________________ प्रथमस्तवके] संशयस्य न्यायाङ्गत्वाक्षेपः। 27. प्रकाशः। घ्याभावात् , यत्र साधकप्रमाणाभावे सिषाधयिषामात्रमस्ति तत्र द्वयाभावात् सर्वत्राविशिष्टः / यत्र साधकप्रमाणे सत्यसति वा सिषाधयिषाया अभावस्तत्र नास्तीत्यस्मपितृचरणाः। तथापि संशयं विना कथं न्यायावतार इति चेदित्थम् / संशयो हि न्यायाङ्गं न तावद् न्यायकारणतया, तस्य लिङ्गपरामर्शात्मनः संशयं विनाऽपि सम्भवात् , कारणत्वासिद्धौ फलवेजात्यस्यापि कल्पने मानाभावात् , अन्योन्याश्रयाच / नापि सहकारित्वेन / तद्धि न साक्षात् , लिङ्गपरामर्शादिना तन्नाशात् शाब्दलिङ्गपरामर्श तत्कारणत्वासंभवाच्च संशयस्य कारणत्वासिद्धौ तत्कल्पनेऽपि मानाभावात् / अत एव परम्परयापि तत्सहकारित्वमपास्तम् / नाप्याश्रयतावच्छेदकत्वेन / पर्वतत्वादेरेव तथात्वात् / अन्यथा पक्षतावच्छेदकधर्म-साध्ययोः सामानाधिकरण्यभाननैयत्येन पर्वतत्वादेरिव सन्दिग्धत्वस्याप्यनुमितौ भानापत्तेः। अथ संशयेन स्वयोग्यतोपलक्षणात् साधकबाध प्रकाशिका। तादृशेच्छातत्प्रयोजकसामाग्रयन्यतरस्यैवानुमितिप्रतिबन्धकत्वकल्पनापत्तेरित्यन्यत्र विस्तर इति / - सत्यसतीति / समीचीनेऽसमीचीने वेत्यर्थः / सतीति शेषः / तेन भ्रमसाधारणसिद्धावपि यत्र सिषाधयिषाविरहस्तत्र नास्तीत्यर्थः / यत्तु सत्यसति स्वरूपसतीत्यर्थ इति / तन्न। वाशब्दासङ्गतेः / तस्येति / यद्यपि न्यायः पञ्चावयवात्मा, तथापि तत्कारणत्वं संशयस्यानुक्तिसम्भवमेवेति न्यायपदं परामर्षपरं वक्तव्यमिति भावः / ननु परामर्षाव्यवहितपूर्व संशय इत्यत आह / संशयस्येति / अत एवेति / व्यभिचारादेवेत्यर्थः / आश्रयतावच्छेदकत्वेन - अनुमितिविशेष्यतावच्छेदकत्वेन / यथाश्रुते सन्दिग्धत्वस्यैव पक्षतात्वेन तस्यैव तदवच्छेदकत्वानुपपत्तेः, विशिष्टाभावस्य पक्षतात्वे न तदवच्छेदकं सन्दिग्धत्वं न्यूनवृत्तित्वादिति / पर्वतत्वादेः इदंपर्वतत्वादेः / अन्यथेति / नियमेन विशेष्यतावच्छेदकत्वमनुमितौ सन्दिग्धत्वस्य, सामान्यतो वा, विशेषतो वा / नाद्यः, संशयं विनाप्यनुमितिरित्युपक्रम्य ग्रन्थावतारात् / नान्त्यः, विशेषसामग्रथन्तरकल्पनागौरवादिति दूषणं द्रष्टव्यम् / यथाश्रुतेः क्वचिदिष्टापत्तेः सम्भवात् / परामर्शादिना तन्नाशादित्यत्राशङ्कते / अथेति / संशयविशेषणत्वमुक्तयुक्तेरसम्भवीति दोषे मकरन्दः। गावगते लिङ्गान्तरेणानुमित्सायां तदनापत्तेरित्याद्यपास्तम् / निरुक्तानुमितिगोचरेच्छाया एव विवक्षितत्वात् / अधिकमनुमानप्रकाशे विपश्चितम् / / . सत्यसति वेति / समीचीनेऽसमीचीने वेत्यर्थः / सतीति शेषः। तथाच झमप्रमासाधारणसिद्धिमात्रस्य प्रतिबन्धकतया तस्मिन् सति यत्र सिषाधयिषाया अभावस्तत्र नास्तीति भावः / यत्तु सत्यसतिपदं स्वरूपार्थकमिति स्वरूपसतीत्यर्थ इति / तन्न / वाशब्दस्यासङ्गतत्वापत्तेः। तस्येति / यद्यपि न्यायो न लिङ्ग परामर्शात्मा, किन्तु पञ्चावयववाक्यम् / तथापि तत्रापि तद्धेतुत्वे मानाभावात् परामर्शपरत्वाभिप्रायेण दृषितमिति मन्तव्यम् / तदिति / तत्सहकारि. त्वासम्भवादित्यर्थः / तस्येवासत्त्वेनेति भावः / अत एवेति / व्यभिचारादेवेत्यर्थः / परामर्शादिना तन्नाशादित्यत्र शङ्कते। अथेति / उक्तबाधकादेव संशयस्यात्र न विशेष टिप्पणी। नाकाङ्क्षाभिधानमर्थान्तरम् / सत्यसति वेति / समीचीनेऽसमीचीने वेत्यर्थः / ' शाब्दलिङ्गपरामर्षे तत्कारणत्वासम्भवाच्चेति / अव्यवहितपूर्वमसम्भवात् शाब्दकारणकलापेन व्यवधानात् / अत एवेति / संशयस्य व्यभिचारादेव /