________________ प्रथमस्तवके] ईश्वरनिरूपणाक्षेपसमाधानम्। ...... 16 कुलधर्मादिवदासंसारं प्रसिद्धानुभावे भगवति भवे सन्देह एव कुतः ? किं निरूपणीयम् / तथापि, न्यायचर्चेयमीशस्य मननव्यपदेशभाक् / / उपासनैव क्रियते श्रवणानन्तरागता // 3 // श्रुतो हि भगवान् बहुशः श्रुतिस्मृतीतिहासपुराणेग्विदानी मन्तव्यो भवति, बोधनी। बङ्घचत्वाद्यवान्तरजातिः। कुलधर्मः-प्रतिकुलं व्यवच्छिन्नः शिखासन्निवेशादिः। यथा जात्यादयः संसारमभिव्याप्य प्रमाणसिद्धाः, एवमीश्वरोऽपि / कि निरूपणीयम् ? न किञ्चिदित्यर्थः / समाधत्ते-तथापि न्यायेति / तत्रैव हि सन्दिग्धविषयत्वनियमो न्यायस्य यत्र दृष्टमेव संशयनिरासः प्रयोजनम् , अयं तु विहितोपासनात्मकत्वाददृष्टरूपस्वर्गापवर्गादिफल इति सिद्धेऽपि विषये प्रवर्तत इति भावः / विहितत्वप्रदर्शनार्थ-मननेति / "मन्तव्य" इति मननं विहितम् , मननाख्या चेयं न्यायचिन्तेति / यद्वा, यथुपासनेयं न्यायचर्चा, न तु संशयनिरासफला, तर्हि श्रवणादिचतुर्विधायां कतमेयमित्यत उक्तंमननेति / श्रवणानन्तरेत मननस्यावसरप्राप्तिर्दर्शितेति / तद् व्याचष्टे-श्रुतो हीति / प्रकाशः। तथा च जातिगोत्रादिवत् संसारमभिव्याप्य श्रुत्यादिप्रमाणसिद्धे परमात्मनि न सन्देहः, अतस्तत्रेश्वरे किं निरूपणीयमित्यर्थः / तथापि धर्मणि भगवति विहितमनने प्रकाराकाङ्क्षायां तत्र विप्रतिपत्त्या सन्देहोऽस्तीति मनसिकृत्य मननरूपोपासनैव क्रियते इति समाधत्ते तथापीति / न्यायेन चर्चा न्यायचर्चा अनुमितिरूपा, उपासनैवेति सम्बन्धः। श्रवणानन्तरागतेत्यनेन श्रुतिप्रामाण्यग्राहकन्यायनिरूपणमपि सूचितम् / श्रवणानन्तरागतेति संगृहीतं विवृणोति / श्रुतो हीति / श्रुतिमूलकत्वात् स्मृतेरपि तत्समानविषयतया स्वबोधदाढर्यार्थ श्रवण प्रकाशिका। मनुभावोऽसाधारणीं कारणतामाहेति व्याख्यानेन विरोध इति वाच्यम् / तत्रानुभावोऽनुभावशब्दार्थोऽसाधारणकार्यरूपी नान्तरीयकतयाऽसाधारणी कारणतामाहेत्यर्थात् , इह तु पदार्थव्याख्यानादिति। तत्रविप्रतिपत्येति। इदं च तथापि (१)विप्रतिपतिं विनेत्यादिवक्ष्यमाणं मनसिकृत्योक्तम् / वस्तुतो मननरूपानुमितौ सन्देहोऽनङ्गमेवेति स्वयमेवोक्तेरिति / श्रुतिमूलकत्वादिति / अत्र मिश्राः "श्रोतव्यः श्रुतिवाक्येभ्य'इत्यादिनियमविध्यवष्टम्भेनेदमुक्तम् / वस्तुतस्तस्य नियमविधित्वेऽदृष्टकल्पनाभिया श्रुतिवाक्यपदमजहत्स्वार्थलक्षणया आत्मप्रतिपादकप्रमाणवाक्यपरम् / अत एवोत्तरोत्तरप्रतिपत्तिरेव पूर्वपूर्वप्रतिपत्तेारमिति सिद्धान्तः / अत एव “द्रष्टव्य" इत्यादिपाठिकक्रमत्यागो मकरन्दः / श्रुतिमूलकत्वादिति / एतच्च "श्रोतव्यः श्रुतिवाक्येभ्यः' इति नियमविध्यवष्टम्भेनो क्तम् / वस्तुतस्त्वात्मप्रतिपादकप्रमाणवाक्यपरमेव श्रुतिपदम् / अन्यथा अदृष्टार्थकतापत्तेः / पूर्व टिप्पणी। प्रणीयेति। प्रणयनं हि तत्प्रत्यक्षजनककण्ठताल्वाद्यभिघातविशेषः। तथा च वेदस्य नित्यत्वपक्षेऽपि तत्सम्भवोऽनित्यत्वपक्षेऽपि चेति न क्षतिः / स्मृतेरपि तत्समानविषयतयेत्यादि / इदं तु (1) संशयं विनेति मुद्रितप्रकाशे पाठः /