________________ प्रथमस्तवके] न्यायाङ्गसंशयबीजविप्रतिपत्तिनिरूपणम् / प्रकाशिका योगीति पक्षविशेषणम् / आदिपदग्राह्यन्तु ध्वंसत्वादि, तस्य जन्याभावत्वरूपतया जन्यत्वस्व च प्रागभावगर्भतया तादृशप्रतीत्यविषयत्वात् / प्रागभावघटान्योन्याभावाविति. समूहालम्बनविषयान्योन्याभावप्रतियोगितया सिद्धसाधनमिति तद्वारणाय नद्वयगर्भता प्रागभावतत्प्रतियोगित्वाभ्यां सिद्धसाधनवारणाय प्रतियोगित्वप्रागभावान्येत्यविषयविशेषणम् / न च कार्यत्वावच्छिन्नप्रतियोगिकान्योन्याभावमादाय सिद्धसाधनम् / तस्यापि प्रमेयत्वादिना ज्ञाने तादृशप्रतीतिविषयत्वात् / ' ___ अत एव ध्वंसस्य जन्याभावतया जन्यत्वस्य च प्रागभावगर्भतया ध्वंसप्रतियोगितया सिद्धसाधनमिति निरस्तम् / प्रमेयत्वादिना ध्वंसस्यापि तादृशप्रतीतिविषयत्वात् / ननु प्रतियोगित्वमत्र स्वरूपसम्बन्धविशेषः। नच प्रतियोगित्वस्य कार्य प्रतियोगि किन्त्वाश्रयः, तथा च प्रतियोगित्वान्येति विशेषणं व्यर्थम् / न च प्रतियोगित्वमत्र सम्बन्धित्वमात्रम् / तथासति प्रागभावत्वत्वेनापि समं कार्यस्य परम्परासम्बन्धोऽस्त्येवेति तदादाय सिद्धसाधनाऽऽपत्तेः / न च स्वरूपसम्बन्धित्वं प्रतियोगित्वम् / प्रकृते परम्परासम्बन्धस्यापि स्वरूपसम्बन्धत्वात् / संयोगसमवायान्यसम्बन्धस्यैव स्वरूपसम्बन्धत्वात् / परम्परासम्बन्धान्यत्वस्यापि स्वरूपसम्बन्धलक्षणे विशेषणत्वे परम्परासम्बन्धस्य सर्वत्र सत्त्वेनासम्भवापत्तेः / न च साक्षात्सम्बन्धित्वमेव प्रतियोगित्वमत्र, प्रकृते च घटस्य कारणतेति प्रतीतिबलादस्त्येव घटस्य कारणतया साक्षात्सम्बन्धित्वमिति वाच्यम् / तथा सति प्रागभावान्यत्वाश्रयत्वलक्षणोपाध्याश्रयत्वेन सिद्धसाधनापत्तेः / न च तदन्यत्वमप्यविषयविशेषणं - मकरन्दः। शनात् / धर्मिणस्तु दण्डादेः प्रागभावाविषयंप्रतीतिविषयत्वात् / साधनञ्च न तथा, तस्य प्रागभावगर्भतया प्रमेयत्वादिनाऽपिग्रहे प्रागभावविषयत्वनियमादिति प्रागभावविषयप्रतीतिविषयप्रतियोगित्वे साध्ये सिद्धसाधनं, कार्य्यस्य घटादेः प्रागभावघटान्योन्याभावाविति समूहालम्बनविषयान्योन्याभावप्रतियोगित्वादिति नद्वयम् / प्रागभावतत्प्रतियोगित्वाभ्यां तादृशप्रतीतिविषयाभ्यां सिद्धसाधनवारणार्थ प्रतियोगित्वप्रागभावान्येति तादृशप्रतीत्यविषयविशेषणम् / प्रागभावप्रतियोगित्वप्रागभावान्येत्यर्थः। ___ केचित्तु सामान्यत्वेन विशेषोऽपि वारित इति यथाश्रुतेऽप्यदोष इत्याहुः / न च कार्यान्योन्याभावमादाय सिद्धसाधनम् / तस्य कार्यत्वावच्छिन्नप्रतियोगितया कार्यत्वस्य च प्रागभावप्रतियोगित्वरूपतया तादृशप्रतीत्यविषयत्वादिति वाच्यन् / अनेन हि रूपेणाभावग्रहे प्रतियोगितावच्छेदकग्रहध्रौव्यं, न त्वन्यथापोति प्रकारान्तरेण तद्ग्रहे प्रागभावाविषयप्रतीतिविषयत्वात् / अत एव ध्वंसस्य जन्याभावतया जन्यत्वस्य प्रागभावगर्भतया तत्प्रतियोगित्वेन सिद्धसाधनमपास्तम् / ध्वंसस्य प्रकारान्तरेण तादृशबुद्धिविषयत्वात् / ध्वंसत्वस्य तादृशप्रतीत्यविषयत्वेऽपि कार्यस्य तदप्रतियोगित्वात्। तदिदमुक्तं, प्रागभावत्वाद्यप्रतियोगीति / तथा च बाधान्न ध्वंसत्वप्रागभावत्वादिप्रतियोगित्वेनार्थान्तरमिति बाधस्फोरणाय पक्षविशेषणमिति मन्तव्यम् / ननु प्रागभावत्वादेरिव प्रागभावप्रतियोगित्वस्यापि न प्रतियोगि कार्य, किन्वाश्रयः / तथाच तमादाय सिद्धसाधनानवकाशात्तदन्यत्वं विशेषणमयुक्तम् / न हि प्रतियोगित्वं सम्बन्धित्वमानं विवक्षितम् / तथा सति परम्परासम्बन्धेन प्रागभावत्वादेरपि तथात्बात्तदन्यत्वमपि साध्यविशेषणं टिप्पणी। प्रागभावान्यत्वाश्रयत्वादिकमादाय सिद्धसाधनवारणाय तत्तद्भिन्नत्वोपलक्षकमन्यत्वान्तम् / कार्यत्वावच्छिन्नात्यन्ताभावस्याखण्डस्य प्रमेयत्वतद्वयक्तित्वादिना प्रतीतौ प्रागभावस्याविषयत्वेन तमादाय तु न सिद्धसाधनम् / वस्तुतोऽविषयत्वान्तं स्वप्रतियोगिकान्यथासिद्धान्यवृत्तिनियतपूर्ववर्ति