________________ 42 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाजलौ [4 कारिकायां बोधनी। अत्रोभयत्रापि व्यतिरेकेण गगनं दृष्टान्त इति। ननु सापेक्षत्वेऽपि कादाचित्कत्वानुपपत्तिः, अपेक्षणीयस्य सदातनत्वेन कार्यस्यापि सदातनत्वप्रसङ्गात् / तथाच निरपेक्षादिव सापेक्षादपि व्यावृत्तेः कादाचित्कत्वहेतुरसाधारणः स्यादित्यत्राह-अनादित्वादिति / न हि कारणस्य सदातनत्वं, तस्याप्यपेक्षणीयान्तरसम्भवात् , न चानवस्था, कार्यकारणप्रवाहस्यानादित्वा. दिति / यद्वा, कारणान्तरानपेक्षत्वेऽपि भावस्योत्तरकोटिना प्रध्वंसमात्रेण कादाचित्कत्वोपपत्तेर्नेदं सापेक्षत्वव्याप्तमित्याशङ्कयाह-अनादित्वादिति / निरपेक्षत्वे कार्यस्यानादित्वप्रसङ्गात् सापेक्षपरम्पराप्रवाहस्यानादित्वादिति / / नन्वेकमेकजातीयं वा किञ्चित् कारणमस्तु, तथा च विवक्षितकारणासिद्धेर्न तदर्थमुपदेशापेक्षेति तत्राह-वैचित्र्यादिति / विचित्रकारणाभावे कार्यवैचित्र्यं न स्यात् , अस्ति च तदिति / अस्तु तर्हि दृष्ट एव विचित्रो हेतुर्जगद्वैचित्र्यस्य,तथाच विवक्षितासिद्धिस्तदवस्थेत्यत्राह- . विश्ववृत्तित इति / तावन्मानहेतुत्वे प्रेक्षावतो विश्वस्य पशुपुत्राद्यर्थं यागादौ प्रवृत्तिनं स्याद् , दृश्यते चासौ, तस्माद्यागादिरपि कारणमिति / तर्हि यागादिस्वरूपमेव कारणमस्तु, तथापि प्रकाशः। तथाहि, कार्यकारणभावानभ्युपगमे परप्रतिपत्तिफलकवचनप्रयोगानुपपत्तेः / यथा यथा तन्निराकरणाय प्रयत्नस्तथा तथा तस्यैवापत्तेरिति व्याघात एवेत्यर्थः। तथापि साधकं विना न तत्सिद्धिरिति चेत् , तत्राह / सापेक्षवादिति / विवादपदस्य सापेक्षत्वात्-सहापेक्षया वर्तमानत्वात् कादाचित्कत्वादित्यर्थः / तच्च किञ्चित्कालासंबन्धित्वे सति किञ्चित्कालसंबन्धरूपं कार्याणां प्रत्यक्षसिद्धमित्यनन्यथासिद्धमेतत् / एतस्मादनन्तरमिदं भवत्येतदभावे नेति प्रत्यक्षमेव कार्यकारणभावे मानम् / अत एव प्रागभावस्य कादाचित्कत्वेऽपि न तत्र तत्सिद्धिः / प्रागसत्त्वस्य विव प्रकाशिका। प्रामाणिके कारणत्वे निषेधोऽपि नास्माकमिति कुतो व्याघात इत्यभिप्रेत्याह / तथापीति / सापेक्षत्वादित्यस्य सहेतुकत्वादित्यर्थे हेतुरस्तीति साध्यवैयधिकरण्यं सहेतुकंत्वे च साध्ये साध्याविशेष इत्यत आह / कादाचित्कवादित्यर्थ इति / साध्यश्च सहेतुकत्वमिति भावः / किश्चिदिति / कारणत्वाभिमतानुत्तरकालासम्बन्धित्वे सति तदभिमतोत्तरकालसम्बन्धित्वमित्यर्थः / ननुसहेतुकत्वे साध्ये साध्याप्रसिद्धिस्तदवस्थैव निरुक्तकादाचित्कत्वज्ञानसहकृतप्रत्यक्षगम्यत्वेऽपि कारणता याः प्रागभावप्रतियोगिककारणताग्रहप्रसङ्ग इति प्रत्यक्षं विशिनष्टि एतस्मादिति / मानं करणं न तु मितिः,उक्तप्रत्यक्षस्य कारणत्वाविषयकत्वाद् / विशेषणफलमाह अतएवेति। उत्त प्रत्यक्षस्य तत्रासम्भवादित्यर्थः। कादाचित्कत्वेऽपि यथाश्रुतकादाचित्कत्वेऽपि। लिङ्गत्वपक्षेऽपि न प्रागभावे व्यभिचार इत्याशयेनाह प्रागिति। कार्यविशेष्यकं कारणताग्राहकं प्रत्यक्षमुक्वा कारणविशेष्यकं तदाह मकरन्दः। थापि तन्मतेनैव तत्पक्षाभावसाधनमुपन्यस्तमिति मन्तव्यम् / यद्वा एतदस्वरसादेव व्याघातमालम्बते / तथाहीति / यत्तु, यतः सापेक्षत्वादिति पञ्चमीद्वयमसंलग्नमिति कुसृष्टिव्याख्यानमिति / तन्न। यतो हेतुरस्तीति हेतुहेतुत्वेन सापेक्षत्वादित्यस्य सङ्गतत्वात् / सुहृद्भावेनाह / तथापीति / एतावन्मात्रं प्रागभावसाधारणमतः प्रत्यक्षं विशिनष्टि / एतस्मादिति / तत्फलमाह / अत एवेति / उक्तप्रत्यक्षस्य तत्रासम्भवादेवेत्यर्थः / प्रत्यक्षपरतायां प्रागभावे कादाचित्कत्वस्य व्यभिचारेऽप्य. दोषः / लिङ्गत्वेनाप्यने तदभिधानात् / तदभिप्रायेणाह / प्रागिति / प्रकारान्तरेण प्रागभावव्या