________________ प्रथमस्तवके] न्यायाङ्गसंशयबोजविप्रतिपत्तिनिरूपणम् / 35 प्रकाशः। -परलोके तु, समानकालीनानेकावृत्तिशरीरवृत्तिजातित्वं दुःखावच्छेदकत्वासमानाधिकरणवृत्ति . - प्रकाशिका। . समानकालीनेति / शरीरं दुःखानवच्छेदकमित्यत्र प्रसिद्धाप्रसिद्धपक्षत्वे बाधाश्रयासिद्धी, जातिपक्षत्वेऽपि तथा, अतो जातित्वं पक्षः। एककालीनेऽनेकस्मिन् न वर्त्तते अथ च शरीरवृत्तिर्या जातिस्तत्त्वं दुःखावच्छेदकत्वानधिकरणाधिकरणवृत्ति न वेत्यर्थः / अत्र विधिप्रसिद्धिः पटरूपवृत्तिप्रमेयत्वादी, निषेधप्रसिद्धिस्त्वाकाशादौ, विधिकोटिनैयायिकानां निषेधकोटिश्च परेषाम् / सत्तावृत्तित्वेन सिद्धसाधनवारणायावृत्तीत्यन्तम् / तत्राप्यनेकावृत्तिजातित्वमप्रसिद्ध मिति समानकालीनेत्यनेकविशेषणम् / न च दुःखानवच्छेदकं यदहोरात्रावच्छिन्नं भिन्नमेव शरीरं तदादाय सिद्धसाधनमिति वाच्यम् / (१)दुःखस्वरूपयोग्यत्वमात्रस्य दुःखावच्छेदकत्वपदार्थत्वात् / यत्तु तदधिकरणानधिकरणत्वमेवासामानाधिकरण्यमिति न तदादाय सिद्धसाधनमिति / तत्तुच्छम् / तथासति सत्तामादाय सिद्धसाधनाप्रसङ्गेनावृत्तीत्यन्तस्य वैयर्थ्यात् / परिमाणभेदभिन्ननानाकालीनकुष्माण्डादि फलवृत्तिजातिमादाय सिद्धसाधनवारणाय शरीरवृत्तीति / न च तस्यां जातौ मानाभावः, मीनादिशरीरवृत्तिजात्या सह तुल्यव्यक्तिकत्वात् / मिश्रास्तु कारणविशेषप्रयोज्यशब्दवृत्तिजातिमादाय सिद्धसाधनवारणाय शरीरवृत्तिपदमित्याहुः। तचिन्त्यम् / कदम्बगोलकन्यायेन शब्दोत्पत्तौ मकरन्दः। न्त्विति / नन्विदं बाधितं, धर्मत्वाधर्मत्वयोः परस्पराव्याप्यत्वाददृष्टत्वस्य च जातित्वाभावादित्य त आह / अदृष्टत्वञ्चेति / यत एवादृष्टत्वं न जातिरत एव तद्व्याप्यजात्यव्याप्यतया धर्माधर्मत्वे साक्षाद् व्याप्ये इति भावः / समानेति / अत्र विधिकोटिनैयायिकानाम् / नेति बौद्धानाम् / यद्यपि तादृशजातिर्दुःखावच्छेदकत्वासमानाधिकरणेत्येतावतैव दुःखानवच्छेदकशरीरसिद्धाविष्टसिद्धिस्तथापि चैत्रत्वादेस्तादृशजातेः पक्षीकरणे बाधाद् अन्यस्याश्चाप्रसिद्धेरिति पक्षविकल्पभिया तादृशजातित्वं पक्षीकृतम् / दुःखावच्छेदकत्वासमानाधिकरणवृत्तित्वं दुःखावच्छेदकत्वानधिकरणाधिकरणवृत्तित्वं विवक्षितम् / एवञ्च सत्तावृत्तित्वेन सिद्धसाधनवारणार्थमाह, अवृत्त्यन्तम् / अनेकावृत्तिजातित्वमप्रसिद्धमिति समानकालीनपदम् / तदर्थश्च समानकालोत्पत्तिकत्वम् / एवञ्चात्मत्वमनस्त्वादिवृत्तित्वेन सिद्धसाधनवारणार्थ शरीरवृत्तीति / ___ केचित्तु कारणविशेषप्रयोज्यशब्दवृत्तिजातेस्तथात्वेन सिद्धसाधनवारणाय शरीरवृत्तिपदमित्याहुः। टिप्पणी। गुणत्वव्याप्यजात्यव्याप्यत्वरूपसाक्षाद्व्याप्यत्वस्य न हानिः / शरीरवृत्तिजातित्वमिति / स्वर्गसद्भावेऽपि नारकीयशरीरवृत्तिजातौ चार्वाकसाध्यप्रसिद्धिः स्यात् , जातित्वावच्छेदेन साध्यतायां गौरवं स्यादतो जातिवपर्यन्तानुधावनम् / जलदे प्रसिद्धाप्रसिद्धपक्षत्वे बाधाऽऽश्रयासिद्धी इत्यतो जातित्वानुधावनमिति / दुःखावच्छेदकत्वासमानाधिकरणवृत्तीत्यस्य दुःखावच्छेदक (1) इदन्तु चिन्त्यम् / अवच्छेदकतया दुःखं प्रति तादात्म्येन तस्यकारणत्वात् तदवच्छेदकवत्वमेव योग्यत्वम् / तदवच्छेदकं च यदि दुःखावच्छेदकचैत्रादिशरीरनिष्ठं तत्तद्व्यक्तित्वं तदोक्तदोषतादवस्थ्यम् , यदि चैत्रस्वादिकं तदा तस्य सुखावच्छेदकेऽपि सत्त्वेन कुतो न तत्र दुःखोस्पत्तिः / न चादृष्टविशेषादिरूपसहकारिविरहान्नेति वाच्यम् / तथासत्यनेककारणत्वापेक्षया शरीरत्वेनैव कारणत्वे लाघवेन तस्यैव स्वीकरणीयत्वापत्तेः / स्वर्गिशरीरे च सहकारिविरहादेव न दुःखमिति साध्याप्रसिद्धिरिति /