________________ 30 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [4 कारिकावतरणिकाव्याख्यायां बोधनी। भावे च तदधिष्ठातुर्जगत्कर्तुरनुपपत्तेः कार्यत्वहेतुरपि शिथिलः स्यादिति / अस्त्वलौकिको हेतुस्तत्साधनोपदेशश्च, तथाप्युपदेशस्य नित्यत्वपुरुषान्तरपूर्वकत्वयोरपि सम्भवादसिद्धमाप्तोक्तत्वम् , प्रकाशः। स्य संयुक्तसमवायः स एव गुरुत्वस्यापीति तस्यापि लौकिकत्वापत्तेः / किन्तु सामान्यलक्षणप्रत्यासत्त्यजन्ययोग नधर्माजन्यजन्यस्वविषयकसविकल्पकाजन्यजन्यसाक्षात्कारविषयत्वं प्रमेयत्वव्या प्रकाशिका। विवक्षा तदा तावन्मात्रविषयत्वमेवास्तु कृतं स्वपदकारणपदगर्भतयेति तथैव सिद्धान्तयति किन्विति / न च तन्मते साक्षात्कारविषयत्वमेव प्रमेयत्वमिति व्याप्यव्यापकयोरभेद इति वाच्यम् / उपाधिभेदेन भेदात् / अनुमितिमादाय सिद्धसाधनमिति साक्षात्कारेति / ईश्वरसाक्षात्कारमादाय सिद्धसाधनमिति जन्येति साक्षात्कारविशेषणम् / अलौकिकप्रत्यासत्तित्रयजन्यसाक्षात्कारमादाय सिद्धसाधनवारणायाद्यप्रतीकम् / तत्रापि जगत एवेश्वरज्ञानजन्यतयाऽप्रसिद्धिवारणाय जन्येति सविकल्पकविशेषणम् / स्वविषयकपदप्रयोजनं त्वाकर एव व्यक्तम् / स्वपदेन च यो यत्र साक्षात्कारविषयत्वेनाभिमतः स एव तत्र ग्राह्यः / व्यावत्योप्रसिद्धिस्तु तन्मत इति तूपरजकतयैव समाधेयम् / ज्ञानाजन्येत्येतदेव यद्यपि प्रकृते सम्यक् , तथाप्युपरञ्जकतयाऽखण्डाभावघटकतया च न दोषः। मिश्रास्तु लौकिकसाक्षात्कारविषयत्वमेव प्रकृते विवक्षितमिति तल्लाभाय सविकल्पकपदम् , पक्षे उपरजकस्यापि भावात् / न च लौकिकत्वमेव ज्ञानजन्यस्व विषयजन्यत्वमात्रगर्भमस्त्विति वाच्यम् / तथा सति लौकिकविशिष्टप्रत्यक्षाव्याप्तेः / न च सविकल्पके पदे दत्तेऽपि विशिष्टवैशिष्टयप्रत्यक्षाव्याप्तिरिति वाच्यम् / सविकल्पकत्वेन तदजन्यत्वस्य विवक्षणात् / न च विशिष्टवैशिष्टय ज्ञाने तथाजनकत्वम् , विशेष्ये विशेषणमिति न्यायेन . विशिष्टवैशिष्टयधीसम्भवेन व्यभिचारात् / तथा च विशेषणज्ञानत्वेनैव तत्र जनकत्वमिति नाव्याप्तिः। नचेयं विवृक्षा ज्ञानपदमात्र एवास्तु तथा सत्यपि स्वविषयकज्ञानत्वेन तदजन्यत्वमर्थो लभ्यत इति नाव्याप्तिर्विशिष्टप्रत्यक्ष इति वाच्यम्। स्वविषयकज्ञानत्वेन जनकत्वस्याप्रसिद्धः, सविकल्पकान्तर्भावे तु तथाजनकत्वं स्मरणं प्रत्येव सिद्धम् / यथाश्रुते / स्वसाक्षात्कारविवक्षायान्तु तावन्मात्रविषयत्वमेवास्तु, कृतं स्वपदकारणादिगर्भत्वेनेति तथैव सिद्धान्तमाह / किन्त्विति / न च तन्मते साक्षात्कारस्यैव प्रमात्वेन व्याप्यव्यापकाभेदात् कथं व्याप्यव्यापकताग्रह इति वाच्यम् / उपाधिभेदेन भेदात् / तादृशानुमितिविषयत्वं सर्वेषामिति सिद्धसाधनं, व्यतिरेके च बाध इत्यत उक्तं-साक्षात्कारेति / ईश्वरसाक्षात्कारमादाय दोषतादवस्थ्यादाह, चरमजन्यपदम् / अलौकिकप्रत्यासत्तित्रयजन्यसाक्षात्कारमादाय दोषतादवस्थ्यादाह, पूर्वप्रतीकम् / तत्राजन्यपदमीश्वरज्ञानजन्यतया जगतोऽप्रसिद्धिवारणार्थम् / स्वविषयकपदव्यावृत्तिस्तु मूल एव / स्वपदेन च यत्र यः साक्षात्कारविषयत्वेनाभिमतः, स एव तत्र प्राह्यः / सविकल्पकपदञ्च यद्यपि प्रकृतेऽकिञ्चित्करम् ज्ञानपदेनैव सङ्गतेः। तथापि उपरञ्जकस्यापि दानादखण्डाभावघटितस्य च न व्यर्थत्वम् / केचित्तु लौकिकसाक्षात्कारविषयत्वस्य प्रकृतेऽभिमतत्वेन विशिष्टोपादानम् / अन्यथा विंशिप्रत्यक्षस्य स्वविषयकनिर्विकल्पकजन्यस्य तत्रासंग्रहापत्तेः। न चैवमपि विशिष्टवैशिष्टय प्रत्यक्षा टिप्पणी। स्वविषयकसविकल्पकाजन्यजन्यसाक्षात्कारविषयत्वमिति। जन्यज्ञानाजन्यजन्यसाक्षात्कारविषयत्वमेव यद्यप्युपादेयम् , निर्विकल्पकमादाय सर्वत्र प्रसिद्धर्योगजधर्माजन्यत्वान्तं नोपा मकरन्दः।