________________ 22 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [3 कारिकावतरणिकाव्याख्यायां / प्रकाशः। रूपेण श्रवणं तेनैव रूपेण मननस्योचितत्वात्।न वा रूपान्तरेण श्रुतस्य रूपान्तरेण मननेऽश्रद्धामलक्षालनं शास्त्रव्यापारो निर्वहति , श्रुतस्यामननात् / अत एव धर्मिस्वरूपे सन्देहाभावेऽपि क्षितिकर्तृत्वादौ धर्मे सन्देहात्तत्रानुमेत्यपास्तम् / तथापि धर्मिणि सन्देहानुपपादनाच्च / न वा तद्रूपमस्तीश्वरे, यन्न वेदे श्रुतमस्ति / तथा च "श्रोतव्यः श्रुतिवाक्येभ्यः' इत्यत्रासङ्कोचादीश्वरपरसर्ववाक्येभ्य एव श्रवणे सति कथं मननम् / एतेन भगवति भवे सन्देह एव किं निरूपणीयमिति, कुतः = पृथिवीतः कर्तृजन्यत्वसंशयात्तत्र संशय एवेत्यपि योजनामात्रमपास्तम् / यत्तु श्रुतेऽपि भगवति श्रुतेः प्रामाण्यसन्देहात्तत्प्रतिपादितेऽपीश्वरे सन्देह इति / तन्न / “श्रोतव्यो मन्तव्य' इति प्रकाशिका। नवेति / अत एवेति।अन्यथामनने शास्त्रव्यापारानिर्वाहादेवेत्यर्थः। तथापीति / तथाच परमास्मा निरूप्यत इत्यसङ्गतमेवेति भावः / ननु संशयकोटित्वं धर्मस्यैव, धम्मिणि तु विशेष्यतया स एव संशयोऽनुप्रवर्तक इत्यत आह। न वेति। ननु बहुवचनस्य त्रित्वपरत्वे तथापि संशयासङ्गतिरेवेत्यत आह / तथा चेति / भवेदेवं यदि कपिञ्जलन्यायावतारोऽत्र स्यात् स च सामान्यान्वयानुपपत्तिः, मूलकः, न चात्र सेति भावः। एतेनेति / धर्मे धम्मिणि च संशयाभावेनेत्यर्थः / सन्देह एवेति। अत्र सन्देहपदं सप्तम्यन्तम् तथा च सन्देहे किन्निरूपणीयमिति लोकोक्तेरपि सन्देहोऽस्त्येव कुतः पृथिवीत इति योजना। योजनामात्रमिदं न तु संशयोपपादकं किञ्चिदुक्तमिति मात्रार्थ इति व्याख्येति मिश्राः / कुतः कुत इति पाठपक्षे तु सन्देहोऽस्त्येव, किन्निरूपणीयमिति कुतः, अत्र हेतुः कुतः पृथिवीत इति योजनामात्रम् , मानपदार्थश्च तादृशपदद्वयाभावः पूर्ववच्चेति भावः / श्रोतव्य इति प्रामाण्यसंशयाहितो धम्मिणि संशयो वर्त्तत एवेति स एवानुमानाङ्गं स्यादतोन विरोध मकरन्दः / मित्यत आह / न वेति / अत एवेति / श्रुतस्यामनने उक्तशास्त्रव्यांपारानिर्वाहादेवेत्यर्थः / तथापीति / तथा च परमात्मा निरूप्यत इत्यसङ्गतमेवेति भावः / ननूक्तधर्मिनिरूपणस्यैव पक्षीभूतेश्वर विषयतां विनाऽसम्भवान्नासङ्गतिरित्यत आह / न वेति / तथा च धर्मेऽपि न सन्देह इति भावः / तथा चेति / कपिञ्जले यावत्परत्वासम्भववदत्रासम्भवाभावेन त्रित्वपरत्वाभावादिति भावः। एतेनेति / उक्तरीत्या धर्मिणि धर्मे वा सन्देहाभावेनेत्यर्थः। ननु, कथं सन्देह इत्यत आह / कुत इति / योजनामात्रमिति / अत्र मात्रपदेनापदार्थव्याख्यानं सूचितम् / मूले, इति कुत इति पदाभावाद् योजना कृता, न तु संशयोपपादकं किञ्चिदुक्तमिति तेन सूचितमित्यन्ये / श्रोतव्य इति / ननु संशयस्योभयत्र तुल्यतया श्रुतिबलेन ईश्वरविषयकमेव मननं टिप्पणी। रूपान्तरेण मननं स्यादित्यत आह। न च रूपान्तरेण श्रुतस्येति। न वेत्यर्थः। तेन पूर्वहेतोरुक्तयुक्त्याऽसम्भवेऽपि न क्षतिरन्यथा समुच्चयार्थत्वे तत्स्यादिति भावः / अत एव धर्मिणोति / रूपान्तरेण मनने शास्त्रव्यापारनिर्वाहादेवेत्यर्थः। तथापि धर्मिणि सन्देहानुपपादनादिति / तथाच परमात्मा निरूप्यत इति ग्रन्थासङ्गतिः। तत्प्रयोजकस्य परमात्मसंशयस्याभावादिति भावः / ननु तन्निरूपणमवान्तरधर्मप्रकारेण तत्प्रतिपत्त्यनुकूलव्यापारः। तत्र धर्मसंशय एवोपयुज्यते सर्वत्र धर्मस्यैव कोटित्वेन धर्मिणा विशेष्यतयैव सन्दिग्धत्वात् कर्तृत्वादिसन्देहस्यापि तथात्वादित्यत. आह। न च तद्रूपमस्तीश्वर इति। श्रोतव्यः श्रुतिवाक्येभ्य इत्यत्रासकोचादिति / कपि जलन्यायेन बहुवचनस्य त्रित्वाद्यपरत्वात् सामान्यान्वयानुपपत्तेींजस्यात्राभावादिति भावः। एतेने