SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ प्रथमस्तवके ] ईश्वरे संशयाभावेन तन्निरूपणाक्षेपः। वैष्णवाः, पितामह इति पौराणिकाः, यज्ञपुरुष इति याशिकाः, सर्वज्ञ इति सौगतीः, निरावरण इति दिगम्बराः, उपास्यत्वेन देशित(१) इति मीमांसकाः, लोकव्यवहारसिद्ध इति चार्वाकाः, यावदुक्तोपपन्न इति नैयायिकाः, कि बोधनी। व्याख्यास्यति। पितामहः जगतामुत्पादकः / यज्ञपुरुषः यज्ञाधिष्ठातृदेवता। सर्वज्ञःक्षणिकसर्वज्ञः / निरावरणः = सर्वविषयकचैतन्याच्छादकत्वेन स्वकर्मार्जितं शरीरमावरणम् ; यद्वा वस्त्रादिभिरिव शरीरं धर्माधर्माभ्यामाब्रियते पुरुष इति तावेवावरणं, तद्रहितः। उपास्यत्वेन चोदितःचोदनासिद्धमुपास्यत्वं हविःप्रतियोगित्वं स्तुतिप्रतियोगित्वं चैव तस्य रूपं, न तु सर्ववित्सर्वकर्तृकत्वादिकमिति। लेोकव्यवहारसिद्धः-राजादिदृश्यमानः, चतुर्भुजादिरूपा प्रतिमा वा। याव प्रकाशः। पितामहो= जनकस्यापि जनकः / यज्ञे प्रधानमिज्यं यज्ञपुरुषः / सर्वज्ञः =क्षणिकसर्वज्ञः / निरावरण इति / आवरणमदृष्टमविद्या स्वकर्मोपाजितञ्च शरीरमस्य नास्तीत्यर्थः / उपास्यत्वेनेति / वेदोपदिष्टोपास्यभावः कश्चिन्मन्त्रादिरित्यर्थः। लोकेति / यथा लोके व्यवह्रियते चतुर्भुजाद्युपेतदेहवान् , नत्वदृश्य इत्यर्थः। यावदुक्तेति / यावदुक्तेषु यदुपपन्नं युक्तिमत् सर्वज्ञत्वादि, तेनोपपन्नः सम्पन्न इति मध्यपदलोपी समासस्तत्पुरुषः / यावदुक्तेषु उपपन्नः प्रामाणिको धर्मो यस्येति' बहुव्रीहिर्वा / न तु यावद्भिरुक्तैरुपपन्नः सहित इत्यर्थः , अद्वैताद्यनङ्गीकारेण यावद्यथाव्याख्यातार्थस्य नैयायिकैरनङ्गीकारात् / यद्वा सन्देह एव कुत इत्युपसंहारात् सर्वाण्येव दर्शनान्येकार्थपरतया व्याख्यायन्ते / शुद्धो = दोषहीनः, बुद्धस्वभावो = घटादिभिन्नत्वे सत्यौपाधिकचैतन्यरहितः, आदौ= प्रकाशिका। यतिस्मेति। पुरुषशब्दस्यार्थमात्रमतिप्रसक्तमत आह। प्रधानमिति / न्यायमतभेदाय व्याचष्टे / क्षणिकेति / एकार्थपरतयेति। अविरुद्धार्थतयेत्यर्थः। घटादीति / औपाधिकं चैतन्य मकरन्दः। इज्यत्वमात्रमतिप्रसक्तमत आह / प्रधानमिति / न्यायमतसाधारण्यमपाकरोति / क्षणिकेति / एकार्थेति / अविरुद्धार्थेत्यर्थः / घटादाति / औपाधिकं चैतन्यमन्यत्रोपाधिभूतं चैतन्यं घटादिभिन्नत्वसमानाधिकरणौपाधिकचैतन्यशून्यत्वमित्यर्थः, तथा च परमते विशेषणाभावात् , स्वमते च विशेष्याभावाद् विशिष्टाभावोऽविशिष्ट इति भावः। मिश्रास्तु औपाधिक चैतन्यं जन्यचैतन्यम् , एवं च विशिष्टाभावस्तन्मत उभयाभावादस्मन्मते च विशेष्याभावादिति टिप्पणी। ऽसङ्गतिरत आह–प्रधानमिज्यं यज्ञपुरुष इति। न्यायमतभेदायाह / क्षणिकसर्वज्ञ इति / वेदोपदिष्टोपास्यभावः कश्चिन्मन्त्रादिरिति / तन्मते मन्त्रादिभिन्नाया इन्द्रादिदेवताया अस्वीकारात् , यत इन्द्रोऽपीन्द्राय स्वाहेत्यादिना इन्द्रमुद्दिश्य यजते, स्वमुद्दिश्य स्वकर्तृकयागस्यासम्भवात् , इन्द्रान्तरस्वीकारेऽनवस्थानादतो मन्त्र एवोपासितः स्वरूपविशेषपरिणतः फलाय कल्पत इत्यादि तेषाम्मतमिति। बुधस्वभाव घटादिभिन्नत्वे सत्यौपाधिकचैतन्यरहित इति / अन्यत्रोपाधिभूतचैतन्यात्मकत्वमौपाधिकचैतन्यं घटादिभिन्नत्वञ्च विशेषणम् / तेन परमते घटादिभिन्नत्वे द्वैतापत्त्या विशेष्यवति तत्र विशिष्टाभावो विशेषणा (1) उपास्यत्वेन नोदित इति मुद्रितबोधन्युद्धृतः पाठः / 3 न्या० कु०
SR No.004382
Book TitleNyayakusumanjali
Original Sutra AuthorN/A
AuthorPadmaprasad Upadhyay, Dhundiraj Shastri
PublisherChaukhamba Sanskrit Series Office
Publication Year1957
Total Pages610
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy