________________ प्रथमस्तवके] न्यायाङ्गसंशयबीजविप्रतिपत्तिप्रदर्शनम् / तदिह संक्षेपतः पञ्चतयी विप्रतिपत्तिः / अलौकिकस्य परलोकसाधनस्या बोधनी। ननु प्रमाणायत्तं मननं, प्रमाणं त्वीश्वरविषयं तत्तदादिविप्रतिपत्तिदूषितं कथं मननसाधनमित्याशङ्कां निरसितुं परिच्छेदपञ्चकनिराकरणीया विप्रतिपत्तीस्तावद्दर्शयति-तदिहेति। तदिति वाक्योपक्रमे, प्रकरणस्यारभ्यत्वादिति हेतौ वा। इह-प्रकरणे, जगत्कर्त्तरि, तद्विषये प्रमाणयुगले वा। निरस्यत इति शेषः / तत्र परमनास्तिकचार्वाकविप्रतिपत्तिं प्रथममाह-अलौकिकस्येति / अयमाशयः-अलौकिकहेतुसिद्धौ तस्य साधनानुमानायत्तसिद्धित्वात् , तदनुमानस्य च ज्ञानमन्तरेणानुपपत्तेस्तस्य चास्मदादीनामसम्भवादुपदेशमूलेन भवितव्यम् ; उपदेशश्च न विशिष्टमुपदेष्टारं विनेति लोकोत्तरः कल्प्येतापि न त्वेवं सम्भवति, अलौकिकस्य परलोकसाधनस्यैवाभावात् तद प्रकाशः। यकन्यायप्रवृत्तिहेतुरित्यास्थेयमिति विभावयँस्तत्कारणं विशेषविप्रतिपत्तिमादर्शयति. तदिहेति / तदिति वाक्योपक्रमे / संक्षेपोऽवान्तरविप्रतिपत्त्यविवक्षा। विरुद्धा प्रतिपत्ति निमभिलापो वा विप्रतिपत्तिः / विप्रतिपत्तौ विषयिण्यां विषयस्य प्रयोजकत्वं विवक्षित्वा पञ्चमीनिर्देशः / तत्राऽलौकिके तावत् , साक्षात्कारकारणेन्द्रियसन्निकर्षाश्रयत्वं प्रमेयत्वव्यापकं न वा ? इन्द्रियस्य तु न सन्निकर्षाश्रयत्वं, किन्तु प्रतियोगित्वमिति न विप्रतिपत्तिः / य एव चक्षुषा रूप . प्रकाशिका। संशय इति विरोधादिति / विवक्षित्वेति / शब्दात्मकविप्रतिपत्तौ विषयस्याहेतुत्वादिति भावः / वस्तुतो ल्यब्लोपे पञ्चमी अभावं प्राप्य ज्ञात्वा विप्रतिपत्तिरिति मूलव्याख्या। यदपेक्षया संक्षेपस्तमाह साक्षादिति / इन्द्रियसन्निकर्षाश्रयत्वमलौकिकेऽपीति साक्षात्कारकारणत्वं विशेषणम् , शरीरप्राणसंयोगस्य साक्षात्कारकारणतया प्राणेऽतिप्रसङ्ग इति तद्वारणायेन्द्रियपदम् , न च गर्भोत्पन्नविनष्टे व्यभिचारः, तन्मते प्रमाणान्तराभावेन सति प्रमेयत्वे साक्षात्कारविषयत्वात् / सन्निकर्षे च लौकिकत्वं विशेषणं तच्च संयोगाद्यन्यतमत्वाश्रयत्वम् / न च व्यावाप्रसिद्धिः, पक्षे उपरजकस्यापि स्वीकारात् / अभिधेयत्वघटत्वयोश्च विधिनिषेधप्रसिद्धिः / ननु चक्षुर्घटसंयोगमादाय घट इव तादृशसंयोगाश्रयत्वं चक्षुषोऽपीत्यत आह इन्द्रियस्येति / इन्द्रियविशिष्टसंयोगाश्रयत्वं नेन्द्रिये अंशत आत्माश्रयात् तंच्चात्र विवक्षितमिति भावः / य एवेति / यथाश्रुते दूषणमिदम् / यदा तु स्वसाक्षात्कारकारणेति मकरन्दः। न तु तद्विना मननासम्भव एवेति तात्पर्यम् / प्रयोजकत्वमिति / शब्दात्मकविप्रतिपत्तौ विषयस्य हेतुत्वाभावादिति भावः / यस्या अविवक्षा, तामवान्तरविप्रतिपत्तिमाह / साक्षादिति / अलौकिकपरमाण्वादावतिप्रसक्तिर्व्यतिरेके च बाध इत्यत उक्तं साक्षात्कारकारणेति / संयो. गाद्यन्यतमप्रत्त्यासत्तिजन्यसाक्षात्कारकारणेत्यर्थः / न च तन्मते व्यावाप्रसिद्धिः / पक्षे उपरञ्जकस्यापि दानात् / अत एव साक्षात्कारत्वपर्यन्तमपि तज्जातित्वे वैयर्थ्यमपि नेति ध्येयम् / न च गर्भवर्तिनष्टे व्यभिचारादिदमुक्तमिति वाच्यम् / तन्मते प्रमाविषयत्वस्याप्यभावात् / भावे वाऽवश्यमिन्द्रियसनिकृष्टत्वम् / प्रमाणान्तरात्तदसम्भवात् / योग्यतापरत्वे वा सन्निकर्षत्वेऽपि तथेति भावः। विधिनिषेधकोटिप्रसिद्धिः, अभिधेयत्वघटत्वयोः सुलभेति / ननु घटसाक्षात्कारकारणघटचक्षुःसंयोगरूपसन्निकर्षाश्रयत्षं चक्षुष्यपि, न च तल्लौकिकमित्यत आह / इन्द्रियस्येति / यद्यपि संयोगस्य द्विष्ठत्वादिदमयुक्तं, तथापि नेन्द्रियविशिष्टसन्निकर्षाश्रयत्वमिन्द्रियस्य अंशत आत्माश्रयात् , किन्तु तदुपलक्षितसन्निकर्षाश्रयत्वम् / तदिदमुक्तं, किन्तु प्रतियोगित्वमिति / तत्र तत्प्रतियोगिकसन्निकर्षाश्रयत्वेऽपि तस्योपलक्षणत्वमित्यर्थः / य एवेति। एतच्च