________________ 38 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ 4 कारिकावतरणिकाव्याख्यायां प्रकाशः। विषयप्रतियोगि, न बा ? यद्वा, कार्यप्रतियोगित्वं प्रतियोगित्वप्रागभावान्यप्रागभावाविषयबुद्ध्यविषयवृत्ति न वा ? द्वयोरपि प्रागभावत्वे प्रसिद्धिः। यद्वा, कार्यपूर्ववर्तिनि तन्नियतत्वं वर्त्तते न प्रकाशिका। तथापि पूर्ववर्तित्वादिकं कारणताघटकमादाय सिद्धसाधनादिति / अत्र तत्तदन्यत्वमपि विशेषण. मिति केचित् / तत्पूर्ववर्तित्वमात्रमेवैतद्विप्रतिपत्तिजन्यविचारात्सिध्यति नियतत्वादिकञ्चाग्रिमविप्रतिपत्तिमूलकविचारादेवेत्यन्ये / वस्तुतो नियतत्वे पूर्ववर्तित्वे च विप्रतिपत्तिरेव नास्ति किन्तु नियतपूर्ववर्तित्वस्य घटेन समं स्वरूपसम्बन्धविशेषे सा। अत एव स्वरूपसम्बन्धविशेष एव कारणतेति प्रामाणिकाः। तथा च प्रतीत्यविषयपर्यंन्तपदेन नियतपूर्ववर्तित्वमेवोक्तं प्रतियोगित्वञ्च स्वरूपसम्बन्धविशेष एवेति नोक्तदोषावकाशः / न चैवमप्यन्यथासिद्धिविरहासिद्धिः / स्वप्रतियोगिकान्यथासिद्धभिन्नवृत्तिनियतपूर्ववर्तित्वप्रतियोगित्वस्य विधिकोटित्वात् / स्वं चरमप्रतियोगिपदार्थः। प्रसिद्धिश्च नियतपूर्ववर्तित्वात्यन्ताभाव इति / कार्यप्रतियोगित्वमिति / अत्रापि प्रागभावत्वाद्यवृत्तीति विशेषणं बाधस्फोरणाय / यद्यपि पूर्वविप्रतिपत्तौ कार्यत्वस्य प्रतियोगित्वमभिमतमत्र तु कारणतायाः, तथापि स्वरूपसम्बन्धविशेष एवं प्रतियोगित्वमत्र तच्चोमयनिरूप्यमेवेत्यविरोध इति भावः / व्याख्या तु पूर्ववदेव / द्वयोरपीति / यद्यपि प्रथमविप्रतिपत्तिविधिकोटेस्तादृशप्रागभावत्वत्वाश्रयप्रागभावत्वे प्रसिद्धिरिति युक्तं, द्वितीयविधिकोटेस्तु कथं प्रागभावत्वे, तस्य प्रागभावत्वत्वावृत्तित्वात् प्रागभावस्य च प्रागभावान्यत्वाभावात् / तथापि प्रागभावत्व इति सप्तमी न साक्षादधिकरणतायां किन्तु साक्षात्परम्परासाधारणाधिकरणतामात्रे तथा च प्रागभावत्वत्वे द्वितीयविधिकोटिप्रसिद्धावपि परम्परया प्रागभावत्वस्याधिकरणत्वं सम्भवत्येव / केचित्तु प्रागभावत्व मकरन्दः। . स्यात् / पक्षविशेषणं चासिद्धं स्यात् / तथाच स्वरूपसम्बन्धविशेषो वाच्यः / स च तत्र नास्ति / किञ्च कारणतया समं स्वरूपसम्बन्धविशेषोऽन्यः प्रागभावादिना च समें कार्यस्यान्यः स इति शब्दमात्रसाम्यादनुमानाप्रवृत्तिः / न च स्वरूपसम्बन्धत्वेनैवानुगम इति वाच्यम् / तस्य परम्परासम्बन्धसाधारण्येनोक्तदोषानिवृत्तेः / न च तत्र परम्परासम्बन्धस्यैव सत्त्वात् सम्बन्धान्तरमन्तरेणेत्यादिरूपं तन्न तत्रेति वाच्यम् / तस्य संयोगसमवायौ विनेत्यर्थात् / अन्यथा परम्परासम्बन्धस्य सर्वत्र सत्त्वादसम्भवापत्तेरिति चेन्न / साक्षात् सम्बन्धित्वस्य विवक्षितत्वात् / न च कारणतया समं कार्यकारणद्वारक एव सम्बन्धस्तथा च बाध इति वाच्यम् / घटाभाव इत्यत्रेव घटकारणतेत्यत्रापि साक्षात्स्वरूपसम्बन्धानुभवात् / एवञ्च यद्यपि कारणताभिन्नं तादृशं प्रागभावगर्भ पूर्ववर्तित्वादिकं नानाधर्ममादायार्थान्तरं सिद्धसाधनं वा भवत्येव / तथापि तत्तदन्यत्वेनापि तादृशप्रतीतिविषयो विशेषणीय इति युक्तमुत्पश्यामः। कार्यप्रतियोगित्वमिति / यद्यपि पूर्वेण कार्यस्य सप्रतियोगित्वमभिप्रेतमनेन च कारणताया', तथापि साक्षात्सम्बन्धित्वमेव प्रतियोगित्वमभिप्रेतं तच्चोभय निरूपितत्वमुमयत्र तुल्यमित्यविरोध इति भावः / अत एव प्रागभावादिवृत्तित्वेन नार्थान्तरशङ्का, कार्यसाक्षात्सम्बन्धित्वस्य तत्र बाधात् / अन्यच्च पूर्ववत् / द्वयोरपीति / ननु प्रथमविप्रतिपत्तौ प्रागभावत्वमादाय प्रसिद्धि टिप्पणी। स्वपरमेव / प्रसिद्धिश्च तादृशपूर्ववर्तित्वात्यन्ताभावे / एतेन घटस्य कारणत्वमित्यादिप्ततीतिसिद्धस्य प्रतियोगित्वस्य स्वरूपसम्बन्धात्मकस्य प्रागभावादेरभावादन्यत्वान्तं व्यर्थमिति शङ्का परास्ता। द्वयोरपि प्रागभावत्वे प्रसिद्धिरिति / द्वयोर्घटकं यदविषयत्वान्तं तस्य प्रागभा