________________ प्रथमस्तवके ] न्यायाङ्गसंशयबीजविप्रतिपत्तिप्रदर्शनम् / प्रकाशः। पकं न वा? अभावसमवाययोस्तादृशप्रतियोगिसम्बन्धिसबिकल्पकजन्यसाक्षात्कारविषयत्वेऽपि प्रत्यक्षत्वात् तत्सङ्ग्रहार्थं स्वविषयकेति विशेषणम् / अत्र यद्यपि घटोऽयमिति सविकल्पके घटत्वस्य तत्कारणज्ञानविषयताऽस्ति, तथापि तज्ज्ञानाजन्यनिर्विकल्पकविषयताऽप्यस्ति / न हि तज्ज्ञानजन्यज्ञानगोचरत्वं तज्ज्ञानाजन्यज्ञानगोचरताविरोधि / एकत्र ज्ञानद्वयस्य भावादित्याहुः।। - अलौकिकविशेषे त्वदृष्टे, प्रयत्नकारणात्मविशेषगुणनिरुपाधिविषयकारणात्मविशेषगुणत्वं लौकि प्रकाशिका। न च तथासति यद्यपीत्यादिग्रन्थविरोधः, तथासति सविकल्पकविषयतयापि तत्र सामञ्जस्ये तदनु त्थानप्रसङ्गादिति वाच्यम् / यथाश्रुताभिप्रायेण तदुत्थानादिति वदन्ति / तच्चिन्त्यम् , विवक्षायामपि विशिष्टवैशिष्टयप्रत्यक्षाव्याप्तेः, द्विधा हि विशिष्टयैशिष्टयधीः, एका पुरुषेऽविशिष्टस्यैव दण्डस्य विशेषणत्वं विषयीकरोति अपरा च दण्डत्वविशिष्टस्येति तन्नियमनाय तस्यां सविकल्पकत्वेनैवजनकतास्वीकारात् / अत एव न व्यभिचारोऽपि विलक्षणधीविशेष एव तथाजनकत्वोपगमादिति / न च तन्मते योगजधर्मादीनामप्रसिद्धया तदभावाप्रसिद्धिः परमतेऽसत्ख्यात्युपनीतस्यापि प्रतियोगित्वात् संयोगादिषडन्यतमजन्यसाक्षात्कारविषयत्वस्य वा समुदायार्थत्वादिति दिक् / सविकल्पक इति / धारावाहिकस्थले द्वितीयादिसविकल्पक इत्यर्थः / ज्ञानविषयता-सविकल्पकविषयता, यथाश्रुते सविकल्पकाजन्यत्वस्य तथाप्यक्षतेरसङ्गते , निर्विकल्पकेत्युपलक्षणम् प्राथमिकसविकल्पकेत्यर्पि द्रष्टव्यम् / प्रयत्नेति / प्रयत्नकारणात्मविशेषस्य संसारिणो गुणौ यौ इच्छाद्वेषौ तयोनिरुपाधिविषयौ सुखदुःखे तत्कारणं य आत्मविशेषगुणः तत्त्वं लौकिकमानसत्वजात्याश्रयाविषये वर्तते न वेत्यर्थः / अत्र प्रयत्न कारणं गुण ईश्वरज्ञानादि तन्निरुपाधिविषयो विशिष्टज्ञानं तत्कारणमात्मविशेषगुणो निर्विकल्पकमिति तदादाय सिद्धसाधनवारणाय आत्मविशेषेति / मकरन्दः। व्याप्तिः। जन्यस्वविषयकसविकल्पकत्वेन जनकत्वाभावस्य विवक्षितत्वाद् अत्र जन्यादिपदमप्रसिद्धिवारकमित्याहुः। तच्चिन्त्यम्। अत्र यद्यपीत्यग्रिमग्रन्थविरोधात् / तथा सति सविकल्पकविषयतयापि सामञ्जस्ये तदनुत्थानप्रसङ्गः / यद्यपि तन्मते योगजादीनामप्रसिद्धतया तदजन्यत्वस्यापि तथात्वात् तदुपरक्तबुद्धेरप्यभावादुपरजकत्वेनापि तदुपादानमसङ्गतम् / तथापि असत्ख्यातिरूपा तदुपरक्तबुद्धिरस्त्येव इति नोक्तदोष इत्येके / संयोगाद्यन्यतमप्रत्यासत्तिजन्यसाक्षात्कारविषयत्वमनेनोपलक्षितमित्यन्ये। सविकल्पक इति। धारावाहिक इत्यर्थः। प्राथमिकसविकल्पकस्याऽजनकत्वान्निर्विकल्पक इत्युपलक्षणम् / प्राथमिकसविकल्पक इत्यपि द्रष्टव्यम् / प्रयत्नेति / प्रयत्नकारणात्मविशेषगुणाविच्छाद्वेषौ तयोनिरुपाधिविषयौ सुखदुःखे तत्कारणत्वविशिष्टात्मविशेषगुणत्वं लौकिकमानसप्रत्यक्षाविषये वर्त्तते न वेत्यर्थः / न च मानसेति व्यर्थम् / मानसप्रत्यक्षपदेन मनःप्रयोज्यजातिविशेषाश्रयस्यो टिप्पणी। देयम् , तथापि पक्षे उपरञ्जकस्यापि भावादखण्डाभावघटकतया सार्थक्यं बोध्यम्। सविकल्पक इति द्वितीयसविकल्पे / निर्विकल्पकेति प्राथमिकसविकल्पकस्याप्युपलक्षकम् / प्रयत्नकारणेति / प्रयत्नयोः-प्रवृत्तिनिवृत्त्योः, कारणे साक्षात्कारणे, स्वविजातीयस्य प्रत्यक्षविषयस्य स्वसमानाधिकरणव्यापारस्य जनकजातीयभिन्नत्वे सति कारणे वा [ साक्षात्कारणे ] ये व्यक्ती आत्मविशेषस्य-संसारिणो, गुणौ-इच्छाद्वेषौ, तयोनिरुपाधिविषयौ=इष्टसाधनत्वेन विषयत्वाप्रयोज्यविषयताश्रयौ सुखदुःखे, तत्कारणात्मविशेषसंसारिगुणत्वमित्यर्थः / प्रयत्नजनकेश्वरज्ञानविषयवि मा