________________ 24 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ 4 का अव अवतरणिकायां प्रकाशः। कुत्र श्रुतिर्मुख्यार्था, कुत्र वोपचरितार्थेति तात्पर्य्यसन्देहात् सन्देह इति चेन्न। तथापि धर्मिस्वरूपे संशयानुपपादनात् तात्पर्य्यग्राहकन्यायाभिधानमात्रस्योचितत्वात् / कर्तृत्वादौ सन्देहादुत्कटकोटिको धर्मिण्येव सन्देहः, अन्यथा धर्मों क्वापि संशयविषयो न स्यादिति चेन्न / "श्रोतव्यो मन्तव्य" इत्यत्रात्मज्ञानस्य मोक्षहेतुत्वं न तु तद्धर्मिककर्तृत्वादिनिश्चयस्येति तत्सन्देहस्यानुच्छेद्यत्वात् / तथापि निर्धर्मकस्य तस्य ज्ञातुमशक्यत्वात्तद्धर्मनिश्चयोऽप्यादरणीय इति चेन्न / परस्पराविरुद्धप्रकारेण तच्चिन्तनोपपत्तेरिति दिक् / __ अत्रोच्यते / साध्यज्ञानं न स्वतः साध्यज्ञानविरोधि , धारावाहिकसत्त्वात् / नापि साध्यानुमितिविरोधि , प्रत्यक्षाधिगतस्याप्यनुमितिदर्शनात् , किन्तु सिषाधयिषाघटितपक्षत्वविघटनद्वारा। सिषाधयिषा च साध्यज्ञानेच्छा , सा च द्वयी साध्यज्ञानमात्रे तद्विशेषे च। तत्र या साध्यज्ञानमात्रेच्छा सा श्रौतज्ञानान्निवर्त्तताम् , यत्किञ्चिद्विशेषसिद्ध्यैव हि सामान्येच्छाविच्छेदः, अन्यथा सकलविशेषसिद्धरसम्भवेन तद्विच्छेदः क्वापि न स्यादेव / या त्वनुमितिरूपसाध्यज्ञानविशेषेच्छा सा कथं निवर्तेत , तद्विषयस्य ज्ञानविशेषस्यासिद्धः , इच्छायाः स्वविषयसिद्धिनिव प्रकाशिका। बन्धकत्वादिति वाच्यम् / तद्विषयस्य साध्यस्यैव तेन हेत्वाभासत्वोपमात् / तथापीति / यत्र संशयस्तत्रैव न्यायाभिधानस्योचितत्वात् श्रोतव्यो मन्तव्य इति प्रतीतसामानाधिकरण्यभङ्गापत्तिरिति भावः। परस्परेति / तत्र च न संशयः, विरुद्धस्यैव संशयप्रकारत्वादिति भावः / नन्वसङ्कोचादीश्वरपरसर्वश्रुतिबोधिततावत्प्रकारकमननस्य मोक्षहेतुतेति तन्मध्ये विरोधप्रतिसन्धानमस्त्येव, तथा च तन्निबन्धनः संशयोऽपि स्यादेव, तथा च मननमपि स्यादेवेत्युनुशयादाहदिगिति / एवमपि श्रवणप्रकारीभूतयावद्धर्मप्रकारकमननासम्भवात् स्वविरुद्धप्रकारे संशयाभावात् श्रोतव्यो मन्तव्य इत्यत्र च विशिष्टसामानाधिकरण्यस्यौत्सर्गिकत्वादिति भावः / इच्छाया इति / नन्विच्छा न विषयनिष्पत्तिनिवा, जातेऽपि पुत्रे पुत्रेच्छायास्तदज्ञानेऽनिवृत्तेः, किन्तु विषयधीनिवा, एवं च जातायामप्यनुमितौ तदज्ञानेऽनुमितिः स्यादिति चेन्न / बाह्ये विषये विषयज्ञानस्य आन्तरे विषयस्यान्वव्यतिरेकाभ्यामिच्छाविरोधावधारणात् विरोधित्वञ्चान्येच्छाप्रतिबन्धकत्वमेव, न तु पूर्वेच्छानिवर्तकत्वं तस्या विरोधिगुणेनैव निवृत्तेः / मिश्रास्तु असिद्धत्वज्ञानमिच्छाकारणं तच्च बाह्य विषये सत्यपि सिद्धत्वे भ्रमरूपं सुलभम् / आन्तरे तु सति सिद्धत्वे भ्रमरूपमप्यसिद्धत्वज्ञानं न सम्भवतीति तदभावानेच्छेति वदन्ति / तच्चिन्त्यम् / अन्येन्द्रियजन्यासिद्धत्वज्ञाने सत्यप्यन्येन्द्रियजन्यसिद्धत्वज्ञान इच्छानुत्पत्तेः, सिद्धत्वं हि तत्तत्सम्बन्धा मकरन्दः। तात्पय्येति / यत्र सन्देहस्तव न्यायाभिधानस्योचितत्वादित्यर्थः। तात्पर्यसन्देहादपि धर्मसन्देहो न धर्मिणीति तत्र न्यायाभिधानमनुचितमेवेति भावः / परस्परेति / तथा च न संशयः, विरुद्धप्रकारकस्यैव संशयत्वादिति भावः / न चासङ्कोचादीश्वरपरसर्वश्रुतिबोधिततावत्प्रकारेण मननं मोक्षहेतुः। तत्र च विरोधप्रतिसन्धाननिबन्धनसंशयावश्यम्भावान्मननमस्त्विति वाच्यम् / अविरुद्धप्रकारे संशयाभावादेवमपि तावत्प्रकारकमननासम्भवात् / एतदेवाभिसन्धायोक्तं दिगिति / . इच्छाया इति / ननु विषयसिद्धिनिवर्त्या नेच्छा, किन्तु तद्धीनिवर्त्या। अन्यथा प्राप्तधनस्यापि तत्प्राप्तिमजानतस्तदिच्छाविच्छेदापत्तेः / एवञ्च सिद्धसाधनस्थलेऽप्युत्पन्नसिद्धेरग्रहे तदिच्छाया अनिवृत्तेः पक्षता स्यादिति चेत् /