________________ 26 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ 4 का अव०अवतरणिकायां प्रकाशः। करूपपरिचेयत्वादिति चेन्न / सिषाधयिषाविरहसहकृतसाधकप्रमाणाभावस्य तत्त्वात् / स च विशिष्टाभावो यत्र साधकप्रमाणसिषाधयिषे स्तः तत्र विशेषणाभाशत् , यत्रोभयाभावस्तत्र विशे प्रकाशिका। सिषाधयिषेति / अत्र साधकमानं सिद्धिरेव / सिद्धितत्करणान्यतरद्वति व्याख्यातमन्यत् / __ ननु सिद्धेः प्रतिबन्धकत्वे मानाभावः, न चानुमित्यनन्तरमनुमित्यापत्तिः, द्वितीयानुमिताविष्टापत्तेः, उत्तरकालं च परामर्षाभावात् / न च लिङ्गोपधानपक्षेऽनुमित्यविच्छेदः स्यादिति वाच्यम् / तदनभ्युपगमात् / अत्र केचित् / वह्निव्याप्यवत्वमेव यत्र पक्षतावच्छेदकं तत्र पक्षतावच्छेदकस्यानुमितौ भानादनुमित्यविच्छेदः सिद्धेरप्रतिबन्धकत्व इति / तदयुक्तम् / तत्र वह्निव्याप्यवत्त्वलिङ्गिकानुमितिरापाद्या, धूमलिङ्गिका वा, नाद्यः, तदीयवह्निव्याप्यत्वस्यानुमितावभानात् , न द्वितीयः, धूमत्वस्यानुमितावभानात् / न च वह्निव्याप्यधूमवत्वमेव यत्र पक्षतावच्छेदकं तत्रानन्त्यापत्तिः, धूमलिङ्गकानुमितिसामग्रीसत्त्वादिति वाच्यम् / यद्धर्मसामानाधिकरण्येन हेतुः परामर्षविषयः तस्यैव पक्षतावच्छेदकत्वेनानुमितो भानमिति धूमलिङ्गकप्रथमानुमितेः वह्विव्याप्यधूमवत्त्वावगाहित्वे तत्सामानाधिकरण्येन धूमवत्त्वानवगाहितया द्वितीयानुमितेः पक्षतावच्छेदकत्वेन वह्निव्याप्यधूमवत्त्वानवगाहितया अनुमितिधाराविच्छेदादिति। अत्र वयं ब्रूमः, एवं सति संशयविपर्ययोत्तरप्रत्यक्षानुव्यवसायो न स्यादनुमितिसामग्रीसत्त्वात्। सिद्धेः प्रतिबन्धकत्वे तु प्रत्यक्षसत्त्वान्नानुमितिसामग्रीति भवत्यनुव्यवसायः। नचानुव्यवसाय एव मास्तु, तथा सति तादृशप्रत्यक्षे मानाभावेनासमानविषयेऽनुमितिसामग्रया बलवत्त्वमित्यपि भज्येत, तस्मादवश्यं सिद्धरनुमितिप्रतिबन्धकत्वम् / न च तथा सत्यपि प्रत्यक्षसामग्रीसत्त्वादेव नानुव्यवसाय इति वाच्यम् / इन्द्रियसन्निकर्षविच्छेदकाले तत्सम्भवात् / न चानुव्यवसायेच्छासहकारादनुव्यवसायसामग्री बलवतीति वाच्यम् / एवमपि मकरन्दः। सिषाधयिषायाश्च विशेषणत्वमेव, तदुत्तरस्भरणलक्षणपरामर्षादनुमितौ विनश्यदवस्थसिषाधयिषायास्तथात्वात् / ननु सिषाधयिषा तत्पुरुषीयतया तत्कालीनतया तत्साध्यीयत्वादिना चावश्यं विशेषणीया। अन्यथा व्यधिकरणामन्यकालीनामन्यसाध्यलिङ्गपक्षीयाञ्च सिषाधयिषामादाय पक्षतासत्त्वे सिद्धसाधनेऽप्यनुमित्यापत्तिः / एवञ्च तादृश सिषाधयिषाया घनगर्जितस्थलादावप्रसिद्धः कथं तघटिता तत्र पक्षतेति चेन्मैवम् / व्यधिकरणाया अन्यकालीनायाश्च तस्यास्तदा तत्पुरुषे विरह एवेति तामादायातिप्रसङ्गाभावात्तल्लिङ्गकतत्साध्यकतत्पक्षकानुमितिगोचरेच्छाया एव विवक्षितत्वात् , तादृश्याश्च घनगर्जितस्थलेऽपीश्वरेच्छाया एव प्रसिद्धत्वात् / तादृशानुमित्यसम्भवे पक्षत्वाभावेऽपि न क्षतिः / नचैवं बाधादेरनुमितिप्रतिबन्धकत्वं न स्यात् , तत्र तादृशानुमित्यसम्भवे पक्षताविरहादेव तदनुत्पत्तेरिति वाच्यम् / बाधाद्यनवतारदशायामन्यदा तादृशानुमितिसम्भवे तद्धटितपक्षतासत्त्वे तदा बाधादेरेव प्रतिबन्धकत्वात् / ननु तत्कालिकत्वेनाप्यनुमितिरवश्यं विशेषणीया / अन्यथाऽन्यकालिकानुमितिगोचरेच्छामादायातिप्रसङ्गादिति चेत् / अस्त्वेवं, तथापि पक्षताविरहेऽपि बाधादेरेव तत्रोपजीव्यत्वात् / अन्यथाऽनुमितिसत्त्वे तद्घटितपक्षताया अप्यावश्यकत्वात्। पक्षताविरहादेवानमित्यभावेऽन्योन्याश्रयात् / एतेन सिषाधयिषा न सिद्धित्वप्रकारिकेच्छा, प्रकृते तदभावात् / नापि सिद्धिविषयेच्छामात्रम् , प्रत्यक्षेण जानीयामितीच्छायामपि तदापत्तेः। नाऽप्यनुमितित्वप्रकारिकेच्छा। एकलि