधिकोत्तरत्वाव्याप्यकालसम्बन्धित्वम् / न च प्रतियोग्यप्रसिद्धिः / तस्यासत्ख्यातिवा दिनः सांव्यवहारिकस्य सापेक्षत्वस्यापि स्वीकारात् / ... ननु, निरपेक्षत्वेनैकेन व्याप्येन स्यादेव, न स्यादेवेति द्विरूपं व्यापकद्वयं विरुद्धं कथमापाद्यते? न ह्येकं मिथोविरोधिद्वयव्याप्यम् / तुशब्दश्चासङ्गतः, कादाचित्कत्वाभावस्य स्वतन्त्रस्यैवानि. टापादनार्थत्वात् / अत्राहुः / निरपेक्षत्वेन कादाचिकत्वव्यतिरेक एवाऽऽपाद्यः / स च स्यादेव, न स्यादेवेति पक्षद्वये पर्य्यवस्यति, अत एव तुशब्दोऽपि सङ्गच्छते। यद्वा, कायं यदि निरपेक्ष प्रकाशिका। घवादित्यर्थः / वस्तुतः कृतहानाकृताभ्यागमदोषप्रसङ्गादेवादृष्टस्य प्रत्यात्मनियतत्वमिति // 4 // किञ्चिदिति / अनन्यथासिद्धकिञ्चिदित्यर्थः / असमानाधिकरणेति कृतेऽसम्भव इत्यत उक्तमव्याप्येति / अत्र च स्वपूर्ववर्त्तित्वमप्यवधौ विशेषणम् , अन्यथा परमाण्ववधिकोत्तरत्वव्याप्यकालसम्बन्धसत्वादाकाशे निरपेक्षत्वाभावापत्तेः / न चेति / तथा चापादकाप्रसिद्धिः परमते पराभ्यु. पगतस्यैव चापादकत्वात् स्वमते प्रत्यक्षेणैव प्रसिद्धिरिति परमते तामाह। तस्येति / तुशब्द इति परस्पराङ्गाङ्गिभावापन्नत्वस्य तुशब्दवाच्यत्वात् प्रकृते च कादाचितूकत्वाभावस्य स्वतन्त्रस्यैवापादनादिति भावः / अत एवेति / पयवसितेऽङ्गाङ्गिभावसत्त्वादिति भावः / ननु नित्यत्वालीकत्वान्यतरहेतोरभिन्नत्वेऽभिन्नजातीयत्वे चेत्यर्थः / हेत्वोरिति पाठेऽप्यर्थः स एवेति // 4 // - किञ्चिदिति / अनन्यथासिद्धकिञ्चित्पदार्थावधिकोत्तरत्वव्याप्यकालसम्बन्धित्वाभाव इत्यर्थः। नचेति। परसिद्धमापादकं भवति, न च कारणत्वपर्यवसन्न प्रतियोगिनस्तन्मते प्रसिद्धिरित्यर्थः। स्व मतेप्रत्यक्षेणैव तत्प्रसिद्धरुक्तत्वादिति भावः / अत एव तन्मतेनैवोत्तरमाह / तस्येति / तुशब्द इ. ति। परस्पराङ्गाङ्गिभावस्य तुशब्दार्थत्वादिति भावः। पक्षद्वय इति / नित्यत्वालीकत्वान्यतरपक्ष इत्यर्थः / टिप्पणी। धर्म इत्यर्थः / द्वितीये प्रमेयत्वे, प्रथमे प्रागभावत्वत्वे प्रसिद्धिरिति केचित् // 4 // किञ्चित्पदार्थावधिकोत्तरत्वाव्याप्येति / असमानाधिकरणेत्युक्तौ आकाशादिनिष्ठकिञ्चित्कालसम्बन्धित्वस्यापि तादृशोत्तरत्वसमानाधिकरणत्वादप्रसिद्धिः स्यादिति तादृशान्याप्यत्वपर्यन्तानुधावनम् / न चाकाशादिनिष्ठकालसम्बन्धित्वस्य परमाणूत्तरत्वव्याप्यतयाऽप्रसिद्धितादवस्थ्यमिति वाच्यम् / किञ्चित्पदार्थरूपावधौ किश्चित्कालासम्बन्धित्वस्य विशेषणीयत्वात् / स्वतन्त्रस्यैवानिष्टापादनत्वादिति / मकरन्दः।