________________ '28 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ 4 का अव०अवतरणिकायां प्रकाशः। कमानाभावो न्यायाङ्गमिति चेन्न / तथापि संशयस्यातत्त्वात् / संशययोग्यतायास्तदङ्गत्वाद् / विशिष्टस्य तद्ग्राहकमानेन विशेषणस्यापि तत्त्वं विषयीकृतमिति चेन्न / मिलिताभावस्य प्रत्येकसत्त्वेऽपि सत्त्वात् / प्रत्येकञ्च न योग्यता। केवलान्वयिनि बाधकाप्रसिद्धेश्चेत्यन्यत्र विस्तरः / तथापि संशयस्यानुमितिमात्राहेतुत्वेऽपि जिज्ञासितार्थानुमितौ जिज्ञासाद्वारा संशयस्यानुमितिहेतुत्वम् / यद्वा(१) सङ्कसुकतानिवृतये न्यायोपासने संशयोऽङ्गमिति संशयं विना यो न परितुष्येत् तं प्रति श्रोतव्यो मन्तव्य इति श्रुतेरनन्यगत्या भिन्नविषयक एव धर्मविषयकसंशयो धर्मिविष प्रकाशिका। सत्येवाह मिलितेति / प्रत्येकमिति / अभावद्वयमित्यर्थः / लाघवात् साधकामावस्यैव तथात्वम् , अन्यथा पक्षताविरहादेव बाधस्थलेऽप्यनुमित्यनुत्पत्त्या तस्य हेत्वाभासान्तरतानुपपत्तेरिति भावः / केवलेति / साध्याभावसाधकस्यैव बाधकत्वमित्यभिप्रायेणेदम् / यदि च पक्षनिष्ठात्यन्ताभावप्रतियोगिताग्राहकमेव बाधकपदार्थः, तदा लाघव एव तात्पर्य, तदेवाभिसन्धायाह अन्यत्रेति / ननु जिज्ञासाद्वारा संशयस्यानुमितिहेतुत्वमत्रेत्ययुक्तम् / जिज्ञासां च द्वयी द्विकोटिका, एककोटिका च, तत्राद्या यद्यपि संशयमपेक्षते, तथापि द्वितीया विनैव संशयभिष्टसाधनताज्ञा. नमात्रात् सा चात्र पक्षताघटिका / किञ्च जिज्ञासापि संशयवन्न तावत्कालस्थायिनीत्यरुचेराह यद्वेति / तथा च निवर्त्यत्वेनात्र संशयो न्यायाङ्गमित्यर्थः / य इति / तथा च दुर्दुरूटस्य तस्य प्रबोधार्थं संशयबीजविप्रतिपत्तिप्रदर्शनं न तु तं विना मननासम्भव एवेति भावः / अनन्यगत्येति / ननु सर्वत्र धर्मकोटिक एव संशयो धम्मिणि न्यायाङ्गम् , न हि धर्मी क्वापि संशयकोटिः तत्र कुतोऽनन्यगतिकत्वोपवर्णनम् ? किञ्च न वा तद्रूपमस्तीश्चर इत्यादिप्रन्थेनासङ्कोचात् श्रुतिवाक्यभ्य इत्यनेन सर्वेषामेव श्रवणबोधनमित्यभिप्रायकेण धर्मेऽपि सन्देहाभावोपपादनात् क्व धर्मेऽपि सन्देह इति चेन्न / अत्र हि विषयपदं विशेष्यपरं तथाच धर्मविशेष्यक एव संशयो धम्मिविषयकन्यायप्रवृत्यङ्गमिति फक्किकार्थः / अत एव तत्तद्धर्मविशेष्यकविप्रतिपत्तिमेवोदाहरन्ति स्म ग्रन्थकृतः / एवं च धर्मविशिष्टधम्मिविशेष्यकनिश्चयेऽपि धर्मविशेष्यकम्मिविशेषणकसंशये बाधकाभाव इत्यापाततस्तात्पर्यम् / वस्तुविचारे त्विदमप्ययुक्तमेव, समानविशेष्यतया निश्चयसंशययाविरोधित्वे कथं धम्मिन्यायप्रवृत्या धर्मसंशयो निवर्तनीय इति शङ्कशुकतानिवृत्तये न्यायोपासनमित्याकरविरोधात् / समानविषयतामात्रेण च तयोर्विरोधे कथं धम्मिविशेष्यकनिश्चये सति धर्मविशेष्यक मकरन्दः। णत्वं, किन्तूपलक्षणत्वमिति दोषे सत्येवाऽऽह / मिलितेति / ननु प्रत्येकाभावद्वयं योग्यता, तच प्रत्येक सत्त्वे नास्तीत्यत आह / प्रत्येकमिति / प्रत्येकाभावद्वयमित्यर्थः / साधकमाना. भावमात्रस्य तथात्वे लाघवादिति भावः। अन्यथा पक्षताविरहादेवानुमितिप्रतिबन्धे बाधो हेत्वाभासो न स्यादित्यपि बोद्धव्यम् / केवलेति / साध्याभावसाधकस्य बाधकत्वमित्यभिप्रायेणेदम् / यद्यपि पक्षनिष्ठात्यन्ताभावप्रतियोगित्वग्राहकमानाविषयत्वं बाधकाभाव इति विवक्षिते तत्र नाप्रसिद्धिः, तथापि लाघव एव तात्पर्यम् / एतदेवाभिसन्धायोक्तम् , अन्यत्रेति / ___ संशयवजिज्ञासा:पि न तावत्कालस्थायिनीति मतान्तरमाह। यद्वति / तथा च निवर्त्यत्वेन संशयस्य न्यायाङ्गत्वमिति / य इति / तथाच प्रबोधनार्थं संशयबीजविप्रतिपत्तिप्रदर्शनम् , ( सं० 1 ) “सङ्कसुकोऽस्थिरे” इति कोशात् सङ्कसुकता अस्थिरता अश्रद्धा मिथ्याज्ञानजन्यवासनामूलाऽप्रामाण्यशङ्केति यावत् तन्निवृत्तय इत्यर्थः /