________________ 18 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाअलौ [ 3 कारिकावतरणिकायां बहुना, कारवोऽपि यं विश्वकम्मेत्युपासते, तस्मिन्नेवं जातिगोत्रप्रवरचरण बोधनी। दुक्तोपपन्न:-मया यानि विशेषणान्युक्तानि तेषु यावदुपपन्नं तेनोपपन्नः / यद्वा, यावदुक्तेन यथाश्रुतेन न तु व्याख्यातेनोपंपन्नः, यथा शुद्धः = देहादिरहितः, युद्धः = बोधे कर्ता कर्म वा, प्रादिविद्वान्-नित्यज्ञातलोकव्यवहारः।सिद्धः सर्वजनप्रसिद्धिगम्यः, सुगममन्यत्।जातिळह्मणत्वादिः / गोत्रं-कूटस्थऋषिनाम्ना सङ्कीर्तनम् / प्रवरः-वंश्यऋषिगणानुकीर्तनम् / चरणः = प्रकाशः। सर्गादौ, विद्वान् = ज्ञानवान् , सिद्धो = नित्यः, सम्प्रदायप्रद्योतको वेदं प्रणीय सर्गादिसमुत्पन्नाध्यापकः, अनुग्राहकः = कुलालादिकृतेऽपि घटादौ सहकारीत्यादिक्रमेण / नचैवमैकमत्येन दर्शनभेदानुपपत्तिः / (१)फलैकमत्येऽपि प्रकारभेदात् / सर्वथा विरोधाभावे विचारोपयोगिसंशयस्याप्यभावप्रसङ्गात् / यद्यपि मीमांसकानीश्वरसांख्यमते नेश्वरे सम्प्रतिपत्तिः, तथाप्युपास्यत्वेन धम्मिणि सम्प्रतिपत्तिरस्त्येव / कारु: शिल्पी। विश्वं सर्वमुत्पत्तिमत् कर्म कार्य यस्य स तथा। जातिः = ब्राह्मणत्वादि / गोत्रं-काश्यपादि / ऋषय एव यज्ञे ब्रियमाणाः प्रवराः। चरणं = शाखा / अनुभावोऽसाधारणं कार्य वेदादि। अत एव भवत्यस्मादिति भवः / प्रकाशिका। मन्यत्रोपाधिभूतचैतन्यात्मकत्वं तद् घटादिभिन्नत्वं च प्रतियोगिविशेषणं तेन विशिष्टाभावः परमते विशेषणाभावात् , अस्मन्मते च विशेष्याभावादविशिष्ट इति भावः / मिश्रास्तु औपाधिकं चैतन्यं जन्यचैतन्यमित्यर्थः, एवं च विशिष्टाभावोऽस्मन्मते विशेष्याभावात् , परमते चोभयाभावादविशिष्ट इति वदन्ति / तच्चिन्त्यम् / तथासति विशेष्याभावमात्रस्यैवोभयसाधारण्ये विशेषणोपादानानुपपत्तेः। यत्तु घटाद्यतिप्रसङ्गवारणार्थमेव विशेषणपदमभावस्यैव च विशेषणन्तदभिधेयमिति / तत्तच्छम् / अतिप्रसङ्गस्यादोषत्वात् / अन्यथा दोषहीन इत्यादावपि तद्विशेषणोपादानापत्तेः। किञ्चाभा. वविशेषणतायां वेदान्तिमतसाधारण्यानुपपत्तिरेव / फलैकमत्येऽपीति / उक्तधर्मेणाविरोधेऽपि धर्मान्तरेण विरोधादित्यर्थः। तमेवोपपादयति। सर्वथेति। अनुभावाऽसाधारणमिति / न च पूर्व मकरन्दः / वदन्ति / तच्चिन्त्यम् / तथा सति विशेष्याभावस्यैवोभयमतसाधारणत्वे विशेषणवैयर्थ्यापत्तेः / यत्तु घटाद्यतिप्रसङ्गवारणार्थमेव सत्यन्तमिति / तच्चिन्त्यम् / तदतिप्रसङ्गस्यादोषत्वात् / अन्यथा दोषहीनत्वनित्यत्वादावपि तथात्वप्रसङ्गादिति / फलैक्येति / उक्तप्रकारावच्छिन्नधर्मिण्यैकमत्येऽपि प्रकारान्तरभेदेन दर्शनभेदादित्यर्थः / तदेवोपपादयति / सर्वथेति। टिप्पणी। भावात् / स्वमते द्वैताङ्गीकारेण घटादिभिन्ने तत्र विशिष्टाभावो विशेष्याभावादित्यविशिष्ट एव विशिष्टाभाव इति / न च चैतन्यात्मकत्वमात्रमुपेयं न्यायमते चैतन्यस्येश्वरधर्मत्वेन तदात्मकत्वाभावादिति वाच्यम् / साङ्खयमतसाधारण्याय तदुपादानात् , तन्मते चेतनस्य घटादिभिन्नत्वात् चैतन्यात्मकत्वाच्च विशिष्टाभावसत्त्वासम्भवात्। तदुपादानप्रकृतेः कार्यजनने स्वतन्त्रत्वेन चेतनस्याकारणतया चैतन्यस्यान्यत्र कार्यजनने प्रयोजकत्वलक्षणोपाधित्वासम्भवात् / न्यायवेदान्तमतयोरीश्वरस्य कारणतयोपादानसाक्षात्कारात्मकस्य मायावृत्तिप्रतिविम्बितचैतन्यात्मकस्य च ज्ञानपदाभिधेयस्य चैतन्यस्य कार्यजननप्रयोजकत्वेनास्त्युपाधित्वमिति भावः। सम्प्रदायप्रद्योतको वेदं (1) फलैक्येऽपीति पाठान्तरम् /