SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ न्यायकुसुमाञ्जली [प्रथमःविरुद्धैरपि निर्लेपःस्वतन्त्रश्चेति महापाशुपताः, शिव इति शैवाः, पुरुषोत्तम इति बोधनी। स्वतन्त्रः कर्ता / महापाशुपताः = महाव्रतचारिणः पाशुपताः / शिवः = निस्त्रगुण्यः / पुरुषोत्तमः = पुरुषेभ्य उत्तमः / उत्तमत्वं च सर्वज्ञत्वमसंसारित्वं चेति स्वयमेव प्रकाशः। वेदविरुधैः-दारुवनद्विजवधूविध्वंसनैरुपलक्षितः(१)। इत्थम्भूतलक्षणे तृतीया / सोऽयमित्थम्भूतोऽपि निलेपः = पापरूपलेपरहित इत्यर्थः / करणे वा तृतीया। वेदविरुद्धहेतुक-भोगजनकविशेषगुणरहित इत्यर्थः / स च सुखं दुःखं धर्माधम्मौ चेति / मिथ्याज्ञानसलिलावसिक्तायामात्मभूमौ कर्मबीजं. धर्माधर्माङ्कुरमारभते, न तु तत्त्वज्ञाननिदाघनिपीतसलिलतयोषरायामिति भावः / स्वतन्त्रो जगत्कर्ता / शिवो = निस्वैगुण्यः / पुरुषेषूत्तमः सर्वज्ञत्वात् / प्रकाशिका / तृतीयार्थ इति मत्वा व्याचष्टे / उफ्लक्षित इति। लेपपदं दुःखस्यापि वाचकमिति प्रतियोगिन्येव करणस्यान्वयः, लोकविरुद्धहेतुकस्य दुःखस्यैव प्रसिद्धेरिति मत्वा व्याचष्टे। करण इति। ननु वेदविरुद्धेनापि कथं न पापमतमाह। मिथ्याज्ञानेति / ननु कर्मधारये उत्तमपदस्य सर्वज्ञार्थकस्य विशेषणपदतया पूर्वनिपातापत्तिः, षष्ठीसमासे च "न निर्धारणे” इति षष्ठीसमासनिषेध इति सप्तमीसमासमाह / पुरुषेष्विति / नच षष्ठीसमासनिषेधकस्य सप्तमीसमासनिषेधेऽपि तात्पर्यमन्यथा वैयर्थ्यापत्तिः सप्तमीसमासेनैव तदर्थकपदसाधुत्वात् षष्ठीसप्तम्योरभिन्नार्थकत्वादिति वाच्यम्। षष्ठीसमासनिषे. धस्य षष्ठीसमासनिषेधपरतयैवोपपत्तौ सप्तमीसमासनिषेधपरत्वाभावात्।वस्तुतो निर्धारणमेव नास्त्यत्र समस्यमानपदातिरिक्तमुखेन निर्धारणं पृथक्करणं यत्र समुदायादेकदेशस्य तत्रैव षष्ठीसमासनिषेधात्। अत एव नराणां क्षत्रियः शूरतम इत्यत्र नरक्षत्रिय इति पदं प्रतिषेधोदाहरणत्वेन वृत्तिकारो दर्श मकरन्दः। उपलक्षित इति / लेपपदे दुःखसाधारणतया व्याख्याते लोकविरुद्धकरणकलेपत्वं दुःख एव प्रसिद्धमित्याह / स चेति / कर्मधारये उत्तमपदस्य विशेषणपदतया पूर्वनिपातापत्तिः। षष्ठीसमासश्च “न निर्धारणे' [पा० सू०२।२।१०] इति निषिद्ध एवेति सप्तमीसमासमालम्बते / पुरुषेविति / यद्यपि षष्टीसप्तम्योरभेदात् सोऽपि निषिद्ध एव / अन्यथा तत्र तत्र सप्तमीसमासेनैवोपपत्तौ षष्टीसमासनिषेधयापत्तेः। तथापि निर्धारणस्याऽविवक्षायामयं समास इति ऋजवः / वस्तुतो जातिगुणक्रियाभिः समुदायादेकदेशस्य पृथक्करणं निर्धारणम् / यथा नराणां क्षत्रियः शूरतम इत्यत्र / तच्चात्र नास्तीति न निषेधः / तथाच समुदायसमुदायिवाचकपदयोः समासनिषेधस्यैव तत्सूत्रार्थत्वान्न निर्धारणप्रयोज कगुणादिविशेषवाचिपदसमासनिषेधोऽपीति तात्पर्यम् / एवञ्च षष्ठीसमासेऽप्यदोष इत्यवधेयम् / टिप्पणी। वेदविरुद्धनापि न पापमत आह / मिथ्याज्ञानसलिलेति / कर्मधारय उत्तमपदस्य विशेषणपरत्वेन पूर्वनिपातप्रसङ्गानिर्धारणसप्तमीसमासमाह / पुरुषेषूत्तम इति / पुरुषशब्दस्यार्थमात्रे (1) अत्र च पौराणिकी कथा शिवपुराणे कोटिरुद्रसंहितायां द्वादशाध्याये, लिङ्गपुराणे चैकोनत्रिंशदध्याये द्रष्टव्या।
SR No.004382
Book TitleNyayakusumanjali
Original Sutra AuthorN/A
AuthorPadmaprasad Upadhyay, Dhundiraj Shastri
PublisherChaukhamba Sanskrit Series Office
Publication Year1957
Total Pages610
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy