________________ प्रथमस्तवके ] . न्यायाङ्गसंशयवीजविप्रतिपत्तिनिरूपणम् / 33 प्रकाशिका। सुखाहेतुत्वात् / आत्मपदञ्च सुखजनककामिनीरूपमादाय, विशेषपदं च तादृशात्ममनोयोगमादाय सिद्धसाधनेवारणाय / केचित्तु विषयान्तस्य सुखदुःखान्यतरदर्थः, तथा च सुखदुःखान्यतरकारणात्मविशेषगुणत्वं लौकिकमानसप्रत्यक्षविषयजातीयभिन्नवृत्ति न वेति विप्रतिपत्त्यर्थः / तजातीयत्वञ्च गुणत्वसाक्षाद्व्याप्यजात्या। एवं च निर्विकल्पकादिकमीश्वरज्ञानादिकं जीवनयोनियत्नञ्चादाय न सिद्धसाध. नावकाशः, विशेषपदाऽऽत्मपदे तु पूर्ववदेव, भावना च यदि कायव्यूहादिद्वारा काचित् सुखहेतुस्तदा तदन्यत्वेनापि विशेषणम् / लौकिकत्वं च संयोगाद्यन्यतमप्रत्यासत्तिजन्यत्वं धर्माधर्मोभयसाधार मकरन्दः / ननु साक्षाजनकत्वं यदि ब्यक्तेस्तदा इच्छाद्वेषयोरप्युपायेच्छाद्वेषद्वारा जनकत्वमित्यसम्भवः, तज्जातीयस्य चेत्तदा ज्ञानेऽप्यतिप्रसङ्गः, उपादानप्रत्यक्षस्य साक्षात्प्रयत्नहेतुत्वादिति चेत् / न / फलेच्छायाः स्वरूपसत्याः साक्षादेव प्रयत्नहेतुत्वेन व्यक्ति.पक्षस्यैव क्षोदक्षमत्वात् / विजातीयाव्यापारकजनकजातीयस्यैव वा साक्षाज्जनकत्वेन विवक्षितत्वादित्याहुः / तचिन्त्यम् / फलेच्छायाः प्रयत्नजनकत्वाभ्युपगमेऽपि साक्षाजनकत्वे मानाभावात् / चिकीर्षादिसत्त्वे तां विना तदुत्पत्तौ विलम्बाभावात् / चिकीर्षोपादानप्रत्यक्षाभ्यां सह युग दनवस्थानाच्च / क्षणद्वयमात्रस्थायित्वात् / चिकीर्षाद्वारेणैवोपपत्तौ समूहालम्बनकल्पने प्रमाणाभावाच्च / भावे वा तद्विषयत्वे न प्रयत्नजन कत्वं, गौरवान्मानाभावाच्च / अन्यथोपादानप्रत्यक्षेऽपि उपनीतविशिष्टप्रत्यक्षविषयत्वसम्भवान्निर्विकल्पकमादाय दोषापत्तेः / फलेच्छां विनोपायचिकीर्षाविरहात्तद्धेतुत्वस्यावश्यकत्वात् / . वस्तुतस्तु न तस्याः प्रयत्नं प्रति, जनकत्वं, किन्त्ववच्छेदकत्वमित्युक्तमस्माभिरन्यथाख्यातिवादे / विजातीयेत्याद्यप्ययुक्तम् / साक्षाज्जनकत्वेनैव विजातीयाव्यापारकं यद् उपादानप्रत्यक्षं तज्जातीयं ज्ञानमादायोक्तसिद्धसाधनतादवस्थ्यात् / न च विजातीयव्यापारजनकजातीयभिन्नत्वं विवक्षितं, ज्ञाने च विजातीयेच्छा-यापारकत्वमेवेति वाच्यम् / ज्ञानादीनामदृष्टद्वारा कार्यमानहेतुत्वाभ्युपगमेनेच्छाया विजातीयव्यापारकप्रयत्नजनकजातीयत्वात् / किञ्च द्वेषस्य प्रयत्नकारणत्वे मानाभावः, यथा चैत तथा प्रपञ्चितमनुमानप्रकाशे / मूले त्वग्रेतनं प्राचोनमतमनुपादेयम् / चिन्तामणिस्वरसोऽप्येवमेव / - यच्चोक्तं निरुपधिपदं सोपाधीच्छाविषयकामिनीविशिष्टज्ञानकारणाऽऽत्मविशेषगुणत्वस्योक्ते सत्त्वेन सिद्धसाधनवारकमेव / अग्रिमात्मविशेषगुणपदयोः कामिनीरूपात्ममनोयोगादिवृत्तित्वेन सिद्धसाधनवारणे तात्पर्य्यमिति / तदपि चिन्त्यम् / निदिध्यासनजन्यभावना तत्त्वसाक्षात्कारद्वारा इच्छानिरुपधिविषयदुःखाभावरूपमोक्षहेतुरिति तामादाय सिद्धसाधनतादवस्थ्यात् / न च निदिध्यासनजन्यमदृष्टमेव। दृष्टेनैवोपपत्तेः / न च तज्जन्यत्वे स्मृतित्वापत्तिः / स्वसमानविषयकसंस्का. रत्वेनैव हेतुत्वे तथात्वात् / अत्र चात्मविषयकभावनात्वेनैव हेतुत्वात् / तत्त्वसाक्षात्कारस्य विश्व. विषयकत्वाच्च / अन्यथा संस्कारध्वंसे का गतिः / अत एव मूले वक्ष्यति, अतीन्द्रियार्थदर्शनाभ्युपायो भावनेत्यभ्युपगमेऽपि नासौ सत्यमेव साक्षात्कारमुत्पादयतीति अदृष्टवत् तस्यापि प्रत्यासत्तित्वे विरोधाभावः / अस्तु वा तथा / तथापि देवप्रतिमादिदर्शनत्वेनैव स्वगहेतुत्वश्रुतेस्तनिर्विकल्पकस्यापि तथा टिप्पणी। णत्वे व्यक्तिसाक्षात्कारणत्वगर्भप्रथमकल्पः, फलेच्छायाः साक्षादकारणत्वे द्वितीयः, ज्ञानस्य विजातीयेच्छारूपव्यापारजनकजातीयत्वात् तद्वारणम्। इच्छाया अदृष्टरूपव्यापारजनकत्वेऽपि तस्य प्रत्यक्षाविषयत्वान्न तत्रासम्भवः, निरुपाधिपदन्तु इच्छासोपाधिविषयकामिनीज्ञानजनकनिर्विकल्पकमादाय . 5 न्या० कु०