________________ प्रथमस्तवके] कारणत्वव्यवस्थापनम् / प्रकाशः। क्षितत्वाद्वा। अपि च, इदमस्मान्नियतपूर्वसदित्यपि प्रत्यक्षं तत्र मानम् / प्रत्यक्षे चानन्यथासिधिनियमांशावधारणहेतुशङ्कानिवर्त्तकस्तर्को दर्शयिष्यत इति भावः / यद्वा, प्रत्यक्षसहकारित्वेनाऽनुमानमेवोपन्यस्तम् / यद्वा, प्रथमतोऽनुमानप्रामाण्यं प्रसाध्य, कार्य सहेतुकं कादाचित्कत्वात् यन्नवं तन्नैवम् , यथाऽऽकाशम् / न च साध्याप्रसिद्धिः। कियद्भागे प्रत्यक्षेणैव तत्सिद्धौ तदविषयेऽनुमानात् / नचोत्पत्तेः कादाचित्कत्वेऽपि न सहेतुकत्वम् , तथात्वे वोत्पत्तिमत्त्वापत्तावनव. स्थेति वाच्यम् / कार्य्यस्याद्यक्षणेन सह स्वरूपसम्बन्ध एव ह्युत्पत्तिः, कार्यक्षणस्वरूपयोश्चोत्प. त्तिमत्त्वेन हेतुमत्त्वात् / यद्वा, उत्पत्तिगर्भः किञ्चित्समयसम्बन्धः कादाचित्कत्वम् / अत एव न प्रागभावे व्यभिचारः / न चोत्पत्तेरुत्पत्तिमत्त्वेन हेतुमत्त्वात् स इति न तया व्यभिचारः। एतेनानुमानपक्षे, हेतुरस्ति सापेक्षत्वाद्-इत्यत्र हेतोरसिद्धावाश्रयासिद्धिः। सापेक्षत्वस्य कार्य्यधर्मत्वेन हेताववृत्तौ स्वरूपासिद्धिश्च / कार्य्यस्यैव पक्षत्वे, सापेक्षत्वादित्यस्य हेतुमत्वादित्यर्थे साध्याविशेषः, कादाचित्कत्वादित्यर्थे च प्रागभावेन व्यभिचार इत्यपास्तम् / . प्रकाशिका। अपि चेति। नियतेति। अनन्यथासिद्धत्यपि विशेषणम् / नन्वेवं कादाचित्कत्वोपवर्णनमयुक्तमेवेत्यत आह / प्रत्यक्षसहकारित्वेनेति / सहकारिता च संवादेन प्रामाण्यग्रहद्वारा वा, अन्यथा प्रत्यक्षत्वानुमितित्वसङ्कर/पत्तेः / ननु अनुमानसम्भवे किं प्रत्यक्षेण ? वादिनं प्रति तस्याप्यनुमानच्छाययैव प्रवृत्तेरित्यस्वरसादाह यद्वेति / प्रसाध्येत्यनन्तरमित्थं प्रयोग इति शेषः / अन्वयिसम्भवेऽपि व्यतिरेकिणः सामर्थ्यमित्यभिप्रेत्याह। यन्नैवमिति / स्वरूपसम्बन्ध एवेति / सूर्यस्पन्दात्मककालोपाधिना समं सम्बन्धान्तराभावादिति भावः / ननु यथाश्रुतं कादाचित्कत्वं प्रागभावे व्यभिचारि प्रागसत्त्वविशेषणे च व्यर्थविशेष्यतेत्यरुचेराह / यद्वेति। उत्पत्तिगर्भः उत्पत्तिरूपः / अन्यथा व्यर्थविशेषणत्वादिति / विसर्गशून्यपाठपक्षे तु उत्पत्तिगर्भ:-उत्पत्तिघटको य आद्यसमयस्तत्सम्बन्ध इत्यर्थः / तथाप्युत्पत्तिमत्त्व एव पर्यवसानम् / नचोत्पत्तरिति / यद्यप्युत्पत्तेः क्षणघटोभयरूपत्वे उभयोः सहेतुकत्वमेवेति साध्यसत्त्वादेव न व्यभिचारः / तथापि मिलितस्योत्पत्तिरूपत्वं न च तत्र सहेतुकत्वमर्थवशसम्पन्नत्वादिति हेत्वसत्त्वमेवोक्तम् / उत्पत्तिरपि स्वरूपसम्बन्धात्मिका यद्यप्युत्पत्तौ, तथापि मिलिते तादृशसम्बन्धोऽपि नास्तीत्यभिप्रायेणेदमुतम् / स्वरूपातिरिक्तसम्बन्धस्यैवोत्पत्तिरूपत्वं स चानवस्थाऽऽत्माश्रयादिदोषभयादुत्पत्तौ ना मकरन्दः। वृत्तं प्रत्यक्षमाह / अपि चेति / अनन्यथासिद्धनियतपूर्वसदित्यर्थः / नियमानन्यथासिद्ध्योरित्यत्र समाधिमाह / प्रत्यक्षे चेति / ननु परं प्रति प्रत्यक्षमुपन्यासानहमेव, अनुमानच्छाययैव तत्र तस्य गमकत्वाङ्गीकारात् / किश्च कादाचित्कत्वमुपन्यस्तमलग्नकमेवैवं स्यादित्यत आह / यद्वा प्रत्यक्षेति। नन्वनुमानप्रामाण्ये किं सहकारितया ? स्वतन्त्रस्यैव समर्थत्वात् / अप्रामाण्ये सहकारित्वमपि न स्यात् / किञ्चैवं प्रत्यक्षानुमितित्वयोः सङ्करापत्तिरित्याशयेनाह / यद्वेति / सूर्यस्पन्दात्मकक्षणेन समं घटादेः सम्बन्धाऽन्तराभावादाह। स्वरूपेति / ननु यथाश्रुतं कादाचित्कत्वं प्रागभावे व्यभिचारि, प्रागसत्त्वविशेषितञ्च व्यर्थविशेष्यत्वग्रस्तमित्यरुचेराह / यद्वेति / नन्वे. वमुत्पत्तिमात्रमेव हेतुरस्तु, अधिकस्य व्यर्थत्वादिति चेन्न / इष्टत्वात् / उत्पत्तिपदेनोत्पत्तिरूपत्वस्य विवक्षितत्वात् / तथाचाद्यसमयसम्बन्धस्य हेतुत्वपर्यवसानम् / यद्वा, उत्पत्तिगर्भ उत्पत्तिघटकः किञ्चित्समय आद्यसमयस्तत्सम्बन्ध इत्यर्थः। तत्रैव पर्यवसानं विसर्गशून्यपाठादित्याहुः /