________________ प्रथमस्तवके ]. न्यायाङ्गसंशयबीजविप्रतिपत्तिनिरूपणम् / . 36 प्रकाशः। वा?.यद्वा, तज्जातीयोत्पत्तिप्राकक्षणत्वप्रतियोगिव्यापकतावच्छेदकत्वमत्यन्ताभावप्रतियोगिवृत्ति न वा / प्रकाशिका। पदेन प्रागभाववृत्तिधर्म उक्तः, स च प्रागभावत्वं प्रमेयत्वं चेति यथासंख्यं प्रथमद्वितीयविधिकोटिप्रसिद्धिरिति वदन्ति / यद्वा द्वयोरपि विप्रतिपत्योरविषयपदान्तार्थस्य प्रागभावत्वे प्रसिद्धिरित्यर्थः / तथाच तत्प्रतियोगिनि प्रागभावे तदवृत्तौ च प्रागभावत्वत्वे प्रसिद्धिरिति भावः / वस्तुतः कार्यपदं तद्विशेषघटादिपरं तथा च विधिकोटिरपि तत्प्रागभावान्यत्वगभी एवं च तादृशपटादिप्रागभाववृत्तितया प्रागभावत्वे प्रसिद्धिः सुलभैवेति दिक। कार्यति / अनन्यथासिद्धकार्यनियतपर्ववर्तिनीत्यर्थः, विशिष्टाप्रसिद्धावपि खण्डशः प्रसिद्धिः सुलभैवेति भावः। एकमेकजातीयं वा कारणमित्यत्र संशयमाह यद्वति। तज्जातीयोत्पत्तिप्राकक्षणत्वं यत्र, तत्र ब्रह्माधिकरणत्वं प्रधानाधिक रणत्वं वेत्यस्यां व्यापकतायां ब्रह्म प्रधानं वा निरूपकतयावच्छेदकं तदुभयञ्च नित्यतया व्यापकतया च नात्यन्ताभावप्रतियोगीति निषेधकोटिः। परेषां दण्डादीनां कारणतया विशिष्टप्राकक्षणत्वव्यापकाधिकरणताप्रतियोगितया विधिकोटिनैयायिकानां यद्यपि ब्रह्मणोऽप्यत्यन्ताभावप्रतियोगित्वम्। तथापि कालिकदैशिकविशेषणतासम्बन्धावच्छिन्नत्वमत्यन्ताभावविशेषणमिति / मिश्राणामवतारिका व्याख्या च वस्तुतो भवतु सा कारणता तथापि न सा व्यतिरेकिधर्मवृत्तिरिति नादृष्टाधिष्टाततया परमेश्वरसिद्धिरिति तस्या व्यतिरेकिवृत्तित्वसाधनाय विप्रतिपत्तिमाह / यद्वति / यदा तदव्यवहितप्राक्क्षणत्वं तदा स्वतो व्यापारतो वा.दण्ड इति दण्डस्य व्यापकता, तदवच्छेदकं च तदाश्रय मकरन्दः / सम्भवेऽपि द्वितीयायामसम्भवः, न हि प्रागभावत्वस्य प्रागभावत्वे वृत्तिरपि तु. प्रागभाव एव स च न प्रागभावान्य इति चेत् / प्रागभावत्वपदेन प्रागभावत्वत्वस्य विवक्षितंत्वात् / तस्य च ताहशबुद्ध्यविषये प्रागभावत्वे वृत्तेः / तत्प्रतियोगित्वाच्चेत्येके / प्रागभावत्वपदेन प्रागभावधर्मः प्रमेयत्वादिर्विवक्षित इत्यन्ये। . __ यत्तु व्यासज्ज्यप्रतियोगिकाभावाश्रयणे प्रतियोगित्वप्रागभावान्यः केवलः प्रागभावोऽपीति तवृत्तित्वेन यथाश्रुतमेव सम्यगिति / तत्तुच्छम् / प्रागभावमादाय सिद्धसाधनस्यैवमपरिहारात् / तथा च तदन्यत्वविशेषणं व्यर्थमापद्येत / वस्तुतस्तु कार्यपदं तद्विशेषपटादिपरम् / तथाच तत्प्रागभावतत्प्रागभावप्रतियोगित्वान्यप्रागभावाविषयप्रतीत्यविषयपटादिप्रागभाववृत्तित्वादिना प्रागभावत्वे प्रसिद्धिरिति यथाश्रुतमेव सम्यगिति। कार्येति / अनन्यथासिद्धकार्यपूर्ववर्तिनीत्यर्यः / विशिष्टस्याप्रसिद्धत्वेऽपि खण्डशः प्रसिद्धरिति भावः। एवं ब्रह्मैव कारणमेकजातीयं प्रधानं नेत्यत्र संशयमाह / यद्वेति / तज्जातीयोत्यत्तिप्राक्क्षणत्वं यत्र, तत्र ब्रह्माधिकरणत्वं प्रधानाधिकरणत्वं वेत्यत्र व्यापकीभूताऽधिकरणत्वेऽवच्छेदकं विशेषणीभूतं ब्रह्मैव प्रधानं वा नात्यन्ताभावप्रतियोगि व्यापकनित्यत्वादिति निषेधकोटिः परेषां, विधिकोटिरस्माकम् / अत्यन्ताभावप्रतियोगिनो दण्डादेरपि तादृशत्वाभ्युपगमादिति बोध्यम्। यद्यपि व्यापकनित्यत्वेऽप्याकाशवदत्यन्ताभावप्रतियोगित्वं ब्रह्मादेरविरुद्धं, तथापि तद्वदवृत्तित्वानभ्युपगमात् प्रत्युत सकलदेशकालवृत्तित्वादिदमध्यवसेयम् / टिप्पणी। वत्वे प्रसिद्धिः, तथा च प्रथमे तादृशप्रागभावत्वमादाय प्रतियोगित्वस्य निरूपकत्वरूपस्याश्रयविधया प्रागेव प्रसिद्धिः / द्वितीये प्रागभावत्वमादाय वृत्तित्वस्य प्रागभावत्वत्वे प्रसिद्धिरिति / यद्वा सप्तम्य