________________ 20 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ ( 3 कारिकाव्याख्यायां "श्रीतव्यो मन्तव्यः” इति श्रुतेः , आगमेनानुमानेन ध्यानाभ्यासरसेन च / त्रिधा प्रकल्पयन् प्रज्ञा लभते योगमुत्तमम् // इति स्मृतेश्च // 3 // बोधनी। प्रज्ञा साक्षात्कारः, योग-योगफलं निःश्रेयसमिति // 3 // प्रकाशः। उपयोग उक्तः / उत्तमो योगः = आत्मतत्त्वसाक्षात्कारः // 3 // ___ ननु भगवति सन्देहाभावेन सिद्धसाधनात् कथमनुमितिः ? / सिद्धसाधनं हि स्वार्थानुमाने न दोषः प्रमाणसंप्लवस्य संस्थापनादिति चेद् / न / विनिगमकाभावात् , प्रकाशिका। ऽपि, अन्यथा अदृष्टमेव तत्रापि द्वारमिति किमिति पाठिकक्रमत्यागः / एवं च स्त्रीशूद्रादीनामपि पुराणादिना श्रवणे मोक्षाधिकार इति वदन्ति / तच्चिन्त्यम्। (१)अष्टकल्पनाभिया श्रुतार्थपरित्यागे रथकारशब्देऽपि लक्षणापत्तेः। 'द्रष्टव्य' इत्यादौ तु क्रमत्यागमानं, तत्त्यागद्वारा श्रुतार्थपरित्यागः (१)अदृष्टकल्पनाभियाऽसिद्ध एव,“अग्निहोत्रं जुहोति' यवागू पचतीत्यादावाद्यप्रतिपत्तिरूपद्वारवति उत्तरोत्तरप्रतिपत्तिारमित्यदृष्टद्वारकत्वेऽपि विशेषणज्ञानत्वेन द्वारत्वाद्युक्तमिति / अत एव त्रिसूत्री टीका ‘तपःप्रभाव एव हि तादृशस्तेषां यत एवंविधाः पाप्मानो विलीयन्त” इति / अन्यथा शूद्रादीनामप्यधिकारे तदुपदेशेन पापानुत्पत्या तद्विरुद्धतेति / निबन्धेऽप्येवमेवेति। योगो निदिध्यासनमेवेत्यनन्वय इत्यत आह / आत्मतत्त्वसाक्षात्कार इति // 3 // विनिगमकेति / सिद्धेः पक्षताविघटकतया दूषणत्वस्योभयत्राविशेषादित्यर्थः / ननु सिद्धरनुमितिप्रतिबन्धकत्वे मानाभावः, यावत् परामर्शमनुमित्यविरोधादिति परार्थानुमान एवार्थान्तरतया मकरन्दः। पूर्वप्रतिपत्तौ हि उत्तरोत्तरप्रतिपत्तिद्वारकता। सा च श्रुतिमात्रजनितश्रवणसाध्यतायां नियमापूर्वकल्पनया भज्येत / द्रष्टव्य इति अदृष्टद्वारकताभयेन पाठिकक्रमोल्लङ्घनमपि नोचितं तस्य स्यादिति पुराणस्मृत्यादिना श्रुते मननादभिमतसिद्धिर्भवत्येवेत्याहुः / ननु योगो निदिध्यासनमेवेत्यनन्वय इत्यत आह / उत्तम इति // 3 // विनिगमकेति / सिद्धयभावरूपायाः पक्षताया अनुमितिहेतुत्वे तदभावादनुमित्यभावस्यो टिप्पणी। / "श्रोतव्यः श्रुतिवाक्येभ्यः' इत्यादिनियमविध्यवष्टम्भेन, अन्यथा स्मृतेरपि श्रवणे प्रतिपत्तेरविशेषात् तस्या अपि प्रामाण्याच्च श्रुतिमूलकत्वादित्युपादानमफलं स्यात् , तथापि मुख्यतया श्रुतिवाक्येभ्य एवायं श्रोतव्यः / अवबोधदाार्थं श्रुतिमूलायाः स्मृतेरपीति भावः // 3 // . नन्वित्यादिग्रन्थे शङ्कते सिद्धसाधनं हीत्यादि / ननु सिद्धसाधनस्यादोषत्वात् ज्ञानधाराप्रसङ्ग इत्यत आह--प्रमाणसंप्लवेत्यादि / यावत् प्रमाणं प्रत्यक्षस्थल इवात्रानुमानस्थलेऽपि ज्ञानाधारा सम्पद्यत एव, प्रमाणसम्प्लवकारणाभावान्नेष्यत इत्यर्थः / यद्वा सिद्धसाधनस्यादोषत्वे प्रन्थकारसम्मतिमाह। प्रमाणेति / संप्लवः = सङ्करः / व्यवस्थापनाद् भाष्यकारेणेति शेषः / इति चेन्न विनिगमकाभावादिति / सिद्धः पक्षतावि (1) अक्लप्तेत्यादर्शपुस्तके पाठः /