________________ प्रथमस्तवके] ईश्वरनिरूपणाक्षेपसमाधानम् / 21 प्रकाशः। ग्रन्थस्य परार्थानुमानरूपत्वाच्च / यथा अग्निहोत्रं जुहोति, यवागू पचतीत्यत्राऽऽर्थेन क्रमेण शाब्दः क्रमो लख्यते, तथा "श्रोतव्यो मन्तव्य" इत्यत्रापि मननानन्तरं श्रवणे श्रुतेस्तात्पर्य्यमिति चेद् / न। दृष्टान्ते, होमे द्रव्यान्तरसाधनत्वं यवागूपाकस्यादृष्टार्थत्वञ्च कल्प्यमिति गौरवात्तथाऽस्तु, प्रकृते त्वनुपपत्त्यभावः , श्रवणानन्तरं मननस्यान्यथोपपाद्यत्वात् , श्रवणानन्तरागतेति ग्रन्थ विरोधाच / “श्रोतव्यः श्रुतिवाक्येभ्य इति बहुवचनं, कपिजलानालभेतेतिवत् त्रित्वपरम्, अतो रूपान्तरेण मननमविरुद्धमिति चेन्न / "श्रोतव्यो मन्तव्य" इति सामानाधिकरण्यश्रुतेर्लाघवाच्च येनैव - प्रकाशिका। सिद्धसाधनं दोष इति ब्रूयात्तत्राह-ग्रन्थस्येति। शाब्दत्वं पाठिकत्वं न तु शब्दप्रतिपाद्यत्वं “अध्वद्रुहपति दीक्षयित्वा ब्रह्माणं दीक्षयति" इतिवत्तादृशशब्दाभावात्। ननुश्रवणानन्तरं मननासम्भव एवानुपपत्तिरत आह / श्रवणानन्तरमिति / अन्यथेति। सिषाधयिषयेत्यर्थः / नन्वेवं सिद्धसाधनात् कथमनुमितिरिति स्वपक्ष एव दूषित इत्यरुचेराह-श्रवणेति। कपिजलानालभेतेतीति। यावत्कपिञ्जलानामालम्भनाशंक्यत्वेन विशेषपरतायां प्रथमोपस्थितिलाघवाद्बहुवचनं तत्र यथा त्रित्वपरं तथात्रापीत्यर्थः। धर्मिमात्रमादाय सामानाधिकरण्यं स्यादत आह। लाघवाच्चेति / मननस्य प्रकाराकाङ्क्षायामुपस्थितश्रवणप्रकारस्यैवान्वयात् , अन्यथाऽनुपस्थितकल्पनागौरवादिति भावः / ननु सिद्धसाधनभिया प्रामाणिकं गौरवमादर्तव्यं रूपान्तरेण मननसंभवादित्यत आह / * मकरन्दः / भयत्र तुल्यत्कादित्यर्थः। ननु नोक्तरीत्या सिद्धसाधनस्य दोषत्वं, किन्त्वन्तरतया , तच्च शब्ददोषतया स्वार्थानुमाने न दोष इति यदि ब्रूयात् तत्राह / ग्रन्थस्येति / क्रमे शाब्दत्वं, पाठिकत्वं न तु शब्दप्रतिपाद्यत्वम् , क्रमप्रतिपादकाभावात् / ननु सिद्धसाधनान्मननानुपपत्तिरेवेत्यत आह / श्रवणेति / अन्यथेति / सिषाधयिषयेत्यर्थः / ननु सिद्धसाधनात् कथमनुमितिरिति स्वपक्षः साधु समर्थित इत्यरुचेराह / श्रवणेति / कपिजलेति / यावत्परत्वासम्भवेन . कतिपयपरतया बहुवचनस्य प्रथमोपस्थितत्रित्वपरत्वं यथा, तथा प्रकृतेऽपीत्यर्थः / धर्मिमात्रवि षतयापि सामानाधिकरण्यसम्भव इत्यरुचेराह / लाधवाच्चेति / श्रवणप्रकारस्योपस्थितत्वेनानुपस्थितप्रकारकल्पनायां गौरवादिति भावः। ननु सिद्धसाधनादेव प्रामाणिकं गौरवं न्याय्य टिप्पणी। घटकत्वेन दूषकत्व उभयत्राप्यविशेषाद्विनिगमकाभावादित्यर्थः / ननु पक्षताया अनुमितौ स्वार्थ हैतुतायाम्मानाभावः यावत्परामर्षमनुमितिर्जायत एवेत्युद्धतं प्रत्याह / ग्रन्थस्य परार्थानुमाने. ति / तस्य समस्तरूपोपन्नलिङ्गप्रतिपादकवाक्यत्वेन परार्थानुमानत्वं, परार्थानुमाने चावश्यं सिद्धसाधनं दोषः, सन्दिग्ध एव हेत्वादेराकासितत्वादिति भावः। श्रवणानन्तरं मननस्यान्यथेति। सिषाधयिषयेत्यर्थः / अन्यथोपपाद्यत्वादिति / तथा चोक्तकल्पनासम्भवादिति शेषः / ननु सिद्धसाधनात् कथमनुमितिरिति स्वपक्ष एव दूषित इत्यरुचेराह / श्रवणानन्तरागतेति / कपिअजलानालभेतेतिवदिति / यथा यावदालम्भस्याशक्यत्वेन विशेषपरतायां प्रथमोपस्थितिलाघवाद्वहुवचनस्य त्रित्वपरत्वन्तथेत्यर्थः / ननु धम्मिमात्रमादाय सामानाधिकरण्यं स्यादित्यत आह / लाघवाच्च / येनैव रूपेण श्रवणमिति / मननस्य प्रकाराकाङ्क्षायामुपस्थितश्रवणप्रकारस्यैवान्वयात् , अन्यथानुपस्थितकल्पने गौरवादिति भावः / ननु सिद्धसाधनभिया गौरवं प्रामाणिकमिति