________________ प्रथमस्तवके]. कारणत्वव्यवस्थापनम् / तत्र न प्रथमः कल्पः / यतः- सापेक्षत्वादनादित्वाद्वैचिच्याद्विश्ववृत्तितः। बोधनी। धिसद्भावेनाप्रयोजकत्वम् , व्याप्तिप्रमाणाभावेन व्याप्त्यसिद्धिरिति जगत्कर्तृत्वादिविशिष्टे परमेश्वरे प्रमाणाभावादिति बौद्धमीमांसकचार्वाकाः प्रत्यवतिष्ठन्ते तत्साधकेति। केचित् 'पूर्वमुपदेशलिङ्गकमनुमानमेव चिन्तितं न कार्यलिङ्गस्य प्रस्तावः, सम्प्रत्युपदेष्टरि सिद्धेऽपि जगत्कर्त्तरि प्रमाणाभावमेव वदन्तः प्रत्यवतिष्ठन्त' इति व्याचक्षते / अनेन विप्रतिपत्तिप्रदर्शनेन न्यायस्य सन्दिग्धविषयत्वमपि प्रदर्शितं भवति / _____ तत्र यथामतस्यालौकिकस्य हेतोः साधकानि सङ्कलय्याह-सापेक्षत्वादिति / अत्र तावत् सापेक्षत्वेन, सत्येव हेतौ कार्य भवति नासतीति सर्वलोकप्रसिद्धं प्रत्यक्षं हेतुमत्त्वे प्रदर्शितम् ; अनुमानं च-विवादाध्यासितं हेतुमत् सापेक्षत्वात् / सापेक्षत्वं च कादाचित्कत्वात् / प्रकाशः। प्रमा। तथा च यदीश्वरः कर्ता स्यात् , प्रमावांस्तत्करणेन्द्रियादिमांस्तत्समवायिकारणञ्च स्यात् , न चायं तथेति विपर्यायानुमानादित्यर्थः / अप्रमाणपुरुषस्य वचः कः श्रद्धास्यतीति भावः / तत्साधकेति / कार्यत्वादेरुपाधिदुष्टत्वात् क्षितिवेदादेः कर्तृजन्यत्वसाधकमेव नास्तीत्यर्थः / ___ तत्र चार्वाकस्यायं भावः / कार्यकारणभावे प्रत्यक्षं न तावन्मानं, धर्मिस्वरूपप्रत्यक्षेऽपि तत्र संशयात् / नचान्वयव्यतिरेकानुविधानज्ञानसहकारिविरहात् स इति वाच्यम् / तन्मात्रस्य व्यभिचारिसाधारण्यात् / नियमानन्यथासिद्धयोश्च शङ्काकलङ्कितत्वेनानवधारणात् / नाप्यनुमान, तस्य मया मानत्वेनानभ्युपगमात् / तत्साधने क्वचिदसिद्धावन्वयिनोऽसम्भवात् / तदसिद्धौ व्यतिरेकाज्ञानात् केवलव्यतिरेक्यनवतारात् / मभ त्वप्रमितस्यासत्ख्यात्यभ्युपगमान्न निषेध्याप्रसिद्धिरित्यत आह / तत्रेति / तेषु मध्ये न प्रथमः पक्षः कल्पो यतः, कल्पनाऽसख्यातिस्तद्विषयः / - प्रकाशिका। तत्रेति / तदिति। तस्य मानत्वसाधनेऽपीत्यर्थः / तदसिद्धाविति / कारणत्वासिद्धावित्यर्थः। प्रत्यक्षेण तद्ब्रहस्य निषिद्धत्वादिति भावः / नन्वेवं निषेधोऽपि कथमत आह / मम विति। ननु न प्रथमः कल्पः पक्ष इति सामानाधिकरण्येनान्वये यतो हेतुरस्तीति हेत्वन्वये साध्याविशेषः, हेतोरेव हेत्वभावात्मकप्रथमपक्षाभावत्वात् हेत्वभावो न प्रामाणिको यतो हेतुरस्तीति व्यधिकरणमतोऽन्यथा व्याचष्टे / कल्पः कल्पनेति / यद्यपि प्रथमकल्पो न प्रामाणिकोऽसत्स्व्यातिविषयत्वादित्यत्रापि पर्यवसिते साध्यादीनामप्रसिद्धिः / तथापि वचने प्रतिपत्तिकारणत्वज्ञानं प्रामाणिक तन्निष्टत्वेन व्याहतनिषेधप्रतियोगित्वादित्यत्र तात्पर्यम् / अत एवाने कारणत्वाभावे व्याघातमेवाहेति। केचित्तु तन्मतमवलम्ब्यवेदमुक्तम् / तन्मते चासत्स्व्यातिरूपैव साध्यादीनां प्रसिद्धिरित्याहुः। ननु मकरन्दः। तत्करणेन्द्रियादिशून्यत्वात् तत्समवायिभिन्नत्वादित्यत्र तात्पर्यम् / तदिति / तस्य साधनत्वसाधनेऽपीत्यर्थः / तदिति / कारणत्वासिद्धावित्यर्थः / प्रत्यक्षेण तद्ग्रहस्य निषिद्धत्वादिति भावः। न प्रथमः पक्ष इति / न प्रथमः कल्प इति सामानाधिकरण्ये प्रथमकल्पस्य हेत्वभावरूपतया तदभावरूपस्य साध्यस्य हेतुरस्तीति पर्यवसाने यतो हेतुरस्तीत्यत्र साध्याविशेषेण हेतुत्वानुपपत्तिः स्यात्।यदिचन प्रथमः कल्प इत्यस्य हेत्वभावकल्पोन प्रामाणिक इत्यर्थः, तथापि यतो हेतुरस्तीति व्यधिकरणम् / तथाच हेत्वभावकल्पो न प्रामाणिकः असत्ख्यातिविषयत्वादित्यत्र नोक्तदोष इति तदर्थपरतया व्याख्यातमिति मन्तव्यम् / यद्यपि पक्षादेरप्रसिद्धौ नोक्तानुमानमपि सम्भवति, त 6 न्या० कु०