________________ . 44 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [4 कारिकाया प्रत्यात्मनियमाद् भुक्तेरस्त हेतुरलौकिकः // 4 // .. बोधनी। विवक्षितासिद्धिरित्यत्राह-प्रत्यात्मेति। यागादिस्वरूपस्यैव हेतुत्वे तस्य क्षणिकत्वात् कालान्तरभाविनः फलस्य भुक्तिर्न स्यात् , तस्मात् तेनान्तरा किञ्चिदपूर्वमनेन जनयितव्यम् , तच्च प्रत्या प्रकाशः। ननु हेतुरपि यदि सदातनस्तदा तत्सापेक्षस्य कार्य्यस्यापि तथात्वापत्तिरिति कादाचित्कत्वमहेतोरिवाकाशादेः सहेतोरपि सपक्षात् व्यावृत्तमित्यसाधारणं स्यादिति हेतुः कादाचित्को वाच्यः, तथा च तस्यापि कादाचित्कत्वं हेत्वपेक्षयेत्यनवस्थापत्तिः / अहेतुकत्वे च तद्वदेव कार्यमप्य हेतुकं कादाचित्कं स्यादित्यत आह / अनादित्वादिति / हेतोरपि कादाचित्कत्वं स्वहेतुकादाचित्कत्वादेव, प्रामाणिकी चेयमनवस्था बीजाङ्कुरवन्न दोषायेत्यर्थः / , ननु कारणमात्रसिद्धावप्येकमेकजातीयं वा कारणमस्तु कार्य्यजातस्य, तच्चास्मदादिनैव शक्यज्ञानमिति न तदर्थमुपदेशो, न वा विलक्षणसामग्रीजन्यं कायं सिद्धयतीत्यत आह / वैचित्र्यात् / भिन्नजातीयकारणानन्तरं तथाभूतकार्यविषयकं प्रत्यक्षमेव विचित्रे सांधने मानमुपन्य स्तम् / यद्वा, वैचित्र्यं कार्य्यस्य विचित्रहेतुकत्वे लिङ्गमेव / उभयत्राप्य भिन्नत्वाभिन्न जातीयत्व. योर्हेतोः कार्य्यस्य भेदविजातीयत्वे आकस्मिके स्यातामिति तर्कः सहकारीत्यर्थः / / तथापि दृश्यमानविचित्रहेतुकमेव कार्य्यमस्त्विति नादृष्टसिद्धिरित्यत आह / विश्ववृत्तितः। विश्वेषां प्रेक्षावतां वृत्तिः-परलोकार्थितया यागादौ प्रवृत्तिः प्रेक्षावत्प्रवृत्तित्वेन सफला, फलसाधनत्वञ्च यागादेराशुविनाशित्वेन न स्यादिति तज्जन्यफलानुकूलमदृष्टं कल्प्यत इत्यर्थः / तथापि तददृष्टं भोग्यनिष्ठमुत भोक्तृनिष्ठम् ? अन्त्येऽपि किं. प्रतिभोक्तृनियतं, साधारण वा ? इत्यत आह / प्रत्यात्मेति / भुक्त-सुखदुःखसाक्षात्कारस्य प्रत्येकात्मनियतत्वाल्लाघवाच्च प्रकाशिका स्तीत्यभिप्रायेणेदमिति कश्चित् / वस्तुतः सहेतुकत्वमुत्पत्तिमत्वं च द्वयमप्युत्पत्तौ विशिष्टस्याप्यनतिरेकात् तथा च न तत्र व्यभिचारः। कादाचितूकत्वं तु प्रागभावे व्यभिचारादेव त्यक्तम् / न चोत्पत्तरित्यादिर्न तया व्यभिचार इत्यन्तश्च ग्रन्थ एकदेशिमतेन एकदेशिनश्वाभिप्रायो वर्णित एवेत्यवधेयम्। असाधारणमिति अगमकमित्यर्थः / अहेतुकत्वे च सदातनहेतुकत्वे च कादाचित्कत्वानुपपत्तेरिति भावः। शक्यज्ञानमिति / अल्पतयाऽनुमानावतारसम्भवादिति पूर्वपक्षिणो हृदयम् / ननूपादानगोचरं प्रत्यक्षं कार्यजनकमिति नास्मदादिना ब्रह्म प्रधानं वा साक्षात्कर्तुं शक्यमित्यरुचेराह / न वेति / तथा च नादृष्टसिद्धिरिति भावः / अभिन्नेति / हेतोरभिन्नत्वेऽभिन्नजातीयत्वे चेत्यर्थः / अभिन्नाभिन्नजातीययोर्हेत्वोरिति क्वचित् पाठः / तत्रापि फलतोऽयमेवार्थः। अभिन्नत्वाभिन्नजातीयत्वयोर्हेत्वोरिति क्वचित्पाठः। तत्राभिन्नहेतुकत्वाभिन्नजातीयहेतुकत्वयोरापादकयोः सतोरित्यर्थः / ननु दृष्टरूपकारणसाधारण्येऽपि कारणान्तरवैचित्र्यादेव भोगासाधारण्यमत आह / लाघवाच्चेति / सामानाधिकरण्यला. मकरन्दः / यद्यप्यत्रापि स्वरूपस्यैव तत्सम्बन्घत्वेत त्र पूर्ववदुत्पत्तिमत्त्वेन चोत्पत्तेरित्यग्रिमग्रन्थविरोधः, तथापि स्वरूपातिरिक्तसम्बन्धस्योत्पत्तिरूपत्वं, तत्र चात्माश्रयादनवस्थानाच्च नोत्पत्तिमत्त्वमिति मताभ्युपगमानुसारेणेदम् / असाधारणस्यादिति / अगमकं स्यादित्यर्थः / ननुतद् ब्रह्माऽऽत्मकं प्रधानात्मकं वाऽतीन्द्रियं, नास्मदादीनां शक्यज्ञानमिति यदि ब्रूयात्तदा दोषान्तरमाह / न वेति / अभिन्नत्वेति /