________________ प्रथमस्तवके ] सिद्धसाधनस्यानुमानदूषकत्वसमर्थनम् / प्रकाशः। य॑त्वात् / अत्र च श्रोतव्यो मन्तव्य इति श्रुत्या मननस्येष्टसाधनावावगतेः श्रौते ज्ञाने वृत्तेऽपि मननस्यासिद्धत्वात् तत्रेच्छा भवत्येवेति न सिषाधयिषाविघटनद्वारकदूषणभावस्य सिद्धसाधनस्यावकाशः, इच्छाविषयत्वावच्छेदकरूपवत्सिद्धेः सिद्धपदेन विवक्षितत्वात् / अत एव सिद्धसाधनं दशाविशेषे दोषः, पृथक् च न दूषणम् , असिद्ध्युपजीव्यत्वेऽपि बाधवत् स्वतो दृषकत्वाभावात् , किन्तु दूषकतायामुपाधेरिव परमुखनिरीक्षकत्वात् / भवेदेवं यदि सिषाधयिषाघटितं पक्षत्वम् / तदेव न / तस्य विशेषणतोपलक्षणतयोरुभयत्रापि दोषात् / योग्यतायाश्च तदवच्छेद प्रकाशिका। वच्छिन्नविषयत्वरूपमेवेति / ननु सिद्धीच्छाविरोधिन्याः श्रौतप्रतिपत्तेर्विद्यमानत्वात् कथं सिषाधयिषा अत आह–इच्छाविषयेति / नचैवं निरन्तरानुमितीच्छायामनुमित्यानन्त्यापत्तिः / परामस्य प्राथमिकत्वे अनुमितिकाले तन्नाशात् , सिषाधयिषायाश्च तथात्वे तस्या एव तत्काले नाशात् / न च लिङ्गोपधानपक्षे प्रसङ्गः / अनुमितिद्वयस्येष्टत्वात् / उत्तरकालं च सिषाधयिषाविरहेणाप्रसङ्गात् / मिश्रास्तु विषयान्तरसञ्चारस्य प्रतिबन्धकत्वान्नानुमित्यानन्त्यम् / अन्यथा सिषाधयिषोत्तरसिद्धिप्रागभावावच्छिन्नकालस्यैव सिषाधयिषापदार्थत्वेन लिङ्गोपहितलैङ्गिकभानपक्षे तदानन्त्यापत्तिरित्याहुः। तच्चिन्त्यम् / सर्वापेक्षया भिन्ने विषये अनुमितिसामग्रथा बलवत्वेन विषयान्तरसञ्चारस्याभावात् / यदपि तैरुक्तमेकस्योभयसामग्रीत्वे अनुमितिसामग्रीबलवत्वं भिन्ने विषये इह त्वनुमितिसञ्चारसामग्रयोभिन्नतया नानुमितिसामग्रीबलवत्वमिति / तदपि चिन्त्यम् / तद्देश स्थितवृक्षादीन्द्रियसन्निकर्षकालेऽनुमितेरनुभूयमानत्वादिति। अत एव = सिषाधयिषादूषकताप्रयोजकविघटनकादाचित्कत्वादेवेत्यर्थः / पृथङ् न दूषणमित्यत्र हेतुमाह-असिद्धीति / विशेषणेति / परामर्शपूर्वमेव नाशान्न विशेषणत्वम् , अतिप्रसङ्गान्नोपलक्षणत्वमित्यर्थः / मकरन्दः / अत्राहुः विषयसिद्धिः साक्षान्नेच्छानिवर्तिका, उत्पन्नायास्तस्या विरोधिगुणनिवर्त्यत्वात् / तस्मात्तद्धेतोरसिद्धत्वज्ञानस्य विघटनद्वारा इच्छान्तरोत्पत्तिप्रतिबन्धकत्वेन तथात्वं वाच्यम्। ततः प्रकृते सिद्धत्पादमात्रेणैव सिद्धौ सत्यां तदसिद्धत्वभ्रमसंशयाभावात् / धनादिस्थले च तत्सम्भवेन ज्ञप्तिपर्यन्तानुसरणमिति / - इच्छेति / न चैवं निरन्तरानुमितित्वेनेच्छायां निरन्तरानुमित्यापत्तिः, इष्टत्वात् / न चानुमित्यानन्त्यम् / तृतीयक्षणे परामर्षस्यैव विनाशात् / न च लिङ्गोपधानमतेऽनुमित्यात्मकपरामर्षमादाय तदापत्तिः / अनुमितिद्वयस्येष्टत्वात् / उत्तरकालं च सिषाधयिषानाशादेव तदापत्त्यभावात् / यत्तु विषयान्तरसञ्चारसामग्रीबलवत्त्वान्न तथाऽनुमितिरिति / तच्चिन्त्यम् / भिन्ने विषये प्रत्यक्षसामग्रोतोऽनुमितिसामग्या बलवत्त्वात् / अत एव परामर्षानन्तरं न परामर्षान्तरं, तदनुव्यवसायो वा। अन्यथा सिद्धसाधनस्थले तत्सामग्या एव प्रतिबन्धकत्वसम्भवे सिद्धरप्रतिबन्धरत्वे तदभावरूपपक्षताया हेतुत्व एव मानाभावात् / ___अत एवेति / दूषणत्वप्रयोजकसिषाधयिषाविघटनस्यासार्वदिकत्वादेवेत्यर्थः / द्वितीये हेतुमाह / असिद्धीति / वस्तुतो ज्ञायमानप्रतिबन्धकत्वाभावादेव न हेत्वाभासत्वम् / साध्यञ्च न यथा हेत्वाभासस्तथोक्तमनुमानप्रकाशे / विशेषणेति / लिङ्गदर्शनादिना तन्नाशाद् न विशेषणत्वं, सिद्धसाधनस्थलेऽप्यतिप्रसङ्गान्नोपलक्षणत्वमित्यर्थः / साधकप्रमाणपदं सिद्धिपरम् / तेन घनगर्जितस्थले परामर्षात्मकसाधकप्रमाणमादाय नाव्याप्तिः / सिद्ध्युपहितप्रमाणपरं तदित्यन्ये / .4 न्या० क०