________________ 40 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाअलौ [4 कारिकावतरणिकाव्याख्यायां भावात् / अन्यथापि परलोकसाधनानुष्ठानसम्भवात् / तदभावावेदकप्रमाणसद्भावात् / सत्त्वेऽपि तस्याप्रमाणत्वात् / तत्साधकप्रमाणाभावाच्चेति। बोधनी। अन्यथासिद्धं वेति न विवक्षितपुरुषसिद्धिरिति मीमांसकादिविप्रतिपत्तिमाह-अन्यथेति / कार्यत्वहेतुरपीश्वरमन्तरेणास्मदादिभिरेवादृष्टद्वारा परमाण्वादिसाधनानां प्रेरणात्मकांनुष्ठानसम्भवात् सिद्धसाधनमिति भावः / बाधितविषयं प्रमाणद्वयमित्याह-तदभावेति / ननु सत्यपि वेदकर्तरि न तत्प्रणीतत्वादागमः प्रमाणं, तत्कर्तुरप्रमाणत्वात् , यद्ययं प्रमाणं स्यात् तदा प्रमाणस्य प्रमातृत्वनियमादीश्वरस्याचैतन्यं स्यादित्यनिष्टप्रसङ्गलक्षणप्रतिकूलतर्कप्रतिहतत्वान्न साधनमुपदेशः कार्यत्वं चेत्याह-सत्त्वेऽपीति / किञ्च, प्रमासाधनस्य प्रमाणत्वान्नित्यप्रमाश्रयस्य तदसम्भवादप्रमाणत्वम् , किञ्च, अनधिगन्तुः प्रमाणत्वान्नित्यसर्वज्ञस्य च तदसम्भवादप्रमाणत्वम् , किञ्च, ईश्वरज्ञानस्यास्मदादिभ्रमानालम्बने सर्वविषयकत्वाभावः, तदालम्बने च तद्विषयालम्बनस्यापि नान्तरीयकत्वादस्मदादिविभ्रमवदेवाप्रमाणत्वापात इति ताः / अत्र सत्त्वेऽपीति सत्त्वाभ्युपगमो बाधकाभावात् सम्भावनामात्रेण, न वस्तुत इति / अस्त्वनन्यथासिद्धादुपदेशाद् विशिष्ट उपदेष्टा / तथापि कार्यत्वस्य विपक्षे बाधकामावेन सन्दिग्धविपक्षव्यतिरेकित्वम् , उपा प्रकाशः। विशिष्ट तु, अलौकिके परलोकसाधनत्वं वर्त्तते न वा ? परलोकसाधनेऽलौकिकत्वं वर्त्तते न वेति विप्रतिपत्तिः / तथाच कार्यकारणभावाभावे क्षित्यादिकर्तृत्वान्नेश्वरसिद्धिः / परलोकाभावे च तत्साधनयागादिद्रष्टुरभावे तदुपदेशकतयाऽपि नेश्वरसिद्धिः / अदृष्टासिद्धौ - तदधिष्ठातृतयापि नेश्वरसिद्धिरिति चार्वाकाभिप्रायः। अन्यथेति / अदृष्टादिसत्त्वेऽपि वेदानामाप्तोक्तत्वेन प्रामाण्यावधारणं विना तद्बोधितस्वर्गादिसाधनयागादौ बहुवित्तव्ययायाससाध्ये न प्रवृत्तिरित्याप्तो वेदकारः सिद्धयतीति नास्ति, अन्यथापि वेदानां नित्यनिर्दोषत्वेन स्वतः प्रामाण्यावधारणात् , परतः प्रामाण्येऽपि कर्मयोगसिद्धसर्वज्ञपूर्वकत्वात्तेषां परलोकसाधनयागाद्यनुष्टानसम्भवादित्यर्थः। तदभावेति / भवतु वेदानां पौरुषेयत्वाद् योगसिद्धसर्वज्ञपूर्वकत्वेनाश्वासाचाप्तोक्तत्वम् / तथापि तत्र, क्षित्यादेः कर्तृजन्यत्वे च प्रत्यक्षादिबाधान्न तत्सिद्धिरित्यर्थः। सत्त्वेऽपीति / बाधकाभावात्तत्सिद्धावपि स न प्रमाणम् , प्रमाणपदं हि भावकरणकर्तृव्युत्पत्त्या प्रमातत्साधनतदाश्रयेषु वर्त्तते, यथार्थानधिगतार्थाधिगतिश्च प्रकाशिका। त्वमेवेति अवतारिका व्याख्या चेति प्रतिभाति / उभयत्र च कल्पेऽनन्यथासिद्धत्वे सतीति विशेषणं बोध्यम् / विशिष्ट त्विति / प्रत्येकसिद्धयनन्तरमेवेयं विप्रतिपत्तिरिति नाप्रसिद्धिरिति भावः। कार्यकारणभावादौ विप्रतिपत्तिः कथमीश्वरे पर्यवसितेत्यत आह तथा चेति / तत्साधनेति / तत्साधनत्वेन यागदिद्रष्टुरभाव इत्यर्थः / प्रमाणपदं हीति / तथाचाप्रमाणत्त्वादिति बहुव्रीहितत्पुरुषाभ्यां प्रमिंतिशून्यत्वात् तत्करणशून्यत्वात् तत्समवायिभिन्नत्वाच्चेति पर्यवसितं पूर्वपक्षं पूरयति ___मकरन्दः / विशिष्ट त्विति ' विप्रतिपत्तिरिति शेषः / एवं प्रागपि बोध्यम् / अविशिष्टप्रत्येकप्रसिद्धिदशायामेवैतदभिभतमिति प्रसिद्धिरिति भावः / तदिति / तत्साधनत्वेन यागादिद्रष्टुरभाव इत्यर्थः / प्रमाणपदं हीति / तथाचाप्रमाणत्वादिति मूलोक्तस्य बहुव्रीहितत्पुरुषाभ्यां प्रमितिशून्यत्वात् टिप्पणी। वच्छेदकत्वार्थिका, तथा च द्वयोः प्रसिद्धयवच्छेदकं प्रागभावत्वमित्यर्थः / प्रागभावत्वे प्रागभाव