________________ .३६न्यांख्यात्रयोपेतंप्रकाशबोधनीयुते न्यायकुसुमाअलौ [4 कारिकावतरणिकाव्याख्यायां प्रकाशः। .न वा इति स्वर्गे / नरके तु दुःख पदस्थाने सुखपदप्रक्षेपात् संशयः। तादृशी च जातिर्बाल्यादिभेदभिन्नानेकशरीरवृत्तिरसाधारणी चैत्रत्वादिः प्रसिद्धति विशेषतः। परलोकमात्रे तु सुखदुःखोभयजनक-मच्छरीरातिरिक्तशरीरंवानहं न वेति संशयः / चैत्रस्तथा प्रसिद्धः।। साधने तु, प्रागभावत्वाद्यप्रतियोगि कार्य प्रतियोगित्वप्रागभावान्यप्रागभावाविषयकप्रतीत्य प्रकाशिका। तजातेः समानकालीनानेकवृत्तित्वात् वीचीतरङ्गन्यायेनापि नाश्यनाशकशब्दयोः समानकालीनत्वेन तथात्वात् / वस्तुतः समानकालोनत्वं समानकालोत्पत्तिकत्वमिति मनस्त्वादिकमादाय सिद्धसाधनवारणाय शरोरवृत्तिपदम् / जातिपदन्त्वेतच्छरीरभाविघटविशेषान्यतरत्वमादाय सिद्धसाधनवारणाय / दुःखावच्छेदकेत्यत्र दुःखपदं मरणाजन्यदुःखपरमिति स्वर्गिशरीरस्यापि मरणजन्यदुःखावच्छेदकत्वाद् बाध इति दूषणं निरस्तम् / यदि च स्वर्गिशरीरे आहारपरिणामभेदे मानाभावेन नानात्वाभावात् तादृशी जातिर्नास्ति तदा सुखानवच्छेदकत्वमप्यनेकविशेषणम् / तथा च लोकविशेषजन्यतावच्छेदकजातिमादायैव विधिकोटिरिति ध्येयम् / स्वर्गनरकान्यतरसाधनानुकूलां विप्रतिपत्तिमाह / परलोकेति / अत्र मत्पदमप्रसिद्धिवारणाय / अयं च विशिष्टाभावो द्वेधा मच्छरीरातिरिक्तशरीरवत्त्वेन वा सुखदुःखयोरन्यतरमात्रावच्छेदकशरीरवत्त्वेन वा, तत्राद्ये बाधाद् द्वितीयमादायाभिमत सिद्धिरिति भावः / साधने विति / साधनत्वे त्वित्यर्थः / धमिणो दण्डादेः प्रागभावाविषयप्रतीतिविषयत्वात् अग्रिमाग्रिभविप्रतिपत्तेस्तत्रैवान्वयाच्च / कारणत्वन्तु प्रागभावगर्भमिति प्रमेयत्वादिनापि तज्ज्ञाने प्रागभावविषयतावश्यकत्वम् / प्रागभावत्वमपि प्रागभावघटितत्वेन प्रागभावाविषयकप्रतीत्यविषय इति तत्प्रतियोगित्वमादायार्थान्तरं मा भूदिति बाधस्फोरणाय प्रागभावत्वाद्यप्रति मकरन्दः। यद्यपि जातिपदं व्यर्थम् / न चैहिकसुखमात्रावच्छेदकशरीरवृत्तिधर्ममादायाऽर्थान्तरवारणाय तदिति वाच्यम् / ऐहिकशरीरस्य दुःखावच्छेदकत्वनियमाद् बाधेनाऽसिद्धेः / अन्यथा जातिपददानेऽप्यप्रतीकारादिति / यदि च दुःखावच्छेदकत्वं तत्स्वरूपयोग्यत्वं, तदा तुल्यम् / एवञ्च समानकालीनपदमपि व्यर्थम् / तथापि पक्षे उपरजकस्यापि दानाज्जातिपदमप्रसिद्धिवारकतया तदपि सार्थकमिति / वस्तुतस्तु एतच्छरीरभाविघटाद्यन्यतमत्वादिकमादायार्थान्तरवारणाय जातिपदम् / तस्य दुःखावच्छेदकस्वरूपयोग्यत्वानधिकरणघटायधिकरणत्वादिति / विधिनिषेधप्रसिद्धिश्च शब्दत्वादौ चैत्रत्वादी चेति बोध्यम् / सुखेति / सुखदुःखोभयजनकमच्छरीरातिरिक्तत्वमुभयथा सुखदुःखोभयजनकत्वविशेषणाभावान्मदीयत्वविशेषणाभावाच्च / तच्चान्त्यनिबन्धनमन्यत्र प्रसिद्धम् / आद्यनिबन्धनञ्च पक्षधर्मताबलात् पक्षे सिद्धथतीति भावः / साधने बिति / साधनत्वे त्वित्यर्थः / तत्रैवाग्रे विप्रतिपत्तिद टिप्पणी। त्वानधिकरणाधिकरणवृत्तित्वमर्थः, तथा सति सत्तामादाय सिद्धसाधनवारणायावृत्तित्वान्तस्य सार्थकता,यथाश्रुते तद्वैयर्थ्यं स्यादिति जलदे / साङ्कर्य्यस्य जातिबाधकत्वाभावे एकजातीयसुखावच्छेदकचैत्रमैत्रादितत्तच्छरीरव्यक्तिविशेषवृत्तिजातिमादाय सिद्धसाधनवारणाय तत्सार्थक्यसम्भव इति तु वयम् / बाल्यादिभेदभिन्नानेकशरीरवृत्तिरिति / बाल्याद्यवस्थाभेदेन प्राप्तभेदमनेकं यच्छरीरं तद्वत्तिरित्यर्थः / प्रागभावत्वाद्यप्रतियोगि कार्यमिति / प्रागभावत्वजन्याभावत्वरूपध्वंसत्वस्य प्रागभावघटितस्य विशिष्टरूपस्य सखण्डस्य प्रागभावं विना न प्रतीतिविषयत्वमिति तदादायार्थान्तरं स्यादिति बाधस्फोरणायाप्रतियोग्यन्तम् / प्रागभावतत्प्रतियोगित्वपूर्ववर्तित्व.