________________ 32 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ 4 कावतरणिकाव्याख्यायां प्रकाशिका। तस्य च संसारिण इत्यर्थो व्याख्यात एव / अस्मदादिज्ञानमादाय पुनस्तदेव सिद्धसाधनमतः प्रयत्नकारणेति / तस्य च साक्षात्प्रयत्नकारणेत्यर्थः / तेन ज्ञानस्यापि प्रयत्नका रणतया न पूर्वोक्तसिद्धसाधनप्रसङ्गः / न च साक्षात् कारणत्वं यदि व्यक्तेस्तदा फलेच्छाद्वेषयोरपि उपायेच्छाद्वेषद्वारा जनकत्वमिति विवक्षितार्थालाभः, तजातीयस्य यदि तदा पूर्वोक्त सिद्धसाधनमेव उपादानप्रत्यक्षस्य साक्षाजनकत्वात्तजातीयत्वाज् ज्ञानस्येति वाच्यम् / फलेच्छायाः स्वरूपसत्त्या एव साक्षात् प्रयत्नहेतुत्वेन व्यक्तिपक्षस्यैवादुष्टत्वात् / न च फलेच्छायाः प्रयत्नकारणत्वमेव न, कारणत्वेऽपि न साक्षा जनकत्वं मानाभावादिति वाच्यम्। फलेच्छोत्कटयेन प्रयत्नोत्कटयात्तस्याः कारणत्वे चिकीर्षों प्रति च फलचिकीर्षायामेव व्यभिचारेणाकारणत्वेऽर्थतः साक्षात्कारणत्वात् / न च फलेच्छोपायेच्छोपादानप्रत्यक्षाणां युगपदसम्भवान्नेदं युक्तमिति वाच्यम् / प्रथमेच्छाया नाशेऽपि चिकीर्षाया एव समूहालम्बनात्मिकायाः फलेच्छात्वात् / न च यद्विषयकत्वेन प्रयत्नकारणत्वं स एव प्रकृते विषयपदार्थः, अन्यथा उपादानप्रत्यक्षस्यापि दैवादुपनीतप्रत्यक्षज्ञानविषयत्वात् तजनकनिर्विकल्पकज्ञानमादाय सिद्धसाधनात् , न च समूहालम्बनेच्छायाः फलविषयकत्वेन जनकत्वमिति वाच्यम् / प्रयत्नोत्कटयानुरोधेन तद्विषयकत्वेनापि जनकत्वात्। यद्वा विजातीयव्यापारजनकजातीयभिन्नत्वमेव वा साक्षाजनकत्वं ज्ञानन्तु विजातीयेच्छारूपव्यापारजनकजातीयमेव, न चेच्छाया अप्यदृष्टद्वारा कार्यमात्रजनकतया विजातीयव्यापारजनकत्वमेवेति वाच्यम् / स्वविजातीयप्रत्यक्षसमानाधिकरणव्यापारजनकजातीयभिन्नत्वस्य विवक्षितत्वात् / निरुपधिपदन्तु इच्छासोपाधिविषयकामिनीविशिष्टज्ञानजनकनिर्विकल्पकमादाय सिद्धसाधनवारणाय / ननु तथापि निदिध्यासनजन्यभावनामादाय सिद्धसाधनं तस्यास्तत्त्वसाक्षात्कारद्वारा इच्छानिरुपधिविषयदुःखाभावरूपमोक्षहेतुत्वात्। न च निदिध्यासनस्यादृष्टमेव व्यापार इति वाच्यम् / दृष्टेनैवोपपत्तेः। न च तत्त्वसाक्षात्कारस्य भावनाजन्यत्वे स्मृतित्वापत्तिरिति वाच्यम् / समानविषयकसंस्कारत्वेन जनकत्वे तथाभावात् अत्र चात्मविषयकभावनात्वेन हेतुत्वादिति चेत्। न। तत्त्वसाक्षात्कारस्यैव न मोक्षहेतुत्वम् , तत्त्वज्ञानादिति सूत्रे पञ्चभ्याः प्रयोजकत्वपरतया टीकाकृता व्याख्यानात् / तजनकभावनायास्तु मोक्षहेतुत्वं दूरनिरस्तमेव / न च देवताप्रतिमादिदर्शनसामान्यस्यैव स्वर्गहेतुत्वश्रुतेस्तन्निर्विकल्पकमादाय सिद्धसाधन मिति वाच्यम् / प्रमेयत्वप्रकारकदर्शनमादायातिप्रसक्त्या विशेषप्रकारकत्वस्य वाच्यत्वेन निर्विकल्पकस्य स्वर्गाहेतुत्वात् / न चेश्वरज्ञानस्य सुखदुःखकारणतया तदादाय सिद्धसाधनमिति वाच्यम् / द्वितीयात्मविशेषगुणपदस्यात्मविशेषस्य संसारिणो यो विशेषगुण इत्यर्थकत्वात् मध्यपदलोपिसमासात् / न च जीवनयोनियत्नमादाय सिद्धसाधनम् / तस्य जीवनमात्रहेतुत्वेन मकरन्दः / क्तत्वात्तस्य व्यर्थत्वाभावादखण्डाभावे वा न वैयर्थ्यम् / लौकिकपदञ्चाप्रसिद्धिवारणार्थम् / अत्र प्रयत्नकारणं गुण ईश्वरज्ञानादिस्तन्निरुपधिविषयो विशिष्टप्रत्यक्षं तत्कारणात्मविशेषगुणत्वं तादृशनिर्विकल्पके वर्त्तत एवेति सिद्धसाधनमत आह, प्रथमात्मविशेषपदम् , आत्मविशेषस्य संसार्यात्मनो गुण इत्यर्थः / ज्ञानमादाय पूर्वोक्तसिद्धसाधनतादवस्थ्यादाह / प्रयत्नकारणेति / प्रयत्नसाक्षात्कारणेत्यर्थः / तेन न दोषतादवस्थ्यम् / टिप्पणी। शिष्टज्ञानजनकनिर्विकल्पकत्वस्य लौकिकमानसप्रत्यक्षाविषयवृत्तित्वस्य सिद्धत्वात् सिद्धसाधनवारणाय संसारिगुणत्वमुक्तम् / संसारिगुणानुव्यवसायविषयविशिष्टज्ञानकारणनिर्विकल्पकत्वमादायसिद्धसाधनवारणाय प्रयत्नकारणेति / फलेच्छौत्कट्येन प्रयत्नोत्कट्यानुभवात् फलेच्छायाः स्वातन्त्र्येणापि कार