________________ प्रथमस्तवके] सिद्धसाधनस्यानुमानदूषकत्वाऽऽक्षेपः। . . 23 प्रकाशः। सामानाधिकरण्यविरोधात् / मननस्य प्रामाण्यविषयकत्वात् / यदि च श्रुतिरनवधृतप्रामाण्यैव, तदा कथं ततः श्रवणेऽपि बह्वायाससाध्ये प्रवृत्तिः / तथात्वेऽपि वेदप्रामाण्यानुमानमात्रौचित्यादीश्वरानुमानानुपपत्तिः / अथ सिद्धसाधनं न हेत्वाभासः / उभयथा हि हेत्वाभासता, करणविघटकत्वाद्विरुद्धानैकान्तिकयोरिव, तद्विघटनमकुर्वतः स्वत एव प्रतिबन्धकत्वाद् बाधप्रतिरोधवत् , सिद्धसाधनन्तु न व्याप्तिज्ञानविघटकं, न वा स्वत एवं प्रतिबन्धकम् , अतो न हेत्वाभासः, दूषकता त्वर्थान्तरान्तर्भावादिति मतम् / तन्न / व्याप्तिज्ञानस्येव पक्षधर्मताज्ञानस्यापि तत्कारणत्वात् तद्विघटकसिद्धसाधनस्यापि तदौचित्यात् / पक्षधर्मताज्ञानं न तत्करणं किन्तु व्याप्तिज्ञानमिति चेन्न / लाघवात् कारणमात्रस्य प्रयोजकत्वात् / श्रुतिबोधितेऽपि भगवति बहुविधकर्तृत्वकौटस्थ्यनिरञ्जनादिश्रुतेः प्रकाशिका। इत्यरुचेराह / यदि चेति। ननु श्रवणप्रतिपादिकाया अपि श्रुतेः प्रामाण्यावधारणेऽपीश्वरप्रतिपादिकायाः श्रुतः प्रामाण्यसंशये बाधकाभाव इत्यरुचेराह / तथात्वेऽपीति / प्रामाण्यसंशयाहितसंशयस्य तन्निर्णयं विनार्थानुमितावप्यनिवृत्तेरिति भावः / विरुद्धत्याग्रुपलक्षणं स्वरूपासिद्धस्यापीति द्रष्टव्यम् / स्वत इति / साक्षादित्यर्थः / अर्थान्तरेति / तच्च पुरुषदोषतयानानुमितिप्रतिबन्धकं पुरुषः परं सापराधः परमकारुणिकतया स्वदोषं पश्यन्नपि प्रयोगं कुर्यादिति भावः / पक्षधर्मताज्ञानस्येति / तथा च पक्षताया अपि करणकोटिप्रवेशात्तद्विघटकसिद्धसाधनस्यापि करणविघटकत्वमिति भावः / लाघवादिति / एवं च पक्षतायाः स्वातन्त्रेणापि कारणतया तद्विघटकतया हेत्वाभांस इति सूचितम् / नचैवं प्रत्यक्षसामाग्रयादिकमप्याभासः स्यादिति वाच्यम् / ज्ञायमानस्य यस्य कारणविघटकत्वं तस्य हेत्वाभासत्वमित्युपगमात् / अत एव नात्ममनोयोगाभावादावप्यतिप्रसङ्गः। नचैवं सिद्धसाधनमपि न हेत्वाभासः, स्वरूपसत्प्रति मकरन्दः। स्यान्न तु प्रामाण्यविषयकमतो नोक्तविरोध इति चेन्न / प्रामाण्यसंशये जागरूके कुतोऽपि न विषयसंशयव्युदासः, तन्निदानानुच्छेदादिति प्रामाण्यानुमानानुसरणावश्यंभावात् , अनन्तरञ्च तत एव विषयनिश्चयात् किं पुनर्विषयनिरूपणेनेति भावः / श्रवणेऽपीति / श्रोतव्य इत्यादिश्रुतावपि प्रामाण्यसन्देहसम्भवादित्यर्थः / यद्यपि श्रुतिभेदादन्यत्र तन्निश्चयेऽप्यन्यत्र संशयो नासम्भवी, तथापि प्रवृत्तिसंवादाद्यभावे आप्तोक्तत्वमेव तन्निश्चायकं, तच्चोभयत्राविशिष्टमिति भावः / वस्तुतस्तु एतदस्वरसादेव प्रागुक्तं सामानाधिकरण्यविरोधं स्मारयति / तथात्वेऽपीति / विरुद्धेत्युपलक्षणं, स्वरूपासिद्धयादेरपि द्रष्टव्यम् / स्वत एवेति / साक्षादित्यर्थः / अर्थान्तरेति / तच्च पुरुषदोषो न हेतुदोष इति न्यायोपदेष्टरि सापराधेऽप्यात्ममननसिद्धिरप्रत्यूहैवेति भावः / पक्षधर्मतेति / यद्यपि पक्षधर्मतायाः स्वातन्त्र्येण पृथक्कारणत्वात् तद्विघटकत्वेऽपि न ज्ञानविघटकरवं, तथापि यः पक्षस्तद्धर्मताज्ञानत्वेन हेतुत्वमिति पक्षताया अवच्छेदकत्वाभ्युपगमेन यादृशज्ञानस्य हेतुत्वं तादृशज्ञानस्य विघटकत्वमस्त्येवेति भावः / कारणमात्रस्येति / तथा च पक्षतायाः पृथक्कारणत्वपक्षे तद्विघटकतयाऽपि तदौचित्यमित्यपि ध्वनितम् / न च ज्ञायमानप्रतिबन्धकत्वाभावान्न सिद्धसाधनं हेत्वाभास इति वाच्यम् / प्राचीनमतेऽनुमित्यसाधरणदोषस्यैव तथात्वात् / एवमपि साध्यज्ञानमादाय साध्यस्य तथात्वे बाधकाभावाच्चेति भावः / टिप्पणी। ति। धर्मे धम्मिणि च सन्देहाभावेनेत्यर्थः / दूषकता त्वर्थान्तरान्तर्भावादिति / प्रकृता