________________ 34 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ[४ कारिकावतरणिकाव्याख्यायां प्रकाशः। , कमानसप्रत्यक्षाविषये वर्तते नवा ? यद्वा, लौकिकप्रत्यक्षाविषयगुणत्वसाक्षाद्व्याप्यजात्यधिकरणत्वमात्मगुणे वर्तते, न वा.? भावनात्वन्तु न गुणत्वसाक्षायाप्यम् , अदृष्टत्वन्तु न जातिः / प्रकाशिका। ग्यायोभयगर्भत्वम् , प्रत्येकगर्भतायान्तु विप्रतिपत्तिद्वयमेव। मानसत्वञ्चाखण्डजातिरेवेति न वैयर्थ्यमिति प्रथमकल्पसाधारणमेव समाधानमिति दिक् / अत्र च कारणान्तं भावनासामान्यमादाय सिद्धसाधनवारणाय / लौकिकेति / प्रत्यक्षाविषयत्वं न्यायमतेऽप्रसिद्धमिति लौकिकत्वं विशेषणम् , परमते च तदुपराकमेव तदर्थश्च विषयजन्यत्वम् / सुखत्वादिकमादायार्थान्तरमित्यविषयान्तं विशेषणम् / गुरुत्वमादायार्थान्तरमिति आत्मपदम् / गुणपदं स्पष्टार्थम् / साक्षात्पदव्यावर्त्यमाह। भावनात्वमिति। जातिपदव्यावर्त्यमाह / अदष्टावमिति / जातिपदाप्रक्षेपे दर्शनानहगुणत्वस्य गुणत्वव्याप्यजात्यव्याप्यतयाऽऽत्मसंयोगादिवृत्तितया च सिद्धसाधनमिति तत्पदमिति भावः / केचित्तु धर्मत्वमधर्मत्वञ्चादृष्टत्वव्याप्यतया साक्षाद्व्याप्यमेव न भवति, अदृष्टत्वं च जातिरेव नेति विधिकोटेर्बाध इत्यत आह / अदृष्टत्वमिति / यत एवादृष्टत्वं न जातिः, अत एव 'गुणत्वव्याप्यजात्यव्याप्यत्वलक्षणं साक्षाद्व्याप्यत्वं धर्मत्वादीनामिति न वाध इति व्याचक्षते / ' मकरन्दः / . त्वाविशेषात्तमादाय सिद्धसाधनम् / सुखदुःखकारणाऽऽत्मविशेषगुणत्वमीश्वरज्ञानादावपीति तदादाय सिद्धसाधनम् / न ह्यग्रिमात्मपदमपि संसारिपरतया व्याख्यातम् / तत्परत्वेऽपि पूर्वदोषानुद्धारात् / जीवनयोनियत्नमादाय सिद्धसाधनतादवस्थ्याच्च / न च तस्य न सुखदुःखजनकत्वं, किन्तु जनकजनकतेति वाच्यम् / अन्वयव्यतिरेकाभ्यां तृद्धेतुत्वात् / अन्यथा प्राणादेरपि तथात्वे तद्धेतुत्वं न स्यात् / एतेन प्रयत्नेत्यादिना विषयान्तेन सुखदुःखयोरेव विवक्षितत्वात् सुखदुःखान्यतरकारणात्मविशेषगुणत्वे तात्पर्यमित्यपास्तम। __ अत्र ब्रूमः / सुखदुःखान्यतरकारणात्मविशेषगुणत्वं लौकिकमानसप्रत्यक्षविषयजातीयभिन्ने वर्तते न वेति विवक्षितम् / साजात्यञ्च गुणत्वसाक्षाद्व्याप्यजात्या। धर्माधर्मोभयसाधारण्यार्थमुभयगर्भत्वम् / यथाश्रुतेऽपि सुखदुःखयोरनुगमे तदेव बीजम् / प्रत्येकगर्भतया प्रत्येकं विप्रतिपत्तिद्व. यमेव वा विवक्षितम् / एवञ्चेश्वरज्ञानादिकं निर्विकल्पक जीवनयोनियत्नञ्चादाय सिद्धसाधनानबकाशः / सर्वेषां तज्जातीयत्वात् / धर्माधर्मों तु न तथा। न चैवं विशेषपदवैयर्थ्य, संयोगमात्रस्यैव तादृशप्रत्यक्षाविषयतयाऽऽत्ममनोयोगमादाय सिद्धसाधनापत्तेः / कामिनीरूपवृत्तित्वेन सिद्धसाधनवारणायात्मपदम् / भावनावृत्तित्वेन तद्वारणाय कारणान्तम् / यदि च निदिध्यासनजन्यभा. वना कायव्यूहादिद्वारा सुखादिकारणं, तदा तदन्यत्वमपि सुखदुःखविशेषणम् / नच लौकिकत्वं योगजधर्माद्यजन्यत्वगर्भ, तच्च तन्मतेऽप्रसिद्धम् , साध्ये उपरजकस्याप्यदानाद् व्यर्थत्वञ्चेति वाच्यम् / संयोगाद्यन्यतमप्रत्यासत्तिजन्यत्वस्य विवक्षितत्वात् / अखण्डाभावे साध्ये चावैयादिति। ___वस्तुतः पूर्वापरितोषादाह / यद्वति / प्रत्यक्षाविषयत्वमप्रसिद्धमिति लौकिकत्वं विशेषणम् / परमते चोपरञ्जकमेतद् बोध्यम् / सुखत्वादिकमादाय सिद्धसाधनवारणायाविषयान्तम् / गुरुत्वादिना सिद्धसाधनवारणायात्मपदम् / गुणपद स्पष्टार्थम् / साक्षात्पदव्यावर्त्यमाह / भावनात्व टिप्पणी। सिद्धसाधनवारणाय, सुखजनकेश्वरज्ञानमादाय सिद्धसाधनवारणाय द्वितीयस्यात्मविशेषपदस्योपादानम् / अदृष्टत्वन्तु न जातिरिति / यतोऽदृष्टत्वन्न जातिरतो धर्मत्वाधर्मत्वयोरदृष्टत्वमादाय